SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-२. सर्वस्तोकाअन्तरद्वीपका मनुष्यस्त्रियो मनुष्यपुरुषाश्च, स्वस्थानेतुद्वयेऽपितुल्याः, युगलधर्मोपेतत्वात्, एवं देवकुरुत्तरकुर्वकर्मभूमकहरिवर्षरम्यकवर्षाकम्भूमकहैमवतहैरम्यवताकर्मभूमकमनुयस्त्रीपुरुषा यथोत्तरं सङ्खयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽपिभरतैरावतकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्खयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपिसङ्खयेयगुणाः, स्वस्थानेतुपरस्परंतुल्याः, ताभ्यः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्केयगुणाः, स्वस्थाने तुपरस्परंतुल्याः, तेभ्यो पूर्वविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियोद्वय्योऽपि सङ्खयेयगुणाः, सप्तविंशतिगुणत्वात्, स्वस्थानेतुपरस्परं तुल्याः, ताभ्योऽनुत्तरोपपातिकोपरितनौवेयकमध्यमग्रैवेयकाधस्तनौवेयकाच्युतारणप्राणतानतकल्पदेवुरुषा यथोत्तरं सङ्ख्येयगुणाः। -ततोऽधःसप्तमषष्ठपृथिवीनैरयिक(न०) सहस्रारकल्पदेवपुरुषमहाशुक्रकल्पदेवपुरुषपञ्चमपृथिवीनैरयिक(न०) लान्तककल्पदेवपुरुषचतुर्थपृथवीनैरयिकनपुंसकब्रह्मलोककल्पदेवपुरुषतृतीयपृथिवीनैरयिकनपुंसकमाहेन्द्रकल्पसनत्कुमारकल्पदेवपुरुषद्वितीयपृथिवीनैरयिकनपुंसकान्तरद्वीपकमनुष्यनपुंसका यथोत्तरमसङ्खयेयगुणाः, ततो देवकुरुत्तरकुर्वकमभूमकहरिवर्षरम्यकवर्षाकर्मभूमकहैमवतहैरण्यवताकर्मभूमकभरतैरावतकर्मभूमकपूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसका यथोत्तरं सङ्ख्येयगुणाः, स्वस्वस्थानेषु तु द्वये परस्परं तुल्याः,तत ईशानकल्पदेवपुरुषा असङ्ख्येयगुणाः, ततईशानकल्पदेवस्त्रियः सौधर्मकल्पदेवपुरुषाः सौधर्मकल्पदेवस्त्रियो यथोत्तरं सङ्खयेयगुणाः, ततो भवनवासिदेवपुरुषा असङ्ख्येयगुणाः। तेभ्योभवनवासिदेवस्त्रियः सङ्घयेयगुणाः, तेभ्योऽस्यांरलप्रभायांपृथिव्यांनैरयिकनपुंसका असङ्खयेयगुणाः, ततः खचरतिर्यग्योनिकस्त्रियोवानमन्तरा देवपुरुषावानमन्तरदेवनयोज्योतिष्कदेवपुरुषाज्योतिष्कदेवस्त्रियो यथोत्तरं सङ्खयेयगुणाः, ततः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असङ्खयेयगुणाः, ततः स्थलचरजलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः क्रमेण सङ्खयेयगुणाः, ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रयतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततस्तेजःकायिकैके० असङ्ख० ततः पृथिव्यबवायुकायिकतिर्य० यथोत्तरं विशेषाधिकाः। ततो वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात्।साम्प्रति स्त्रिपुरुषनपुंसकानां भवस्थितिमानंकायस्थितिमानंचक्रमेणाभिधातुकाम आह मू. (७१) इत्थीणं भंते ! केवइयं कालं ठिती पन्नत्ता?, गोयमा ! एगेणं आएसेणं जहा पुट्विं भणिय, एवं पुरिसस्सवि नपुंसकस्सवि, संचिट्ठणा पुनरवि तिहंपि जहापुब्बिं भणिया, अंतरंपि तिण्हंपि जहापुब्विं भणियंतहा नेयव्वं ॥ वृ. 'इत्थीणं भंते ! केवइयं कालं ठिई पन्नत्ता?, इत्यादि, एतत्सर्वंप्रागुक्तवद्भावनीयम्, अपुनरुक्तताचप्राक् स्त्र्यादीनांपृथक् स्वस्वाधिकारेस्थित्यादिप्रतिपादितमिदानींतुसमुदायेनेति सम्प्रति स्त्रीपुरुषनपुंसकानामल्पबहुत्वमाह-'एयासि णं भंते ! इत्थीण'मित्यादि, सर्वस्तोकाः पुरुषाः स्त्र्यादिभ्यो हीनसङ्ख्याकत्वात्, तेभ्यः स्त्रियः संखे० -,ताभ्यो नपुंसका अनन्तगुणाः, एकेन्द्रियाणामनन्तानन्तसङ्घयोपेतत्वात् । इह पुरुषेभ्यः स्त्रियः सङ्खये० इत्युक्तं, तत्र काः स्त्रियः स्वजातिपुरुषापेक्षया कतिगुणा इति प्रश्नावकाशमाशङ्ख्यतन्निरूपणार्थमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy