________________
प्रतिपत्तिः - ३, नै०-उद्देशकः १
१०७
वक्तव्यानि । ननु चैताः सप्तापि पृथिव्यः सर्वासु दिक्षु किमलोकस्पर्शिन्य उत न ? इति उच्यते, नेति ब्रूमः, यद्येवं ततः
मू. (८९) इमीसे णं भंते! रयणप्प० पुढवीए पुरत्थिमिल्लातो उवरिमंता केवतियं अबाधाए लोयंते पन्नत्ते ?, गोयमा ! दुवालसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते, एवं दाहिणिल्लातो पञ्च्चत्थिमिल्लातो उत्तरिल्लातो । सक्करप्प० पु० पुरथिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते प० गो० तिभागूणेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते प० एवं चउद्दिसिंपि ।
वालुयप्प० पु० पुरत्थिमिल्लातो पुच्छा, गोयमा! सतिभागेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते, एवं चउद्दिसिंपि, एवं सव्वासिं चउसुवि दिवासुस पुच्छितव्वं । पंकप्प० चोद्दसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते । पंचमाए तिभागूणेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । छट्टीए सतिभागेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते । सत्तमीए सोलसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते, एवं जाव उत्तरिल्लातो ।
इमीसे णं भंते! रयण० पु० पुरत्थिमिल्ले चरिमंते कतिविधे पन्नत्ते ?, गोयमा ! तिविहे पन्नत्ते, तंजहा - घनोदधिवलए घनवायवलए तनुवायवलए ।
इमीसे णं भंते! रयणप्प० पु० दाहिणिल्ले कतिविधे पन्नत्ते ?, गोयमा ! तिविधे पन्नत्ते, तंजा - एवं जाव उत्तरिल्ले, एवं सव्वासिं जाव अधेसत्तमाए उत्तरिल्ले ।
वृ. 'इमी से णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः 'पुरत्थिमिल्लाओ' इति पूर्वदिग्माविनश्चरमान्तात् 'केवइयाए' इति कियत्याऽबाधया - अपान्तरालरूपया लोकान्तोऽलोकावधिपरच्छिन्नः प्रज्ञप्तः ?, भगवानाह - द्वादश योजनानि, द्वादशयोजनप्रभाणयेत्यर्थः, अबाधया लोकान्तः प्रज्ञप्तः, किमुक्तं भवति ? - रत्नप्रभायाः पृथिव्याः पूर्वस्यां दिशि चरमपर्यन्तात्परतोऽलोकादर्वागू अपान्तरालं द्वादश योजनानि, एवं दक्षिणस्यामपरस्यामुत्तरस्यां चापान्तरालं वक्तव्यं, दिग्ग्रहणं चोपलक्षणं तेन सर्वासु विदिक्ष्वपि यथोक्तमपान्तरालमवसातव्यं, सेषाणां तु पृथिवीनां सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकः क्रमेणाधोऽधस्त्रिभागोनेन योजनेनाधिकैर्द्वादशभिर्योजनैरवगन्तव्यः, तद्यथा- शर्कराप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकादर्वागपान्तरालं त्रिभागोनानि त्रयोदश योजनानि, वालुकाप्रभायाः सत्रिभागानि त्रयोदश योजनानि, पङ्कप्रभायाः परिपूर्णानि चतुर्दश योजनानि, घूमप्रभायास्त्रिभागोनानि पञ्चदश योजनानि, तमः प्रभायाः सत्रिभागानि पञ्चदश योजनानि, अध- सप्तमपृथिव्याः परिपूर्णानि षोडश योजनानि, सूत्राक्षराणि पूर्ववद्योजनीयानि ।
अथामूनि रत्नप्रभादीनां द्वादशयोजनप्रमाणादीनि अपान्तरालानि किमाकाशरूपाणि उत धनोदध्यादिव्याप्तानि ?, उच्यते, घनोदध्यादिव्याप्तानि, तत्र कस्मिन्नपान्तराले कियान् घनोदध्यादि ? इतिप्रतिपादनार्थमाह-‘इमी से णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः पूर्वदिग्भावी ‘चरमान्तः’ ‘कतिविघः’ कतिप्रकारः कतिविभाग इत्यर्थ प्रज्ञप्तः ?, भगवाना - गौतम ! त्रिविधः प्रज्ञप्तः, तद्यथा - 'घनोदघिवलयः' वलयाकारघनोदधिरूप इत्यर्थः, एवं धनवातवलयस्त- नुवातवलयश्च, इयमत्र भावना-सर्वासां पृथिवीनामधो यत्प्राग् बाहल्येन घनोदध्यादीनां परिमाणमुक्तं तन्मध्यभागे द्रष्टव्यं, ते हि मध्यभागे यथोक्तप्रमाणबाहल्यास्ततः प्रदेशहान्या प्रदेशहान्या हीयमानाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org