SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ औपपातिकउपाङ्गसूत्रम्-१५ णीभूताः, पर्यायसूत्राणि व्यक्तान्येवेति॥ मू. (१५) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगइआ आभिनिबोहियणाणी जाव केवलनाणी अप्पेगइआ मणबलिआ वयबलिआ कायबलिआ अप्पेगइआ मणेणं सावाणुग्गहसमत्था ३ अप्पेगइआ खेलोसहिपत्ता एवं जल्लोसहि० विप्पोसहि० आमोसहि० सव्वोसहि० अप्पेगइआ कोठबुद्धी। एवं बीअबुद्धी पडबुद्धी अप्पेगइआ पयाणुसारी अप्पेगइआ संभिन्नसोआ अप्पेगइआ खीरासवा अप्पेगइआ महुआसवा अप्पेगइआ सप्पिआसवा अप्पेगइआ अकिखणमहानसिआ एवं उज्जुमतीअप्पेइआ विउलमई विउव्वणिडिपत्ता चारणा विजाहरा आगासातिवाइणो॥ वृ.साधुवर्णकगमान्तरंव्यक्तमेव, नवरं मणोबलिय'तिमनोबलिकाः-मानसावष्टम्भवन्तः वाग्बलिकाः-प्रतिज्ञातार्थनिर्वाहकाः परपक्षक्षोभकारिवचना वा, कायबलिकाः क्षुधादिपरीषहेष्वग्लानीभवत्कायाः 'नाणबलिया' अव्यभिचारिज्ञानाः ‘दसणबलिया' परैरक्षोभ्यदर्शनाः 'चारित्तबलिया' इति व्यक्, वाचनान्तराधीतंचेदं विशेषणत्रयम् 'अप्पेगइआमणेणंसावाणुग्गहसमत्था' मनसैव परेषां शापानुग्रहौ-अपकारोपकारौ कर्तु समर्था इत्यर्थ, एवं वाचा कायेन चेति। 'खेलोसहिपत्त'त्ति खेलो-निष्ठीवनं स एवौषधि सकलरोगाद्यनर्थोपशमहेतुत्वात् खेलोपधिस्तां प्राप्ता येते तथा, एवमन्यत्रापि, एव ओषधि इति । 'आमोसहि'त्ति आमर्षणमामर्ष-हस्तादिसंस्पर्श इति। _ 'सव्वोसहि'त्ति सर्वएवखेलजल्लविगुटकेशोमनखादयओषधिसर्वौषधि, 'कोहबुद्धित्ति कोष्ठवत्-कुशूल इव सूत्रार्थधान्यस्य यथाप्राप्तस्याविनष्टस्याऽऽजन्मधरणाद्बुद्धि-मतिर्येषां ते तथा। 'बीजबुद्धित्तिबीजमिव विविधार्थाधिगमरूपमहातरूजननाद्बुद्धिर्येषांतेतथा। पडबुद्धित्ति पटवत् विशिष्टवक्तृवनस्पतिविसृष्टविविधप्रभूतसूत्रार्थपुष्पफलग्रहणसमर्थतया बुद्धिर्येषां ते तथा ‘पदाणुसारित्ति पदेनसूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्तिअभ्यूहयन्तीत्येवंशीलाः पदानुसारिणः । 'संभिन्नसोअत्ति सम्भिन्नान्-बहुभेदभिन्नान् शब्दान् पृथक् पृथक् युगपच्छृण्वन्तीति सम्मिन्नश्रोतारः, सम्भिन्नानि वा-शब्देन व्याप्तानिशब्दग्राहीणि, प्रत्येकं वाशब्दादिविषयैः श्रोतांसि-सर्वेन्द्रियाणियेषां तेतथा। खीरासव'त्ति क्षीरवन्मधुरत्वेन श्रोतृणां कर्णमन-सुखकरं वचनमाश्रवन्ति-क्षरन्ति ये ते क्षीराश्रवाः। ___'महुआसव'त्तिमध्वाश्रवाः प्राग्वत्, नवरंमधुवत्सर्वदषोपशमनिमित्तत्वादाल्हादकत्वाच्च तद्वचनस्य क्षीराश्रवेभ्यस्ते भेदेनोक्ताः । “सप्पिआसव'त्ति सर्पिराश्रवास्तथैव, नवरं श्रोतृणां स्वविषये स्नेहातिरेकसम्पादकत्वात्क्षीराश्रवमध्वाश्रवेभ्यो भेदोनोक्ताः । अक्खीणमहाणसीय'त्ति महानसम्–अन्नपाकस्थानंतदाश्रितत्वाद्वाऽन्नमपिमहानसमुच्यते, ततश्चाक्षीणं-पुरुष-शतसहसभ्योऽपिदयमानंस्वयमभुक्तंसत्तथाविधलब्धिविशेषादत्रुटितं तच्चतन्महानसं च-भिक्षालब्धं भोजनमक्षीणमहानसं तदस्ति येषां ते तथा । 'उज्जुमईत्ति ऋज्वी सामान्यतो मनोमात्रग्राहिणी मति-मनःपर्यायज्ञानं येषां ते तथा। “विउलमइ'त्ति विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy