SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, नै०-उद्देशकः२ १२७ हत्थ तिय तिन्नि अङ्गुल पयरे पयरे य वुड्डी य॥ ॥२॥ एक्कारसमे पयरे पन्नरस धणूणि दोण्णि रयणीओ। ___ बारस य अंगुलाई देहपमाणं तु विन्नेयं ॥ अत्र 'सोचेव य बीयाए' इति य एव प्रथमपृथिव्यां त्रयोदशे प्रस्तटे उत्सेधो भणितो यथा सप्त धनूंषि त्रयो हस्ताः षट्चाङ्गुलानीति स एव द्वितीयस्यां शर्कराप्रभायां पृथिव्यां प्रथमे प्रस्तटे उत्सेधो भवति, शेषं सुगमम्। वालुकाप्रभायाः प्रथमे प्रस्तटे पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चाङ्गुलानि, अत ऊर्ध्वं तु प्रतिप्रस्तटं सप्त हस्ताः सार्धानि चैकोनविंशतिरङ्गुलानि क्रमेण प्रक्षेप्तव्यानि, तत एवं परिमाणं भवति-द्वितीयेप्रस्तटेसप्तदशधनूंषि द्वौ हस्तौसार्धानि सप्ताङ्गुलानि, तृतीये एकोनविंशतिरधनूंषि द्वौ हस्तौ त्रीण्यङ्गुलानि, चतुर्थे एकविंशतिर्धनूंषि एको हस्तः सार्धानि च द्वाविंशतिरङ्गुलानि, पञ्चमे त्रयोविंशतिर्धनूंषि एको हस्तोऽष्टादश चाङ्गुलानि, षष्ठे पञ्चविंशतिर्धनूंषि एको हस्तः सानित्रयोदशाङ्गुलानि, सप्तमेसप्तविंशतिर्धनूंषिएको हस्तो नवचाङ्गुलानि, अष्टमे एकोनत्रिंशद् धनूंषि एको हस्तः सार्द्धानि चत्वार्यङ्गुलानि, नवमे एकत्रिंशद्धनूंषि एको हस्तः, उक्तञ्च॥१॥ “सो चेव य तइयाए पढमे पयरंमि होइ उस्सेहो। सत्त य रयणी अंगुल गुणवीसं सड्ड वुड्डी य॥ ॥२॥ पयरे पयरे य तहा नवमे पयरंमि होइ उस्सेहो । धणुयाणि एगतीसं एक्कारयणी य नायव्वा ।। अत्रापि सोचेवयतंइयाएपढमेपयरंमिहोइ उस्सेहो' इतिय एव द्वितीयस्यांशर्कराप्रभायामेकादशे प्रस्तटे उत्सेधः स एव तृतीयस्यां वालुकाप्रभायां प्रथमे प्रस्तटे भवति, शेषं सुगमं । पङ्कप्रभायाः प्रथमे प्रस्तटे एकत्रिंशद्धनूंषि एको हस्तः, तत ऊर्ध्व तु प्रतिप्रस्तटं पञ्च धनूंषि विंशतिरडलानि क्रमेण प्रक्षेप्तव्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटे षट्त्रिंशद्धनूंषि एकोहस्तो विंशतिरकुलानि, तृतीये एकचत्वारिंशद्धनूंषि द्वौ हस्तौ षोडशाङ्गुलानि, चतुर्थेषटचत्वारिंशद्धनूंषि त्रयोहस्ता द्वादशाङ्गुलानि, पञ्चमेद्विपञ्चाशद्धनूंषि अष्टावकुलानि, षष्ठे सप्तपञ्चाशद्धनूंषि एको हस्तश्चत्वार्यङ्गुलानि, सप्तमे द्वाषष्टि धनूंषि द्वौ हस्तौ, उक्तञ्च॥१॥ “सो चेव चउत्थीए पढमे पयरंमि होइ उस्सेहो। पञ्च धणु वीस अंगुल पयरे पयरे य वुड्डी य॥ ॥१॥ जा सत्तमए पयरे नेरइयाणं तु होइ उस्सेहो । बासट्ठी धणुयाइंदोन्नि य रयणी य बोद्धव्वा । अत्रापि सोचेवे' त्यस्यार्थ पूर्वानुसारेणभावनीयः।धूमप्रभायाः प्रथमे प्रस्तटेद्वाषष्टिर्धषि द्वौ हस्तौ, तत ऊर्ध्वं तु प्रतिप्रस्तटं पञ्चदश धनूंषि सार्द्धहस्तद्वयाधिकानि क्रमेण प्रक्षेप्तव्यानि, तेनेदं परिमाणं भवति-द्वितीये प्रस्तटेऽष्टसप्ततिर्धनूंषि एकावितस्ति, तृतीये त्रिनवतिर्धनूषि त्रयो हस्तः, चतुर्थेनवोत्तरं धनुःशतमेको हस्तएका वितस्ति, पञ्चमे पञ्चविंशं धनुःशतं, उक्तञ्च॥१॥ “सो चेव पंचमीए पढमे पयरंमि होइ उस्सेहो। पनरस धणूणि हो हत्थ सड्ढ पयरेसु वुड्डी य॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy