________________
१३४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-२/१०५
'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! प्रत्येकं किम् ‘एकत्वम्' एवं रूपं विकुर्वितुं प्रभवः उत 'पृथक्त्वं' पृथक्त्वशब्दो बहुवाची, आह च कर्मप्रकृतिसङ्ग्रहणि
चूर्णिकारोऽपि-''पुहुत्तशब्दोबहुत्तवाई" इति, प्रभूतानि रूपाणिविकुर्वितुंप्रभवः?, विकुर्वविक्रयायाम्' इत्यागमप्रसिद्धो धातुरस्ति यस्य विकुर्वाण इति प्रयोगस्ततो विकुर्वितुमित्युक्तं, भगवानाह-एकत्वमपि प्रभवो विकुर्वितुं पृथक्त्वमपि प्रभवो विकुर्वितुं, तत्रैकं रूपं विकुर्वतो मुद्गररूपंवा मुद्गरः-प्रतीतः मुषण्ढिरूपं वा मुषण्ढि-प्रहरणविशेषः, करपत्ररूपंवाअसिरूपं वा शक्तिरूपं वा हलरूपं वा गदारूपं वा मुशलरूपं वा चक्ररूपं वा नाराचरूपं वा कुन्तरूपं वा तोमररूपं वा शूलरूपं वा लकुटरूपं वा भिण्डमालरूपं वा विकुर्वन्ति, करपत्रादयः प्रतीताः, भिण्डमालः-शस्त्रजातिविशेषः, अत्र सङ्ग्रहणिगाथा कचित्पुस्तकेषु॥१॥ “मुग्गरमुसुंढिकरकयअसिसत्ति हलं गयामुसलचक्क ।
नारायकुंततोमरसूललउडभिंडिमाला य॥" गतार्था, नवरं 'करकय'त्ति क्रकचं करपत्रमित्यर्थः, पृथक्त्वं विकुर्वन्तो मुद्गररूपाणि वा यावत् भिण्डमालरूपाणि वा, तान्यपि सहशानि, 'नोऽसद्दशानि' असमानरूपाणि, तथा 'सङ्ख्येयानि' परिमितानि न ‘असङ्खयेयानि' सङ्ख्यातीतानि, विसशकरणेऽसङ्खयेयकरणे वा शक्त्यभावात्, तथा 'संबद्धानि' स्वात्मनः शरीरसंलग्नानि 'नासंबद्धानि' नस्वशरीरात्पृथग्भूतानि, स्वशरीरात्पृथग्भूतकरणे शक्त्यभावात्, विकुर्वन्ति, विकुर्वित्वाऽ-न्योऽन्यस्य कायमभिघ्नन्तो वेदनामुदीरयन्ति, किंविशिष्टामित्याह
‘उज्ज्वलां' दुःखरूपतया जाज्वल्यमानां सुखलेशेनयकलङ्कितामिति भावः, 'विपुलां' सकलशरीरव्यापितया विस्तीरणां 'प्रगाढां' प्रकर्षेण मर्मप्रदेशव्यापितयाऽतीवसमवगाढांकर्कशामिव कर्कशां, किमुक्तं भवति ?-यथा कर्कशः पाषाणसंघर्ष शरीररस्य खण्डानि त्रोटयति एवमात्मप्रदेशान् त्रोटयन्तीव या वेदनोपायते सा कर्कशा तां, कटुकामिव कटुकां पित्तप्रकोपपरिकलितवपुषो रोहिणीं-कटुद्रव्यमिवोपभुज्यमानमतिशयेनाप्रीतिजनिकामिति भावः, तथा “परुषां' मनसोऽतीव रौक्ष्यजनिकां निष्ठुराम्' अशक्यप्रतीकारतयादुर्भेदां चण्डां' रूद्रां रौद्राध्यवसायहेतुत्वात् 'तीव्राम्' अतिशायिनी दुःखां' दुःखरूपां 'दुर्गा' दुर्लङ्घयामत एव दुरधिसह्याम्, एवंपृथिव्यांतावद्वक्तव्यं यावत्पञ्चम्याम् । 'छट्टसत्तमीसुण मित्यादि, षष्ठसप्तम्योः पुनः पृथिव्या' रयिकाः बहूनि महान्ति गोमयकीट-प्रमाणत्वात्, ‘लोहितकुन्थुरूपाणि' आरक्तकुन्थुरूपाणि वज्रमयतुण्डानि, गोमयकीटसमानानि विकुर्वन्ति, विकुर्वित्वा अन्योऽन्यस्य' परस्परस्य 'कार्य' शरीरं समतुरङ्गाइवाचरन्तः समतुरङ्गाय-माणाः, अश्वाइवान्योऽन्यमारुहन्त इत्यर्थः, 'खायमाणा स्वार्थमाणा' भक्षयन्तो २ ऽन्तरन्तः ‘अनुप्रवेशयन्तः' अनुप्रविशन्तः 'सयपोरागकिमिया इव' शतपर्वकृमय इव इक्षुपर्वकृमय इव 'चालेमाणा २ शरीरस्य मध्यभागेन संचरन्तः संचरन्तो वेदनामुदीरयन्त्युज्वलामित्यादि प्राग्वत् । सम्प्रति क्षेत्रस्वभावजां वेदनां प्रतिपादयति
‘रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किं शीतां वेदनां वेयन्ते उष्णां वेदनां वेदयन्ते शीतोष्णां वा ?, भगवानाह-गौतम ! न शीतां वेदनां वेदयन्ते किन्तु उष्णां वेदनां वेदयन्ते, ते हि शीतयोनिका योनिस्थानां केवलहिमानीप्रख्यशीतप्रदेशात्मकत्वात्, योनिस्थान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org