________________
१००
औपपातिकउपाङ्गसूत्रम्-१५ 'खुड्डिय'ति क्षुद्रिका-महत्यपेक्षया लध्वी मोकप्रतिमा-प्रश्रवणाभिग्रहः, इयं च द्रव्यतः प्रश्रवणविषया प्रश्रवणस्याप्रतिष्ठापनेत्यर्थ, क्षेत्रतोग्रामादेर्बहि, कालतःशरदिनिदाधेवाप्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्ये, भावतस्तु दिव्यादिकोपसर्गसहनमिति । एवं महामोकप्रतिमाऽपि नवरं भुक्त्वा चेत् प्रतिपद्यतेतदाषोडशभक्तेन समाप्यते, अभुक्त्वाचेत्तदाऽष्टादशभक्तेनेति। 'जवमझचंदपडिमंति यवस्येव मध्यं यस्यां सा यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि-शुक्लप्रतिपदि एक कवलं भिक्षां वा अभ्यवहृत्य प्रतिदिनं कवलादिवृद्धया पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदशैव भुक्त्वा प्रतिदिनमेकहन्या अमावास्यायामेकमेव यस्यां भुकेसा स्थूलमध्यत्वत् यवमध्येति।
'वइरमज्झचंदपडिम'तिवैरस्येव (वज्रस्येव) मध्यं यस्यांसातथा, यस्यां हि कृष्णप्रतिपदि पञ्चदश कवलान् भुक्त्वा ततः प्रतिदिनमेकहान्या अमावास्यायामेकं शुक्लप्रतिपद्यप्येकमेव, ततः पुनरेकैकवृद्दया पौर्णमास्यां पञ्चदश भुके सा तनुमध्यत्वाद्वज्रमध्येति॥वाचनान्तराधीतमथ पदचतुष्कम्-'विवेगपडिमंति विवेचन विवेकः-त्यागः, स चान्तराणां कषायादीनां बाह्यानां च गणशरीरानुचितभक्तपानादीनां तत्प्रतिपत्तिर्विवेकप्रतिमेति । 'विउस्सग्गपडिमंति व्युत्सर्गप्रतिमा-कायोत्सर्गकरणमिति।
"उवहाणपडिमं ति तपोविषयोऽभिग्रहः, यद्यपि दशाश्रुत्कन्धे भिक्षूपसकप्रतिमा स्वरूपेयमुक्ता तथापीह तथा नव्याख्याता, भिक्षुप्रतिमानांप्रागेवदर्शितत्वाद्, उपासकप्रतिमानां च साधूनामसम्भवात् । 'पडिसंलीणपडिमंति संलीनताऽभिग्रहमिति ॥
मू. (१६) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे थेरा भगवंतोजातिसंपन्ना कुलसंपन्नाबलसंपन्नास्वसंपन्नाविनयसंपन्ना नाणसंपण्णादसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओसंसी तेअंसी वच्चंसी जसंसी।
-जिअकोहा जियमाणा जिअमाया जिअलोभा जिअइंदिआ जिअणिद्दा जिअरीसहा जीविआसमरणभयविप्पमुक्क वयप्पहाणागुणप्पहाणा करणप्पहाणा चरणप्पहाणा णिग्गहप्पहाणा निच्छयप्पहाणा अजवप्पहाणा महवप्पहाणा लाघवप्पहाणा
-खंतिप्पहाणा मुत्तिप्पहाणा विजापहाणा मंतप्पहाणा वेअप्पहाणा बंभप्पहाणा नयप्पहाणा नियमप्पहाणा सच्चप्पहाणा सोअप्पहाणा चारुवण्णा लज्जातवस्सीजिइंदिआ सोही अनियाणा
अप्पुस्सुआ अबहिल्लेसा अप्पडिलेस्सा सुसामण्णरया दंता इणमेव निग्गथं पावयणं पुरओकाउं विहरंति।
वृ. साधुवर्णकगमान्तरमेव, तत्र 'जाइसंपन्न'त्तिउत्तममातृकपक्षयुक्ताइत्यवसेयम्, अन्यथा मातृकपक्षसम्पन्नत्वं पुरुषमात्रस्यापि स्यादिति नैषामुत्कर्षकश्चिदुक्तः स्याद्, उत्कर्षाभिधानार्थं चैषां विशेषणकदम्बकं चिकीर्षितमिति, एवं 'कुलसंपन्ना' इत्याद्यपि विशेषणनवकं, नवरं कुलंपैतृकः पक्षः बं-संहननसमुत्थः प्राणः रूपम्-आकृति विनयज्ञाने प्रतीते दर्शनं-सम्यक्त्वं चरित्रं-समित्यादि लज्जा-अपवादभीरुता संयमो वा लाघवं-द्रव्यतोऽल्पोपधिता भावतो गरवत्रयत्यागः 'ओअंसित्ति ओजो-मानसोऽवष्टम्भस्तद्वन्तः ओजस्विनः 'तेयंसित्ति तेजः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org