SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, नै० - उद्देशकः २ ११९ थाली पिहडग किण्ह (ग) उडए मुरवे मुयंगे य ॥ नंदिमइंगे आलिंग सुघोसे इद्दरे य पणवे य । पडहगझल्लरिभेरीकुत्तुबगनाडिसठाणा ।। कण्डुः पाकस्थानं लोहीकटाही प्रतीतौ तद्वत्संस्थानाः स्थाली - उषा पिहडं - यत्र प्रभूतजनयोग्यं धान्यं पच्यते उटजः - तापसाश्रमो मुरजोमर्द्दलविशेषः नन्दीमृदङ्गो - द्वादशविध - तूर्यान्तर्गतो मृदङ्गः, स च द्विधा, तद्यथा-मुकुन्दो मर्दलश्च तत्रोपरि सङ्कुचितोऽधो विस्तीर्णो मकुन्दः उपर्यधश्च समो मर्द्दलः आलिङ्गो - मृन्मयो मुरजः सुघोषो - देवलोकप्रसिद्धो घण्टाविशेष आतोद्यविशेषो वा दर्दरो - वाद्यविशेषः पणवो - भाण्डानां पटहः पटहः - प्रतीतः, भेरी-ढक्का, झल्लरी- चर्मावनद्धा विस्तीर्णवलयाकारा, कुस्तुम्बकः-संप्रदायगम्यः, नाडी- घटिका, एवं शेषास्वपि पृथिवीषु तावद्वक्तव्यं यावत्षष्ठयां, सूत्रपाठोऽप्येवम्- “सक्करप्पभाए णं भंते! पुढवीए नरका किंसंठिया प० गो० ! दुविहा प० - आवलिकापविट्ठा य आवलियाहबाहिरा य" इत्यादि । अघः सप्तमीविषयं सूत्रं साक्षादुपदर्शयति- 'अहेसत्तमाए णं भंते!' इत्यादि, अघः सप्तम्यां भदन्त ! पृथिव्यां नरकाः 'किंसंस्थिताः' किमिव संस्थिताः प्रज्ञप्ताः ?, भगवानाह - गौतम ! द्विविधाः प्रज्ञप्ताः, तद्यथा- 'वट्टेय तंसाय' इति, अघः सप्तम्यां हि पृथिव्या नरका आवलिकाप्रविष्टा एव न आवलिकाबाह्याः, आवलिकाप्रविष्टा अपि पञ्च, नाधिकाः, तत्र मध्येऽप्रतिष्ठानाभिधानो नरकेन्द्रो वृत्तः, सर्वेषामपि नरकेन्द्राणां वृत्तत्वात्, शेषास्तु चत्वारः पूर्वादिषु दिक्षु, ते च त्र्यनाः, तत उक्तं वृत्तश्च त्र्यनश्च । ॥२॥ सम्प्रति नरकावासानां बाहल्यप्रतिपादनार्थमाह- 'इमीसे ण' मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कियद्बाहल्येन - बहलस्य भावो बाहल्यं - पिण्डभाव उत्सेध इत्यर्थः तेन प्रज्ञप्ताः ?, भगवानाह - गो० ! त्रीणि योजनसहस्राणि बाहल्येन प्रज्ञप्ताः, तद्यथा - अधस्तने पादपीठे घना-निचिताः सहस्रं - योजनसहस्रं, मध्ये - पीठस्योपरि मध्यभागे सुषिराः सहस्रं - योजनसहस्रं, तत 'उष्पिं 'ति उपरि सङ्कुचिताः शिखराकृत्या सङ्कोचमुपगता योजनसहस्रं, तत एवं सर्वसङ्ख्यया नरकावासानां त्रीणि योजनसहस्राणि बाहल्यतो भवन्ति, एवं पृथिव्यां २ तावद्वक्तव्यं यावदघः सप्तम्यां तथा चोक्तमन्यत्रापि - || 9 || "हेट्ठा घणा सहस्सं उप्पिं संकोचतो सहस्सं तु । मज्झे सहस्स सुसिरा तिन्नि सहस्सूसिया नरया ।।” सम्प्रति नरकावासानामायामविष्कम्भप्रतिपादनार्थमाह- 'इमीसे मं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किंप्रमाणमायामविष्कम्भेन, समाहारो द्वन्द्वस्तेनायामविष्कम्भ्याभ्यामित्यर्थः, कियत् 'परिक्षेपेण' परिरयेण प्रज्ञप्ताः ?, भगवानाह - गौतम ! द्विविधाः प्रज्ञप्ताः, तद्यथा–सङ्घयेयंविस्तृताश्च असङ्घयेयविस्तृताश्च, सङ्घयेययोजनप्रमाणं विस्तृतंविस्तरो येषां ते सङ्घयेयविस्तृताः, एवमसङ्घयेयं विस्तृतं येषां ते असङ्घयेयविस्तृतः, चशब्दौ स्वगतानेकसङ्ख्याभेदप्रकाशनपरी, तत्र ये ते सङ्घयेयविस्तृतास्ते सङ्घयेयानि योजनसहस्राणि आयामविष्कम्भेन सङ्घयेयानि योजनसहस्राणि परिक्षेपेण, तत्र येतेऽसङ्घयेयविस्तृतास्तेऽसङ्ख्येयानि योजनसहस्राण्यायामविष्कम्भेन असङ्खयेयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्तानि, एवं प्रतिपृथिनवि तावद्वक्तव्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy