SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-१/९० तत आह-'जेण' मित्यादि, येन कारणेनेमां रत्नप्रभां पृथिवीं 'सर्वतः' सर्वासु दिक्षु विदिक्षु च 'संपरिक्षिप्य' सामस्त्येन वेष्टयित्वा 'तिष्ठति' वर्तते तेन कारणेन वलयाकारसंस्थानसंस्थितः प्रज्ञप्तः । एवं घनवातवलयसूत्रं तनुवात- वलयसूत्रं च परिभावनीयं, नवरं घनवातवलयो घनोदधिवलयंसंपरिक्षिप्येति वक्तव्यः, तनुवातवलयोधनवातवलयंसंपरिक्षिप्येति। एवं शेषास्वपि पृथिवीषु प्रत्येकं त्रीणि त्रीणि सूत्राणि भावनीयानि। __'इमाणंभंते!' इत्यादि, इयंभदन्त! रत्नप्रभापृथिवी कियद् ‘आयामविष्कम्भेन' समाहारो द्वन्द्वः, आयामविष्कम्भाभ्यां प्रज्ञप्ता ?, भगवानाह–असङ्खयेयानि योजनसहस्राणि आयामविष्कम्भेन, किमुक्तं भवति ?-असङ्खयेयानि योजनसहस्रणि आयामेन, असङ्खयेयानि योजनसहस्राणिविष्कम्भेनच,आयामविष्कम्भयोस्तु परस्परमल्पबहुत्वचिन्तनेतुल्यत्वं, तथाऽसङ्खयेयानि योजनसहस्रणि परिक्षेपेण' परिधिना प्रज्ञप्ता, एवमेकैका पृथिवी तावद्वक्तव्या यावदधःसप्तमी पृथिवी। ‘इमाणंभंते' इत्यादि, इयं भदन्त! रलप्रभा पृथिवीअन्तेमध्येचसर्वत्र समा 'बाहल्येन' पिण्डभावेन प्रज्ञप्ता?, भगवानाह-गौतमेत्यादिसुगमम् । एवंक्रमेणैकैका पृथिवी तावद्वक्तव्या यावत्सप्तमी ।। म. (९१) इमीसेणंभंते! रयणप्प० पू० सबजीवा उववन्नपब्वा ? सव्वजीवा उववन्ना?, गोयमा! इमीसेणं रय० पु० सव्वजीवा उववन्नपुव्वा नो चेवणं सव्वजीवा उववन्ना, एवं जाव अहेसत्तमाए पुढवीए। ___ इमाणंभंते ! रयण० पु० सव्वजीवेहिं विजढपुव्वा ? सवुवजीवेहिं विजढा?, गोयमा! इमाणं रयण० पु० सव्वजीवेहिं विजढपुव्वा नो वेवणं सव्वजीवविजढा, एवंजाव अधेसत्तमा इमीसेणं भंते ! रयण० पु० सव्वपोग्गला पविठ्ठपुव्वा? सव्वपोग्गला पविट्ठा? गो०!! इमीसे णं रयण पुढवीए सव्वपोग्गला पविठ्ठपुव्वा नो चेवणं सव्वपोग्गला पविट्ठा, एवं जाव अधेसत्तमाए पुढवीए।इमाणंभंते! रयणप्पभा पुढवी सव्वपोग्गलेहिं विजढपुव्वा? सव्वपोग्गल विजढा?, गोयमा! इमाणं रयणप्पभा पु० सव्वपोग्गलेहिं विजढपुव्वा नोचेवणंसव्वपोग्गलेहिं विजढा, एवं जाव अधेसत्तमा॥ वृ. 'इमीसेणं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां सर्वजीवाः सामान्येन उपपन्नपूर्वा इति-उत्पन्नपूर्वाकालक्रमेण, तथासर्वजीवाः 'उपपन्नाः' उत्पन्नायुगपद्?, भगवानाहगौतम! अस्यारत्नप्रभायां पृथिव्यांसर्वजीवाः सांव्यवहारिकजीवराश्यन्तर्गताःप्रायोवृत्तिमाश्रित्य सामान्येन ‘उपपन्नपूर्वा' उत्पन्नपूर्वाकालक्रमेण, संसारस्यानादित्वात्, नपुनः सर्वजीवाः उपपन्ना' उत्पन्ना युगपत्, सकलजीवानामेककालं रत्नप्रभापृथिवीत्वेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न चैतदस्ति, तताजगत्स्वाभाव्यात्, एवमेकैकस्याः पृतिव्यास्तावद्वक्तव्यं यावदधःसप्तम्याः । ‘इमाणंभंते!' इत्यादि, इयंच भदन्त! रत्नप्रभापृथिवी 'सव्वजीवेहिं विजढपुव्वा' इतिसर्वजीवैः कालक्रमेण परित्यक्तपूर्वा, तथा सर्वजीवैर्युगपद् विजढा' परित्यक्ता?, भगवानाहगौतम! इयं रत्नप्रभा पृथिवी प्रायोवृत्तिमाश्रित्य सर्वजीवैः सांव्यवहारिकैः कालक्रमेणपरित्यक्तपूर्वा, न तु युगपत्परित्यक्ता, सर्वजीवैः एककालपरित्यागस्यासम्भवात् तथानिमित्ताभावात्, एवं तावद्वक्तव्यं यावदधःसप्तमी पृथ्वी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy