________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / नै०-१/९३
मित्यादि, तस्यैव पङ्कबहुलस्य काण्डस्याधस्तनश्चरमान्त एकं योजनशतसहस्रमबाधयाऽन्तरंप्रज्ञप्तं । 'इमीसे ण'मित्यादि, अस्य भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाच्चरमान्तात्परतोऽबबहुलस्य काण्डस्य य उपरितनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह - गौतम ! एकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं ।
११४
'इमीसेण 'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाच्चरमान्तात्परतोऽबबहुलस्य काण्डस्य योऽधस्तनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह - गौतम ! अशीत्युत्तरं योजनशतसहस्रम् । घनोदधेरुपरितने चरमान्ते पृष्टे एतदेव निर्वचनमशीत्युत्तरयोजनशतसहस्रम् अधस्तने पृष्टे इदं निर्वचनं द्वे योजनशतसहस्र अबाधयाऽन्तरं प्रज्ञप्तम् । धनवातस्योपरितने चरमन्ते पृष्टि इदमेव निर्वचनं, घनोदध्यधस्तनचरमान्तस्य घनवातोपरितनचरमान्तस्य च परस्परं संलग्नत्वात् । घनवातस्याधस्तने चरमान्ते पृष्टे एतन्निर्वचनम्-असङ्ख्येयानि योजनशतसहस्राण्यबाधयाऽन्तरं प्रज्ञप्तम् । एवं तनुवातस्योपरितने चरमान्ते अधस्तने चरमान्ते अवकाशान्तरस्याप्युपरितनेऽधस्तने च चरमान्ते इत्थमेव निर्वचनं वक्तव्यम्, असङ्घयेयानि योजनशतसहस्रण्यबाधयाऽन्तरं प्रज्ञप्तमिति, सूत्रपाठस्तु प्रत्येकं सर्वत्रापि पूर्वानुसारेण स्वयं परिभावनीयः सुगमत्वात् ।
'दोच्चारणं' इत्यादि, द्वितीयस्या भदन्त ! पृथिव्या उपरितनाच्चरमान्तात्परतो योऽधस्तनश्चरमान्त एतत् 'कियत्' किंप्रमाणमबाधयाऽन्तरं प्रज्ञप्तम् ?, भगवानाह - गौतम ! 'द्वात्रिंशदुत्तरं ' द्वात्रिंशत्सहस्राधिकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तम् । घनोदधेरुपरितने चरमान्ते पृष्टे एतदेव निर्वचनं द्वात्रिंशदुत्तरं योजनशतसहस्रम् अधस्तने चरमान्ते पृष्टे इदं निर्वचनं द्विपञ्चाशदुत्तरं योजनशतसहस्रम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि, घनवातस्याघस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमान्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम्, असङ्घयेयानि योजनशतसहस्रण्यबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यमिति भावः ।
‘तच्चाएणंभंते' इत्यादि, तृतीयस्या भदन्त ! पृथिव्या उपरितनाञ्च्चरमान्ताद् अघस्तनञ्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह - गौतम ! अष्टाविंशत्युत्तरं शत (सहस्र ) मूअष्टाविंशतिसहस्प्रधिकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तम् । एतदेव घनोदधेरुपरितनचरमान्तपृच्छायामपि निचनम्। अधस्तनचरमान्तपृच्छायामष्टाचत्वारिंशदुत्तरं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि । अधस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमान्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम् । एवं चतुर्थपञ्चमषष्ठसप्तमपृथिवीविषयाणि सूत्राण्यपि भाव० ॥
मू. (९४) इमाणं भंते! रयणप्पभा पुढवी दोच्चं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा ? वित्थरेणं किं तुल्ला विसेसहीणा संखेज्जगुणहीणा ?, गोयमा ! इमाणं रयण० पु० दोच्चं पुढवीं पणिहाय बाहल्लेणं नो तुल्ला विसेसाहिया नो संखेज्जगुणा, वित्थारेणं नो तुल्ला विसेसहीणा नो संखेजगुणहीणा । दोच्चा णं भंते! पुढवी तच्चं पुढविं पणिहाय बाहल्लेणं किं तुल्ला ? एवं चेव भाणितव्वं । एवं तच्चा चउत्थी पंचमी छट्ठी । छट्ठी णं भंते! पुढवी सत्तमं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा ?, एवं चेव भाणियव्वं । सेवं भंते ! २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org