________________
९७
मूलं-१५ मति-मनःपर्यायज्ञानं येषांते तथा, तथाहि-घटोऽनेन चिन्तितः सच द्रव्यतः सौवर्णादि क्षेत्रतः पाटलिपुत्रकादि कालतः शारदादिर्भावतः कालवर्णादिरित्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सामान्यतएव, तथाअर्द्धतृतीयाङ्गुलन्यूनेमनुजक्षेत्रे व्यवस्थितसंज्ञिनांमनोग्राहिका आद्याः, इतरे तुसम्पूर्ण इति । 'विउव्वणिडिपत्तत्तिविकुर्वणा-वैक्रियकरणलब्धि सैव ऋद्धिस्तां प्राप्ताये तथा।
___ 'चारण'त्ति चरणं-गमनं तदतिशयवदस्ति येषां ते चारणाः, ते च द्विधा-जवाचारणा विद्याचारणाश्च, तत्राष्टमाष्टमेन क्षपतो यतेर्या लब्धिरुत्पद्यते यया च कञ्चिजवाव्यापारमाश्रित्यैकेनैवोपपातेन त्रयोदशं रुचकवराभिधानं द्वीपं मेरुमस्तकं च यावद्गन्तुं प्रतिनिवृत्तश्च तत उत्पातद्वयेनेहागन्तुं समर्थो भवति तथा युक्ता आद्याः, या पुनः षष्ठं क्षपत उत्पद्यत, यया श्रुतविहितेषदुपष्टम्भतयोत्पातद्वयेनाष्टमं नन्दीश्वराख्यं द्वीपं मेरुमस्तकं च गन्तुं ततः प्रतिनिवृत्तश्चेकेनैवोत्पातेनेहागन्तुं समर्थो भवति तया युक्ता द्वितीया इति । 'विजाहर'त्ति प्रज्ञप्तयादिविधविद्याविशेषधारिणः।
_ 'आगासातिवाइणो'त्ति आकाशं-व्योमातिपतन्ति-अतिक्रामन्ति आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावाद्वा आकाशाद्व हिरण्यवृष्टयादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीलाआकशातिपातिनः, आकाशादिवादिनोवा-अमूर्तानामपि पदार्थानां साधन समर्थवादिन इति भावः।
मू. (१५-वर्तते) अप्पेगइआ कणगावलिं तवोकम्मं पडिवण्णा एवं एकावलिं खुड्डागसीहनिक्कलियं तवोकम्मंपडिवन्ना अप्पेगइयामहालयं सीहनिक्कलियंतवोकम्मपडिवन्ना भद्दपडिमं महाभद्दपडिमंसव्वतोभद्दपडिमं आयंबिलवद्धमाणं तवोकम्म पडिवन्ना।
वृ.'कणगावलिंतवोकम्मंपडिवण्णग'त्तिकनकमयमणिकमयो भूषणविशेषः, कल्पनया तदाकारं यत्तपस्तत्कनकावलीत्युच्यते, ततस्थापनाचैवम्-चतुर्थषष्ठमष्टमंचोत्तराधर्येणावस्थाप्य तेषामधोऽष्टावष्टमानि चत्वारिचत्वारि पङ्कितद्वयेनावस्थापनीयानि, उभयतो वारेखाचतुष्केण नव कोष्ठकान्विधाय मध्यमे शून्यं विधाय शेषेष्वष्टसु तानि स्थापनीयानि, ततस्तस्याधोऽधः चतुर्थादीनि चतुस्त्रिंशत्तमपर्यन्तानि ।
___ततःकनकावलिमध्यभागकल्पनयाचतुस्त्रिंशदष्टमानि, तानिचोत्तराधर्येण वेत्रीणिचत्वारि पञ्चषट्पञ्चचत्वारि त्रीणिद्वेचेत्येवंस्थाप्यानि, अथवाऽष्टाभिषभिश्चरेखाभिः पञ्चत्रिंशत्कोष्ठकान् विधाय मध्ये शून्यं कृत्वा शेषेषु तानि स्थापीयानीति ।
तत उपर्युपरिचतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, ततः पूर्ववदष्टावष्टमानि, ततोऽष्टमंषष्ठं चतुर्थं चेति । चतुर्थादीनि च क्रमेणैकोपवासादिरूपाणीति । अत्र चैकस्यां परिपाट्यां विकृतिभि पारणकं, द्वितीयस्यांनिर्विकृतिकेन, तृतीयायामलेपकृता, चतुर्थ्याचाचाम्लेनेति।अत्र चैकैकस्यां परिपाटयामेकः संवत्सरोमासाः पञ्च दिनानिच द्वादश, परिपाटीचतुष्टये तुसंवत्सराः पञ्च मासा नवदिनानि चाटादशेति । एवमेकावली' कनकावल्यभिलापेनेत्यर्थ, एकावलीच नान्यत्रोपलब्धेति नलिखिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org