________________
१३५
प्रतिपत्तिः - ३, नै०-उद्देशकः २ व्यतिरेकेण चान्यत् सर्वमपि भूम्यादि खादिराङ्गारादपि महाप्रतप्तमतस्ते उष्णवेदनामनुभवन्ति, नापि शीतोष्णां वेदनां वेदयन्ते, शीतोष्णस्वभावतया वेदनाया नरकेषु मूलतोऽप्यसम्भवात्।
एवं शर्कराप्रभावालुकाप्रभानैरयिका अपिवक्तव्याः, पङ्गप्रभापृथिवीनैरयिकपृच्छायाम् भगवानाह-गौतम! शीतीमपि वेदनां वेदयन्तेनरकावासभेदेनोष्णामपिवेदनांवेदयन्तेनकरावासभेदेनैव, न तु शीतोष्णां, तत्र ते बहुतरा ये उष्णां वेदनां वेदयन्ते, प्रभूततराणां शीतयोनित्वात्, तेस्तोकतरा येशीतांवेदनां वेदयन्ते, अल्पतराणामुष्णयोनित्वात्, एवं धूमप्रभायामपिवक्तव्यं, नवरंतेबहुतराये शीतवेदनांवेदयन्ते, बहुनामुष्णयोनित्वात्, तेस्तोकतराये उष्णवेदनां वेदयन्ते, अल्पतराणांशीतयोनित्वात्।तमःप्रभापृथिवीनैरयिकपृच्छायांभगवानाह-गौतम! शीतांवेदना वेदयन्तेनोष्णांनापिशीतोष्णां, तत्रत्यानां सर्वेषामुष्णयोनित्वात्, योनिस्थानव्यतिरेकेण चान्यस्य सर्वस्यापिनरकभूम्याहेर्महाहिमानीप्रख्यत्वात्, एवं तमस्तमाप्रभापृथिवीनैरयिकाअपिवक्तव्या; नवरंपरमांशीतवेदनांवेदयन्तेइतिवक्तव्यं, तमःप्रभापृथिवीतः तमस्तमप्रभापृथिव्यांशीतवेदनाया अतिप्रबलत्वात्।
सम्प्रति भवानुभवप्रतिपादनार्थमाह- ‘रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीशं नरकभवं प्रत्यनुभवतः प्रत्येकं वेदयमानाः 'विहरन्ति' अवतिष्ठन्ते?, भगवानाह-गौतम ! रत्नप्रभापृथिवीनैरयिका नित्यं' सर्वकालं क्षेत्रस्वभावजमहानिबिडान्धकारदर्शनतो भीताः, सर्वत उपजातशङ्कत्वात्, तथा 'नित्यं सर्वकालं स्वत एवाग्रेऽपि त्रस्ताः' परमाधार्मिकदेवपरस्परोदीरितदुःखसंपातभयानसमुपपन्नाः, तथा 'नित्यं सर्वकालं परमाधार्मिकैः परस्परंवा 'त्रासिताः' त्रासंग्राहिताः, तथा नित्यमुद्विग्नाः' यथोक्तरूपदुःखानुभवतस्तद्गतावासराङ्मुखचित्ताः, तथा 'नित्यं सर्वकालम् 'उपप्लुताः' उपप्लवेनोपेता न तु मनागपि रतिमासादयन्ति, एवं 'नित्यं' सर्वकालंपरममशुभम् ‘अतुलम्' अशुभत्वेनानन्यसध्शम् 'अनुबद्धम् अशुभत्वेन निरन्तरमुपचितं निरयभवं प्रत्यनुभवन्तः' प्रत्येकं वेदयमाना विहरन्ति ।
एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तमी, अस्यां चाधःसप्तम्यां क्रूरकर्माणः पुरुषा उत्पद्यन्ते नान्ये, तथा चास्यैवार्थस्य प्रदर्शनार्थं पञ्च पुरुषान् उपन्यस्यति-'अहेसत्तमाए णमित्यादि, अधःसप्तम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्माणस्वरूपाः पञ्च पुरुषान् उपन्यस्यति-'अहेसत्तमाए णमित्यादि, अधःसप्तम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्यमाणस्वरूपाः पञ्च महापुरुषाः ‘अनुत्तरैः' सर्वोत्तमप्रकर्षप्राप्तैः ‘दण्डसमादानैः' समादीयते कर्म एभिरिति समादानानि-कर्मोपादानहेतवः दण्डाएव-मनोदण्डादयः प्राणव्यपरोपणाध्यवसायरूपाः समादानानि दण्डसमादानानि तैः कालमासे कालं कृत्वोत्पन्नाः।
तद्यथा-रामोजामदग्निसुतः पशुराम इत्यर्थः, दाढादालःछातीसुतः, वसूराजा उपरिचरः, सहि देवताऽधिष्ठिताकाशस्फटिकसिंहासनोपविष्टः सन्नाकाशस्फटिकमयस्य सिंहासनस्यादर्शनतो लोकेष्वेवं प्रसिद्धिमगमत-सत्यवादी किलैष वसुराजा न प्राणात्ययेऽप्यलीकं भाषते ततः सत्त्वावर्जितदेवताकृतप्रातिहार्य एवमुपर्याकाशेचरतीति, सचान्यदा हिंस्रवेदार्थप्ररूपकस्य पर्वतस्य पक्षमभिगृह्य सम्यग्दृष्टे रदस्य पक्षमनभिगृह्णन्नलीकवादित्वात्प्रकुपितदेवताचपेटाहतः सिंहासनात्परिभ्रष्टोरौद्राध्यामभिरूढः सप्तमपृथिव्यामप्रतिष्ठाननरकमयासीत्, सुभूमोऽष्टमश्चक्रवर्ती
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org