SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ मूलं-१५ 'आयंबिलवद्धमाणं'तियत्रचतुर्थं कृत्वाआयामाम्लं क्रियते, पुनश्चतुर्थं, पुनआयामाम्ले, पुनश्चतुर्थं, पुनस्त्रीणि आयामाम्लानि, एवं यावच्चतुर्थं शतं चायामाम्लानां क्रियत इति, इह च शतं चतुर्थानां तथा पञ्च सहस्राणि पञ्चाशदधिकानि आयामाम्लानां भवन्तीति। मू. (१५-वर्तते) मासिअंभिक्खुपडिमं एवं दोमासिअंपडिमं तिमासि पडिमं जाव सत्तमासिअंभिक्खुपडिमं पडिवण्णा पढमं सत्तराइंदिअंअप्पेगइया भिक्खुपडिमं पडिवण्णा जाव तच्चं सत्तराईदिअंभिक्खुपडिमंपडिवण्णा अहोराइंदिअंभिक्खुपडिमंपडिवण्णा इक्कराइंदिअं भिक्खुपडिमंपडिवन्ना सत्तसत्तमिअंभिक्खुपडिमंअट्ठमिअंभिक्खुपडिमंनवनवमिअंभिक्खुपडिमंदसदसमिअं भिक्खुपडिमंखुड्डियं मोअपडिमंपडिवण्णा महल्लियं मोअपडिमं पडिवण्णा जवमझंचंदपडिमं पडिवण्णा वइर मज्झं चंदपडिमं पडिवण्णा संजमेणं तवसा अप्पाणंभावेमाणा विहरंति ॥ वृ.'मासियंभिक्खुपडिम'तिमासपरिमाणा मासिकी तांभिक्षुप्रतिमां-साधुप्रतिज्ञाविशेष, तत्र हि मासं यावदेका दत्तिभक्तस्यैकैव च पानकस्येति, एवं द्वितीयाद्याः सप्तम्यन्ताः एकैकदत्तिवृद्धियुक्ता इति । 'पढमसत्तराइंदिअंति तिसृणांमध्ये प्रथमा सप्तरात्रिन्दिवा-सप्ताहोरात्रप्रमाणा, अस्यां स चतुर्थं चतुर्थेन पानकाहारविरहित उत्तानको वा पार्श्वशायी वा निषद्योपगतो वाग्रामादिभ्यो बहिर्विहरति, द्वितीयसप्तरात्रिन्दिवाऽप्येवंविधैव, नवरं उत्कुटुको वा लगण्डशायी वादण्डायतो वा विहरति, एवं तृतीया सप्तरात्रिन्दिवापि, नवरंगोदोहिकास्थितो वावीरासनिको वा आम्रकुब्जो वा आस्त इति। ___'राइंदिअंति रात्रिन्दिवप्रमाणामहोरात्रिकीमित्यर्थ, अस्यांचषष्ठोपवासिको ग्रामादिभ्यो बहि प्रलम्बभुजस्तिष्ठतीति । “एगराइयंति एका रात्रि प्रमाणमस्या इत्येकरात्रिकी ताम्, अस्यां चाष्टमभक्तिको ग्रामादिबहिरीषदवनतगात्रोऽनिमिषनयनःशुष्कपुद्गलनिरुद्धष्टि जिनमुद्रास्थापितपादःप्रलम्बितभुजस्तिष्ठतीति, विशिष्टसंहननादियुक्त एव चैताःप्रतिपद्यन्ते, आह च॥१॥ “पडिवजइ एयाओ संघयणधिइजुओ महासत्तो। पडिमाउ भावियप्पा सम्मं गुरुणा अणुन्नाओ।" इत्यादि । 'सत्तसत्तमिय'ति सप्तसप्तमानि दिनानि यस्यांसातथासाचसप्तभिर्दिनानांसप्तकैर्भवति, तत्र च प्रथमदिने एका दत्तिभक्तस्यैकैव च पानकस्यैवं द्वयादिष्वेकोत्तरया वृद्धया सप्तमदिने सप्त दत्तयः, एवमन्यान्यपिषट्सप्तकानि, अथवा प्रथमसप्तके प्रतिदिनमेका दत्तिद्धितीयादिषुतु द्वयादयो यावत्सप्तमे सप्तके प्रतिदिनं सप्तेति, एवमष्टाष्टमिका नवनवमिका दशदशमिका चेति, नवरंदत्तिवृद्धि कार्येति। कवचिदिह स्थाने भद्रासुभद्रामहाभद्रासर्वतोभद्राभद्रात्तराश्च भिक्षुप्रतिमाः पठ्यन्ते, तत्र सुभद्रा अप्रतीता, शेषास्तु व्याख्याताः प्राक् । नवरं भद्रोत्तरास्थापना एवम्-५।६।७।८।९ प्रथमा पङ्कित ७।८।९।५।६ द्वितीया ९।५।६।७।८ तृतीया ६।७।८।९।५ चतुर्थी ।६।७।८।९।५।चतुर्थी।८।९।५।६।७।पञ्चमीति। अथवा ।५।६।७।८।९।१०।११ प्रथमा पङ्कित ।८।९।१०।११५।६।७। द्वितीया ।११।५।६।७।८।९।१० तृतीया।७।८।९।१०।११।५।६चतुर्थी।१०।११।५।६।७।८।९।पञ्चमी ।६।७।८।९।१०।११।५। षष्ठी।९।१०।११।५।६।७।८। सप्तमीति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy