________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / नै०-१/७२
मू. (७२) तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसेहिंतो तिगुणाउ तिरूवाधियाओ मणुस्सित्थियाओ मणुस्सपुरिसेहिंतो सत्तावीसतिगुणाओ सत्तावीसयरूवाहियाओ देवित्थियाओ देवपुरिसेहिंतो बत्तीसइगुणाओ बत्तीसइरूवाहियाओ सेत्तं तिविधा संसारसमावण्णगा जीवा पन्नत्ता से तं तिविहा संसारसमावन्नगा जीवा पन्नत्ता ॥
वृ. 'तिरिक्खजोणित्थीओतिरिक्खजोणियपुरिसेहिंतो' इत्यादि, तिर्यग्योनिकस्त्रियस्तिर्यग्योनिकपुरिषेभ्यस्त्रिगुणास्त्रिरूपाधिकाः, मनुष्यस्त्रियो मनुष्यपुरुषेभ्यः सप्तविंशतिगुणाः सप्तविंशति-रूपाधिकाः, देवपुरुषेभ्यो देवस्त्रियो द्वात्रिंशद्गुणा द्वात्रिंशद्रूपाधिकाः, उक्तं च वृद्धाचार्यैरपि
१००
11911 "तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयव्वा । सत्तावीस गुणा पुण मणुयाणं तदहिया चेव ।। बत्तीस गुणा बत्तीसरूव अहिया उ होंति देवाणं । देवीओ पन्नत्ता जिणेहिं जियरागदोसेहिं ॥
प्रतिपत्युपसंहारमाह- 'सेत्तं तिविहा संसारसमावन्नगा जीवा पन्नत्ता' इति । यू. (७३) तिविहेसु होई भेयो ठिई य संचिट्ठणंतर ऽ प्पबहुं । वेदाण य बंधठिई वेओ तह किंपगारी उ ॥
वृ. सम्प्रत्यधिकृतप्रतिपत्यर्थाधिकारसंग्रहगाथामाह - 'तिविहेसु होइ भेओ' इत्यादि, त्रिविधेषु वेदेषु वक्तव्येषु भवति प्रथमोऽधिकारो भेदः ततः स्थिति तदनन्तरं 'संचिट्ठणं' ति सातत्येनावस्थानं तदनन्तरमन्तरं ततोऽल्पबहुत्वं ततो वेदानां बन्धस्थिति तदनन्तरं किंप्रकारो वेद इति ॥ द्वितीया प्रतिपत्तिः समाप्ता
॥२॥
मुनि दीपरत्नसागरेण संशोधिता सम्पादीता जीवाजीवाभिगमसूत्रे द्वितीया " त्रिविधा" प्रतिपत्याः मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । तृतीया - "चतुर्धा" प्रतिपत्ति:
-: "नैरयिक" उद्देशकः-१ :
वृ. तदेवमुक्ता द्वितीया प्रतिपत्ति, सम्प्रति तृतीयप्रतिपत्यवसरः, तत्रेदमादिसूत्रम्मू. (७४) तत्थ जे ते एवमाहंसु चउव्वधा संसारसमावण्णगा जीवा पन्नत्ता ते एवमाहंसु, तंजहा- नेइया तिरिक्खजोणिया मणुस्सा देवा ।
वृ. तत्थ जे ते एवमाहंसु चउव्विहा इत्यादि, 'तत्र' तेषु दशसु प्रतिपत्तिमत्सु मध्ये ये ते आचार्या एवमाख्यातवन्तश्चतुर्विधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमाख्यातवन्तस्तद्यथा - नैरयिकास्तिर्यग्योनिका मनुष्या देवाः ।
मू. (७५) से किं तं नेरइया ?, २ सत्तविधा प० तं०, - पढमापुढविनेरइया दोच्चा-पुढविने० तच्चापुढविनेर० चउत्थापुढवीनेर० पंचमापु० नेर० छट्टापु० नेर० सत्तमापु० नेरइया ॥
वृ. 'से किं त' मित्यादि, अथ के ते नैरयिकाः ?, सूरिराह - नैरयिकाः सप्तविधाः प्रज्ञप्ताः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International