________________
१०६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-१/८७ मधुराणि, स्पर्शतः कर्कशानि मृदूनि गुरुकाणि लघूनि शीतानि उष्णानि स्निग्धानि रूक्षाणि, संस्थानतः परिमण्डलानिवृत्तानित्र्यम्राणिचतुरस्रामिणआयतानि, कथम्भूतान्येतानि सर्वाण्यपि? इत्यत आह
'अन्नमनपुट्ठाई' इत्यादि, अन्योऽन्यं-परस्परंस्पृष्टानि-स्पर्शमात्रोपेतानि, तथाऽन्योऽन्यंपरस्परमवगाढानि यत्रैकं द्रव्यमवगाढं तत्रान्यदपि देशतः क्वचित्सर्वतोऽवगाढमित्यर्थः तथाऽन्योऽन्यं-परस्परंस्नेहेनप्रतिबद्धानियेनैकस्मिन् चाल्यमानेगृह्यमाणेवाऽपरमपिचलनादिधर्मोपेतं भवति, एवम् ‘अन्नोन्नघडत्ताए' इति, अन्योऽन्यं-परस्परं घटन्ते-संबध्नन्तीति अन्योऽन्यघटास्तद्भावोऽन्योऽन्यघटता तया-परस्परसंबद्धतया तिष्ठन्ति,
भगवानाह- 'हंताअस्थि' 'हन्त!' इतिप्रत्यवधारणेसन्त्येवेत्यर्थी एवमस्यामेवरत्नप्रभायां पृथिव्यांखरकाण्डस्य षोडशयोजनसहस्रप्रमाणबाहल्यस्य, तदनन्तरं रत्नकाण्डस्य योजनसहस्रबाहल्यस्य, ततो वज्रकाण्डस्य यावद्रिष्ठाकाण्डस्य, तदनन्तरमस्यामेव रत्नप्रभायां पृथिव्यां पङ्कबहुलकाण्डस्यचतुरशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमबबहुलकाण्डस्याशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमस्या एव रत्नप्रभाया घनोदधेर्योजनविंशतिसहस्रप्रमाणबाहल्यस्य, ततोऽसङ्ख्यातयोजन- सहस्रप्रमाणबाहल्यस्य घनवातस्य, तत एतावत्प्रमाणबाहल्यस्य तनुवातस्य, ततोऽवकाशन्तरस्य तावप्रमाणस्य।
ततःशर्कराप्रभायाः पृथिव्याद्वात्रिंशत्सहस्रोत्तरयोजनशतसहस्रबाहल्यपरिमाणायाः, तस्या एवाधस्ताद्यथोक्तप्रमाणबाहल्यानां घनोदधिधनवाततनुवातावकाशान्तराणाम्, एवं यावदधःसप्तम्याः पृथिव्या अष्टसहस्रोधिकयोजनशतसहस्रपरिमाणबाहल्यायाः, ततस्तस्याएवाधःसप्तमपृथिव्या अधस्ताक्रमेण घनोदधिधनवाततनुवातावकाशान्तराणांप्रश्ननिर्वचनसूत्राणि यथोक्तद्रव्यविषयाणि भावनीयानि । सम्प्रति संस्थानप्रतिपादनार्थमाह
मू. (८८) इमाणं भंते ! रयणप्प० पु० किंसंठिता पन्नत्ता?, गो० झल्लरिसंठिता प० । इमीसे णं भंते ! रयणप्प० पु० खरकंडे किंसंठिते पन्नते?, गोयमा ! झल्लरिसंठिते पन्नते। इमीसेणंभंते! रयणप० पु० रयणकंडे किंसंठिते पन्नत्ते?, गोयमा! झलरिसंठिए पन्नते । एवं जावरिटे। एवं पंकबहुलेवि, एवं आवबहुलेवि घनोदधीविघनवाएवितनुवाएवि ओवसंतरेवि, सव्वे झल्लरिसंठिते पन्नत्ते।
सक्करप्पभा णं भंते ! पुढवी किंसंठिता पन्नत्ता?, गोयमा ! झल्लरिसंठिता पन्नत्ता, सक्करप्पभापुढवीए घनोदधी किंसंठितेपन्नत्ते?, गोयमा! झल्लरिसंठिते पन्नत्ते, एवंजावओवासंतरे, जहा सक्करप्पभाए वत्तव्वया एवंजाव अहेसत्तमाएवि॥
वृ. 'इमाणंभंते' इत्यादि, ‘इयं प्रत्यक्षत उपलभ्यमानाणमितिवाक्यालङ्कृतौलप्रभापृथिवी किमिव संस्थिता किंसंस्थिता प्रज्ञप्ता?, भगवानाह-गौतम! झल्लरीव संस्थिता झल्लरीसंस्थिता प्रज्ञप्ता, विस्तीर्णवलयाकारत्वात् । एवमस्यामेवरलप्रभायांपृथिव्यांखरकाण्डं,तत्रापिरत्नकाण्डं, ततोवज्रकाण्डं, ततोयावरिष्ठकाण्डं,तदनन्तरं पङ्कबहुलकाण्डं, ततोजलकाण्डं, तदनन्तरमस्या एव रत्नप्रभायाः पृथिव्या अधस्ताक्रमेण घनोदधिघनवाततनुवातावकाशान्तराणि यावदघःसप्तमीपृथिवी, तस्याश्चाधस्ताक्रमेणघनोदधिधनवाततनुवातावकाशान्तराणि झल्लरीसंस्थानानि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org