________________
१३६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-२/१०५
कैरव्यः कौरव्यगोत्रौ ब्रह्मदत्तश्चलनीसुतः तेणंतत्थ वेयणं वेयंती' त्याति, 'ते' परशुरामादयस्तत्रअप्रतिष्ठाने नरके वेदनां वेदयन्ते उज्ज्वला यावद् दुरध्यासामिति प्राग्वत् ।
सम्प्रति नेरकेषूष्णवदनायाः स्वरूपमभिधित्सुराह–'उसिणवेदणिज्जेसुणं भंते!' इत्यादि, उष्णवेदनेषुणमितिपूर्ववत् भदन्त! नरकेषु नैरयिकाःकीशीमुष्णवेदनांप्रत्यनुभवन्तः-प्रत्येकं वेदयमाना विहरन्ति?, भगवानाह-गौतम! स 'यथानामकः' अनिर्दिष्टनामकः कश्चित् ‘कारदारकः' लोहकारदारकः स्यात्, किंविशिष्टः ? इत्याह
_ 'तरुणः' प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति ततः किमनेन विशेषणेन?,न,आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, नह्यासन्नमृत्युप्रवर्द्धमानवया भवति, नचतस्य विशिष्टसामर्त्यसम्भवः, आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थश्चैष आरम्भस्ततोऽर्थवद्विशेषणम्, अन्येतुव्याचक्षते-इह यद्व्यं विशिष्टवर्णादिगुणोपेतमभिनवंचतत्तरुणमिति लोके प्रसिद्धं, यथा तरुणमिदमश्वत्थपत्रमिति, ततः स कर्मारदारकस्तरुण इति किमुक्तं भवति?-अभिनवो विशिष्टवर्णादिगुणोपेतश्चेति, बलं-सामर्थ्य तदस्यास्तीति बलवान, तथा युगं-सुषमदुष्षमादिकालः स स्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान्, किमुक्तं भवति?
कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्यर्थमेतद्विशेषणं, युवायौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानम्, 'अप्पायंके इतिअल्पशब्दोऽभाववाची अल्पः-सर्वथाऽविद्यमान आतङ्को-ज्वरादिर्यस्यासावल्पातङ्गः, 'थिरग्गहत्थे स्थिरौ अग्रहस्तो यस्यसस्थिराग्रहस्तः, 'दढपाणिपायपासपिटुंतरोरुपरिणए' इति दृढानि-अतिनिबिडचयापन्नानि पाणिपादपार्श्वपृष्ठान्तरोरूणि परिणतानि यस्य स इंढपाणिपादपार्श्वपृष्ठान्तरोरुपपरिणतः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, तथा घनम्-अतिशयेन निचितौ-निबिडतरचयमापन्न वलिताविव वलितौ वृत्तौ स्कन्धौ यस्य सघननिचितवलितवृत्तस्कन्धः।
'चम्मेठ्ठगदुघणमुठियसमाहयनिचियगायगत्ते' चर्मेष्टकेन द्रुघणेन मुष्टिकाच-मुष्ट्याच समाहत्य ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रास्तेषामिव गात्रं यस्य स चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रगात्रः, 'उरस्सबलसमन्नागए' इति उरसि भवभुरस्यं तच्चतद्वलंचउरस्यबलंतच्चसमन्वागतः-समनुप्राप्त उरस्यबलसमन्वागतः,आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजमलजुयलबाहू' इति, तलौ-तालवृक्षौ तयोर्यमलयुगलं-समश्रेणीकं युगलं तलयमलयुगलं, तद्वदतिसरलौ पीवरौ च बाहू यस्य स तलयमलयुगलबाहुः ।
‘लंघणपवणजवणपमद्दणसमत्थे' इति, लङ्घने-अतिक्रमणे प्लवने-मनाक् पृथुतरविक्रमगतिगमने जवने अतिशीव्रगतौ प्रमर्दने-कठिनस्यापि वस्तुनश्चूर्णनकरणे समर्थः लङ्घनप्लवनजवनप्रमर्दनसमर्थः, क्वचित् ‘लंघणपवणजवणवायामणसमत्थे' इति पाठस्तत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, 'छेकः' द्वासप्ततिकलापण्डितः ‘दक्षः' कार्याणामविलम्बितकारी, 'प्रष्ठः' वाग्गमी 'कुशलः' सम्यक्कियापरिज्ञानवान् ‘मेधावी' परस्पाव्याहतपूर्वापरानुसन्धानदक्षः,अतएव 'निपुणसिप्पोवगए' इतिनुपणं यथा भवति एवं शिल्पं-क्रियासु कौशलमुपगतः-प्राप्तो निपुणशिल्पोपगतः, एकं महान्तमयस्पिण्डम् ‘उदकवारकसमानं' लघुपानीयघटसमानंगृहीत्वा ‘तम् अयस्पिण्डंतापयित्वातापयित्वाततोघनेन कुट्टयित्वा कुट्टयित्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org