SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ /नै०-२/१०२ चैवं-द्विविधा रत्नप्रभापृथिवीनैरयिकाणां शरीरारावगाहना - भवधारणीया उत्तरवैक्रिया च, तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलासङ्घयेयभाग उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट् परिपूर्णान्यङ्गुलानि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्ख्येयभाग उत्कर्षतः पञ्चदश धनूंषि द्वौ हस्तावेका वितस्ति, शर्कराप्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्घयेयभाग उत्कर्षतः पञ्चदश धनूंषि द्वौ हस्तावेका वितस्ति, उत्तरवैक्रिया जघन्यतोऽङ्गसङ्घयेयभाग उत्कर्षत एकत्रिंशद्धनूंषि एको हस्तः, वालुकाप्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्ख्येयभाग उत्कर्षत एकत्रिंशद्धनूंषि एको हस्तः, सार्द्धानि द्वाषष्टिधनूंषि, उत्तरवैक्रया जघन्यतोऽङ्गुलसङ्घयेयभाग उत्कर्षतः पञ्चविंशं धनुःशतं -धूमप्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्घयेयभाग उत्कर्षतः पञ्चविंशं धनुःशतं, उत्तरवैक्रिया जघन्योऽङ्गुलसङ्घयेयभाग उत्कर्षतोऽर्द्धतृतीयानि धनुःशतानि, तमः प्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्घयेयभागमात्रा उत्कर्ष,तोऽर्द्धतृतीयानि धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्खयेयभाग उत्कर्षतः पञ्चधनुःशतानि, तमस्तमः प्रभाया भवधारणीया जघन्यतोऽङ्गुलासङ्घयेयभाग उत्कर्षतः पञ्च धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्घयेयभाग, उत्कर्षतो धनुः सहस्रमिति । १२६ यदि पुनः प्रतिप्रस्तटे चिन्ताक्रियते तदैववगन्तव्या - तत्र जघन्या भवधारणीया सर्वत्राप्यङ्गुलासङ्घयेयभागः, उत्तरवैक्रिया तु अङ्गुलसङ्घयेयभागः, उक्तं च मूलटीकाकारेणान्यत्र - “उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यङ्गुलसङ्ख्येयभागमात्रैवेति, उत्कृष्टा तु भवधारणीयाया रत्नप्रभायाः प्रथमे प्रस्तटे त्रयो हस्ता अत ऊर्ध्वं क्रमेण प्रतिप्रस्तटं सार्द्धानि षटपञ्चाशदङ्गुलानि प्रक्षिप्यन्ते, तत एव परिमाणं भवति, द्वितीये प्रस्तटे धनुरेकमेको हस्तः सार्द्धानि चाष्टावङ्गुलानि, तृतीये धनुरेकं त्रयो हस्ताः सप्तदशाङ्गुलानि, चतुर्थे द्वे धनुषी द्वौ हस्तो सार्द्धमेकमङ्गुलं, पञ्चमे त्रीणि धनूंषि दशाङ्गुलानि, षष्ठे त्रीणि धनूंषि द्वौ हस्तौ सार्द्धान्यष्टादशाङ्गुलानि, सप्तमे चत्वारि धनूंषि को हस्तस्त्रीणि चाङ्गुलानि, अष्टमे चत्वारि धनूंषि त्रयो हस्ताः सार्द्धान्येकादशाङ्गुलानि, नवमे पञ्च धनूंषि एको हस्तो विंशतिरङ्गुलानि, दशमे षड् धनूंषि सार्द्धानि चत्वार्यङ्गुलानि, एकादशे षड् धनूंषि द्वौ हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धनूंषि सार्द्धान्येकविंशतिरङ्गुलानि, त्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट्च परिपूर्णान्यङ्गुलानि, उक्तञ्च 119 11 “रयणाए पढमपयरे हत्थतियं देह उस्सए भणियं । छप्पन्नंगुलसड्ढा पयरे पयरे हवइ वुड्डी ॥” . शर्कराप्रभायां प्रथमे प्रस्तटे सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुलानि, अत ऊर्ध्वंतु प्रतिप्रस्तटं यो हस्तास्त्रीणि चाङ्गुलानि क्रमेण प्रक्षेप्तव्यानि तत एवं परिमाणं भवति-द्वितीये प्रस्तटेऽष्ट धनूंषि द्वौ हस्तौ नव चाङ्गुलानि, तृतीये नव धनूंषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे दश धनूंषि पञ्चदशाङ्गुलानि पञ्चमे दश धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि, षष्ठे एकादश धनूंषि द्वौ हस्तावेकविंशतिरङ्गुलानि, सप्तमे द्वादश धनूंषि द्वौ हस्तौ, अष्टमे त्रयोदश धनूंषि एको हस्तस्त्रीणि चाङ्गुलानि, नवमे चतुर्दश धनूंषि षट्चाङ्गुलानि, दशमे चतुर्दश धनूंषि त्रयो हस्ता नव चाङ्गुलानि, एकादशे पञ्चदश धनूंषि द्वौ हस्तौ एका वितस्ति, उक्तञ्च 119 11 “सो चेव य बीयाए पढमे पयरंमि होइ उस्सेहो । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy