________________
१३८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-२/१०५
तत्र गम्भीरम्-अलब्धस्ताधं शीतलं जल यस्यां सा आनुपूर्व्यसुजातवप्रगम्भीरशीतजलला ताम्
___ “संछण्णपत्तभिसमुणाल मिति संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानियस्यांसा संछन्नपत्रबिसमृणालाताम्, इह विसमृणालसाहचर्यात्पत्राणि-पद्मिनीपत्राणिद्रष्टव्यानि, बिसानिकन्दाः मृणालानि-पद्मनालाः, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रैः केसरैः-केसरप्रधानैः फुलैः-विकसितैरुपचिताबहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचितातां, तथा षट्पदैः-प्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यस्याः सा षटपदपरिभुज्यमानकमला तां, तथाऽच्छेन-स्वरूपतः स्फटिकवच्छुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णातां । तथापडिहत्था अतिरेकता अतिप्रभूता इत्यर्थः भ्रमन्तो मत्स्यकच्छपा यस्यांसापडिहत्थभ्रमन्मत्स्यकच्छपा, तताअनेकैः शकुनिगणमिथुनकैः गणशब्दस्य प्राकृतत्वादस्थानेऽप्युपनिपातः, शकुनिमिथुनकैर्विचरितैः-इतस्ततः स्वेच्छया प्रवृत्तैः शब्दोन्नतिकम्उन्नतशब्दं मधुरस्वरंनादितं यस्यां सा अनेकशकुनिगणमिथुनकविचरितशब्दोन्नतिकमधुरस्वरनादिता, ततः पूर्वपदेन विशेषणसमासः, तां दृष्ट्वाऽवगाहेत, अवगाह्यच उष्णमपि परिदाहमपि शरीरस्य तत्र 'प्रविनयेत्' प्रकर्षणसर्वात्मनास्फोटयेत्, तथा क्षुधामपि प्रविनयेत् प्रत्यासन्नतटवर्त्तिशल्लक्यादिकिसलयभक्षणात्, तृषमपिप्रविनयेत्जलपानात्, ज्वरमपिपरिसंतापसमुत्थं प्रविनयेत् परिदाधक्षुत्पिपासाऽपगमात्, एवंसकलक्षुदादिदोषापगमतः सुखासिकाभावेन निद्रायेतप्रचलायेत, तत्र अनिद्रावान् निद्रावान् भवतीति व्यर्थविवक्षायां निद्रादिभ्यो धर्मिणि क्यबिति कर्मणि क्यप्प्रत्ययः,एवंप्रचलाशब्दादपि निद्रादेराकृतिगणत्वात्, निद्राप्रचलयोस्त्वयंविशेषः-सुखप्रबोधा स्वापावस्था निद्रा, ऊर्द्धस्थितस्यापि या पुनश्चैतन्यमस्फुटीकुर्वती समुपजायते निद्रा सा प्रचला, एवं च क्षणमात्रनिद्रालाभतोऽतिस्वस्थीभूतः।
‘स्मृति वा पूर्वानुभूतस्मरणं रतिं वा' तदवस्थाऽऽसक्तिरूपां 'धृतिं वा' चित्तस्वास्थ्यं 'मतिंवा सम्यगीहापोहरूपाम् ‘उपलभेत प्राप्नुयात्, ततः 'शीतः' बाह्यशरीरप्रदेशशीतीभावात्, 'शीतीभूतः' शरीरान्तरपि निवृतीभूतः सन् ‘संकसमाणे' इति सम्-एकीभावेन कसन्-गच्छ् 'सातसौख्यबहुलश्चापि' सातम्-आह्लादस्तप्रधानं सख्यं सातसौख्यं न त्वभिमानमात्रजनितमालादविरहितं सातसौख्येन बहुलो-व्याप्तः सातसौख्यबहुलश्चापि विहरेत्' स्वेच्छयापरिभ्रमेत्
"एवमेव अनेनैवानन्तरोदितदृष्टान्तप्रकारेण हेगौतम! 'असद्भावप्रस्थापनया' असद्भावकल्पनया नेदं वक्ष्यमाणमभूत् केवलं नरकगतोष्णवेदनायाथास्यप्रतिपत्तयेऽसत्कल्प्यत इति भावः, उष्णवेदनेभ्यो नरकेभ्यो नैरयिकोऽनन्तरमुद्वर्तितो विनिर्गतः सन् ‘यानि इमानि प्रत्यक्षत उपलभ्यमानानि इह' मनुष्यलोकेस्थानानि भवन्ति, तद्यथा-"गोलियालिंगाणि वा, सोंडियालिंगाणि वा, भिंडियालिंगाणि वा, एते अनेराश्रयविशेषाः, अन्ये तु देशभेदनीत्या पिष्टपाचनकाग्यादिभेदेनैतेषां स्वरूपं कथयन्ति, तदप्यविरुद्ध मेवेति, तैलाग्निरिति वा तुषाग्निरिति वा बुसा० वानडा० वा, नडः-तृणविशेषः। 'अयागराणीतिवा' आर्षत्वान्नपुंसकनिर्देशः अयआकरा इतिवा, येषु निरन्तरं महामूषा-स्वयोदलं प्रक्षिप्याऽय उत्पाटयते ते अयआकराः, एवं ताम्राकरा इति वात्रप्वाकराइति वा सीसकाकराइतिवारूप्या० सुवर्णा० हिरण्याकराइतिवा, सुवर्णहिरण्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org