SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -३, नै०-उद्देशकः १ ११५ वृ. 'इमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभापृथिवी द्वितीयां पृथिवीं शर्कराप्रभां 'प्रणिधाय' आश्रित्य 'बाहल्येन' पिण्डभावेन कंतुल्या विशेषाधिका सङ्खयेयगुणा?, बाहल्यमधिकृत्येदं प्रश्नत्रयम्, ननु एका अशीत्युत्तरयोजनलक्षमाना अपरा द्वात्रिंशदुत्तरयोजनलक्षमानेत्युक्तंततस्तदर्थावगमेसत्युक्तलक्षणंप्रश्नत्रयमयुक्तं, विशेषाधिकेतिस्वयमेवार्थपरिज्ञानात, सत्यमेतत्, केवलं ज्ञप्रश्नोऽयं तदन्मोहापोहार्थ, एतदपि कथमवसीयते? इति चेत्स्वावबोधाय प्रश्नान्तरोपन्यासातू, तथाचाह-विस्तरेण-विष्कम्मेन किं ? तुल्या विशेषहीना सङ्घयेयगुणहीना? ___ भगवानाह-गौतम! इयं रत्नप्रभा पृथिवी द्वितीया शर्कराप्रभापृथिवीं प्रमिधाय बाहल्येन न तुल्या किन्तु विशेषाधिका नापि सहखयेयगुणा, कथमेतदेवम् ? इत चेदुच्यते-इह रत्नप्रभा पृथिवी अशीत्युत्तरयोजनलक्षमाना, शर्कराप्रभा द्वात्रिंशदुत्तरयोजनलक्षमाना, तदत्रान्तरमष्टाचत्वारिंशद् योजनसहस्राणि ततो विशेषाधिका घटते न तुल्या नापि सङ्ख्येयगुणा, विस्तरेण न तुल्याकिन्तुविशेषहीनानापि सङ्ख्येयगुणहीना, प्रदेशादिवृद्धयाप्रवर्द्धमानेतावति क्षेत्रे शर्कराप्रभाया एवं [च] वृद्धिसम्भवात्, एवं सर्वत्र भावनीयम्। तृतीय प्रतिपतौ नेरयिकस्य उद्देशकः-१ समाप्तः - नेरयिकः उद्देशकः-२:वृ. सम्प्रति कस्यां पृथिव्यां कस्मिन् प्रदेशे नरकावासाः ? इत्येतप्रतिपादनार्थं प्रथम तावदिदमाह मू. (९५) कइणंभंते! पुढवीओपन्नत्ताओ?, गोयमा! सत्त पुढवीओप०२०-रयणप्पभा जाव अहेसत्तमा। इमीसेणंरयणप्प० पु० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिंकेवतियं ओगाहित्ता हेट्ठा केवइयं वज्जित्ता मज्झे केवतिए केवतिया निरयावाससयसहस्सा प० णा० इमीसे णं रयण० पु० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगंजोयणसहस्संओगाहित्ता हेट्ठावि एगंजोयणसहस्सं वजेत्ता मज्झे अडसत्तरी जोयणसयसहस्सा, एत्थणं रयणप्पभाए पु० नेरइयाणं तीसं निरयावाससयसहस्साई भवंतित्तिमक्खाया। तेणं नरगा अंतो वट्टा बाहिं चउरंसा जाव असुभा नरएसु वेयणा, एवं एएणं अभिलावेणं उवजुंजिऊणभाणियव्वं ठाणप्पयाणुसारेणं, जत्थजंबाहल्लंजत्थ जत्तियावानरयावाससयसहस्सा जावअहेसत्तमाएपुढवीए, अहेसत्तमाए मज्झिमंकेवतिएकति अनुत्तरामहइ महालता महानिरया पन्नता एवं पुच्छितव्वं वागरेयव्वंपि तहेव ॥ वृ. 'कइ णं भंते !' इत्यादि, कति भदन्त ! पृथिव्यः प्रज्ञप्ताः ? इति, विशेषाभिधानार्थमेतदभिहितम्, उक्तञ्च॥१॥ "पुव्वभणियंपिजंपुण भन्नई तत्थ कारणं अस्थि । पडिसेहो य अणुण्णाकारण (हेउ)विसेसोवलंभो वा ।." ___ भगवानाह-गौतम! सप्त पृथिव्यः प्रज्ञप्ताः, तद्यथा-रत्नप्रभा यावत्तमस्तमप्रभा।। 'इमीसे ण'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या उपरि कियत्' किंप्रमाणमवगाह्य-उपरितनभागात् कियद् अतिक्रम्येत्यर्थः अधस्तात् कियत्' किंप्रगाणंवर्जयित्वामध्ये 'कियति' किंप्रमाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy