SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ औपपातिकउपाङ्गसूत्रम् - १५ 'खुड्डागसीहनिक्कलियं 'ति वक्ष्यमाणमहासिंहनिक्रडितापेक्षया क्षुल्लकं सिंहनिक्रडितंसिंहगमनं तदिव यत्तपस्तत् सिंहनिक्रडितमित्युच्यते, तद्गमनं चातिक्रन्तदेशावलोकनतः, एवमतिक्रन्ततपःसमासेवनेनापूर्वतपसोऽनुष्ठानंयत्र तत्सिंहनिक्रडितमिति, तच्चैवम् - चतुर्थं ततः षष्ठचतुर्थेऽष्टमषष्ठे दशमाष्टमे द्वादशदशमे चतुर्दशद्वादशे षोडशचतुर्दशे अष्टादशषोडशे विंशतितमाष्टादशे विंशतितमं चेति क्रमेण विधीयते, ततः षोडशाष्टादशे चतुर्दशषोडशे द्वादशचतुर्दशे दशमद्वादशे अष्टमदशमे षष्ठाष्टमे चतुर्थषष्ठे चतुर्थं चेति । अत्र च एकस्यां परिपाटयां दिनमानम् नवकसङ्कलने द्वे ४५ । ४५ अष्टकसङ्कलना चैका ३६ सप्तकसङ्कलनाऽप्येकैव २८ पारणकदिनानि ३३ सर्वाग्रम् १८७, एवं च मासाः ६ दिनानि च ७, चतसृषु परिपाटीष्वेतदेव चतुर्गुणं स्यात्, तत्र वर्षे २ दिनानि २८, तत्र प्रथमपरिपाटयां पारणकं सर्वकामगुणितं द्वितीयस्यां निर्विकृतिकं, तृतीयायामलेपकारि, चतुथ्यार्माचामाल्ममिति एवं महासिंहनिक्रडितमपि, नवरमिह स्थापना एकादयः षोडशान्ताः पुनः षोडशादय एकान्ताः स्थाप्यन्ते, तत्र द्वयादीनां षोडशान्तानमग्रे प्रत्येकमेकादयः पञ्चदशान्ताः स्थाप्यन्ते, तथा ये षोडशादय एकान्ताः स्थापितास्तेषु पञ्चदशादीनां द्यन्तानामादौ चतुर्दशादयः स्थापनीयाः, चतुर्थादिना चाभिलापेन ते समुत्कीर्तनीयाः । दिनमानं चैकस्यां परिपाट्र्यामिदमत्र - द्वेषोडशानां सङ्कलने १३६, १३६ एका पञ्चदशानां १२० चतुर्दशानामप्येकैव १०५ एकषष्टिश्च पारणकानीति, सर्वाग्रं च ५५८, एवं च वर्षमेकं षट् च मासाः दिनान्यष्टादशेति, परिपाटीचतुष्टये चतुर्गुणमेतदेव वर्षाणि ६ मासौ २ दिनानि १२ तथा भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तराभिमुखः प्रत्येकं प्रहरचतुष्टयं कायोत्सर्गं करोति, एषा चाहोरात्रद्वयमानेति, महाभद्राऽपि तथैव, नवरमहोरात्रं यावदेकैकदिगभिमुखः कायोत्सर्गं करोति, अहोरात्रचतुष्टयं चास्यां मानमिति, सर्वतोभद्रा पुनर्यस्यां दशसु दिक्षु प्रत्येकमहोरात्रं कायोत्सर्गं करोति । अस्यां च दशाहोरात्राणि मानमिति । अथवा द्विविधा सर्वतोभद्रा - क्षुद्रा महती च, तत्र क्षुद्रायाः स्थापनोपायगाथा चेयमत्र119 11 'एगाई पंचंते ठविडं मज्झं तु आइमणुपंति । सेसे कमेण ठविउं जाणेज्जा सव्वओभद्दं ॥' तपोदिनानीह पञ्चसप्तति, पारणकदिनानि तु पञ्चविंशति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम् । एवं महत्यपि, नवरमेकादयः सप्तान्तास्तस्यामुपवासा भवन्ति, स्थापनोपायगाथा त्वियम् 119 11 "एगाई सत्तंता ठविउं मज्झं तु आइमणुपंति । सेसे कमेण ठविडं जाण महासव्वओभद्दं ॥” १-२-३-४-५-६-७ इयं प्रथमा पनि ४-५-६-७-१-२- ३ द्वितीया ७-१-२-३-४-५-६ तृतीया ३-४-५-६-७-१-२ चतुर्थी ६-७-१-२-३-४-५ पञ्चमी २--३-४-५-६-७१ षष्ठी ५-६-७-१-२-३-४ सप्तमी । इह च षन्नवत्यधिकं शतं तपोदिनानां स्यादेकोनपञ्चाशच्च पारणकदिनानि, एवं चाष्टौ मासाः पञ्च दिनानि चतसृषु परिपाटीष्वेतदेव चतुर्गुणमिति । Jain Education International For Private & Personal Use Only ९८ www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy