SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०९ प्रतिपत्तिः -३, नै०-उद्देशकः १ इमा णं भंते ! रयणप्प० पु० केवतिआयामविक्खंभेणं? पं० गोयमा ! असंखेजाई जोयणसहस्साइं आयामविक्खंभेणं असंखेजाइंजोयणसहस्साइंपरिक्खेवेणं पन्नत्ते, एवं जाव अधेसत्तमा । इमाणं भंत! रयणप्प० पु० अंते यमझे यसव्वत्थ समा बाहल्लेणं प०?, हंता गो० इमाणं रयण० पु० अंते य मज्झे य सव्वत्थ समा बाहल्लेणं, एवं जाव अधेसत्तमा॥ वृ. 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमान्ते घनोदधिवलयः कियद्वाहल्येन तिर्यग्बाहल्येन प्रज्ञप्तः ?, भगवानाह-गौतम ! षड् योजनानिबाहल्येन-तिर्यग्बाहल्येन प्रज्ञप्तः, तत ऊर्ध्व प्रतिपृथिवियोजनस्य त्रिभागो वक्तव्यः, तद्यथा-शर्कराप्रभायाः सत्रिभागानिषड्योजनानि वालुकाप्रभायास्त्रिभागोनानि सप्तयोजनानि पङ्कप्रभायाः परिपूर्णानि सप्त योजनानि घूमप्रभायाः सत्रिभागानि सप्त योजनानि तमःप्रभायास्त्रिभागोनान्यष्टौ योजनानि अधःसप्तमपृथिव्याः परिपूर्णान्यष्टौ योजनानि, सूत्राक्षराणितु सर्वत्र पूर्ववद्योजनीयानि । सम्प्रति घनवातवलयस्य तिर्यग्बाहल्यपरिमाणप्रतिपादनार्थमाह-'इमीसे गंभंते!' इत्यादि, अस्या रत्नप्रभायाः पृथिव्या घनवातवलयस्तिर्यग्बाहल्येनार्द्धपञ्चमानि-सार्धानि चत्वारियोजनानि प्रज्ञप्तः, अत ऊर्ध्वं तु प्रतिपृथिवि गव्यूतं वर्द्धनीयं, तथा चाह-द्वितीयस्याः पृथिव्याः क्रोशोनानि पञ्चयोजनानि, तृतीयस्याः पृथिव्याः परिपूर्णानिपञ्च योजनानि, चतुर्थ्याः पृथिव्याः सक्रोशानि पञ्च योजनानि, पञ्चम्याः पृथिव्या अर्द्धषष्ठानि-सार्द्धानि पञ्च योजनानि, षष्ट्याः पृथिव्याः क्रोशोनानि षड् योजनानि, सप्तम्याः पृथिव्याः परिपूर्णानि षड्योजनानि । सम्प्रतितनुवातवलयस्यतिर्यग्बाहल्यपरिमाणप्रतिपादनार्थमाह-'इमीसेणंभंते!' इत्यादि, अस्या भदन्त! रत्नप्रभायाः पृथिव्यास्तनुवातवलयः 'कियत्' किंप्रमाणं 'बाहल्येन' तिर्यग्बाहल्येन प्रज्ञप्तः?, भगवानाह-षट्क्रोशबाहल्येन प्रज्ञप्तः, अत ऊर्ध्वं तु प्रतिपृथिवि क्रोशस्य त्रिभागो वर्द्धनीयः, तथा चाह-द्वितीयस्याः पृथिव्याःसत्रिभागान्षट्क्रोशान्बाहल्येनप्रज्ञप्तः, तृतीयस्याः पृथिव्यास्त्रिभागोनान्सप्त क्रोशान्चतुर्थ्याः परिपूर्णान् सप्त क्रोशान्पञ्चभ्याः पृथिव्याः सत्रिभागान् सप्त क्रोशान् षष्ठ्याः पृथिव्यास्त्रिभागोनान् अष्टौक्रोशान्, सफ्स्याः परिपूर्णान् अष्टौ क्रोशान्, ॥१॥ "छच्चेव अद्धपंचमजोयणसहुंच होइ रयणाए। उदहीघनतनुवाया (उ) जहासंखेण निद्दिट्ठा ।। ॥२॥ सतिभागगाउयं च तिभागोगाउयस्स बोद्धव्वो। आइधुवे पक्खेवो अहो अहो जाव सत्तमिया ॥ एतेषांचत्रयाणामपिघनोदध्यादिविभागानामेकत्रमीलने प्रतिपृथिवियथोक्तमपान्तरालमानं भवति ॥ सम्प्रत्येतेष्वेव घनोदध्यादिवलयेषु क्षेत्रच्छेदेन कृष्णवर्णाद्युपेतद्रव्यास्तित्वप्रतिपादनार्थमाह-'इमीसे गंभंते!' इत्यादि, पूर्वद्भावनीयं, बाहल्यपरिमाणमपिघनोदध्यादीनां प्रतिपृथिवि प्रागुक्तमुपयुज्य वक्तव्यम् ।। सम्प्रति घनोदध्यादिसंस्थानप्रतिपादनार्थमाह-'इमीसेणंभंते!' इत्यादि, अस्या भदन्त! रत्नप्रभायाः पृथिव्याघनोदधिवलयः किमिव संस्थितः किंसंस्थितःप्रज्ञप्तः?, भगवानाह-गौतम! 'वृत्तः' चक्रवालतया परिवर्तुलो वलयस्यमध्यशुषिरस्य वृत्तविशेषस्याकारः-आकृतिर्वलयाकारः स इव संस्थानं वलयाकारसंस्थानं तेन संस्थितो वलयाकारसंस्थानसंस्थितः । कथमेवमवगम्यते वलयाकारसंस्थानसंस्थित इति ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy