SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ औपपातिकउपाङ्गसूत्रम्-११ च-अभिधानं यथामहावीर इति, गोत्रंच-वंशोयथा काश्यपगोत्र इति, नामगोत्रमिति द्वन्द्वैकत्वमतस्तस्य, अथवानामाभिधानं गोत्रंच यथार्थ, ततः कर्मधारय इति। 'सवणयाए'त्ति श्रवणानां भावः श्रवणता तया, स्वार्थिको वा ताप्रत्ययः प्राकृतशैलीप्रभव इति। मू. (१२) तए णं से कूणिए राया भंभसारपुत्ते तस्स पवित्तिवाउअस्स अंतिए एयमटुं सोचा निसम्म हट्टतुट्ठजावहिअए विअसिअवरकमलनयनवयणे पअलिअवरकडगतुडियकेयूरमउडकुंडलहारविरायंतरइयवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियं चवलं नरिंदे सीहासणाउ अब्भुढेइ २ ता पायपीढाउ पञ्चोरुहइ २ ता पाउआओ ओमुअइ २ ता अवहट्ट पंच रायककहाइंतंजहा खग्गं १ छत्तं २ उपफेसं३ वाहणाओ४ बालवीअणं ५ एक्कसाडियं उत्तरासंगं करेइ २ ता आयंते चोक्खे परमसुइभूए अंजलिमउलिअग्गहत्थे तित्थगराभिमुहे सत्तट्ठ पयाई अनुगच्छति सत्तट्ठ पयाइं अणुगच्छित्ता वामंजाणुंअंचेइ वामं जाणुअंचेत्ता दाहिणंजाणुंधरणितलंसि साहट्ट तिकखुत्तो मुद्धाणं धरणितलंसि निवेसेइ २ ता । ईसिं पच्चुण्णमति पच्चुण्णमित्ता कडगतुडियथंभिआओ भुआओ पडिसाहरति रत्ता करयल जाव कट्ठएवं वयासी वृ. सोचा निसम्म'त्ति श्रुत्वा श्रोत्रेणाकर्ण्य निशम्य-हृदयेनावधार्य । 'धाराहयनीवसुरभिकुसुमचंचुमालइअउच्छियरोमकूवे' धाराभि-जलधरवारिधाराभिर्हतंयन्नीपस्य-कदम्बस्य सुरभिकुसुमं तत्तथा, तदिवचंचुमालइयत्ति-पुलकितोऽत एव उच्छ्रितरोमकूपश्च यः स तथा, इदं च विशेषणं कचिदेव दृश्यते । 'विअसियवरकमलणयणवयणे' विकसितानिभगवदागमनवाश्रिवणजनितानन्दातिशयादुत्फुल्लानि वरकमलवन्नयनवदनानि यस्य स तथा। 'पचलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतरइयवच्छे' प्रचलितानिभगवदागमनश्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वराणि-प्रधानानिकटकानिच करणानि तुटिकाश्च-बाहुरक्षकाः केयूराणि च-अङ्गदानि मुकुटंच-किरीटं कुण्डले च-कर्माभरणे यस्य स तथा, हारो-मुक्ताकलापो विराजन्–शोभमानो रचितो-विहितो वक्षसि उरसि येन स तथा, ततः कर्मधारयः । पालंबपलंबमाणघोलंतभूसणधरे' प्रालम्बो-झुम्बनकंप्रलम्बमानं-लम्बमानं घोलंच-दोलायमानं यद्भूषणम्-आभरणं तद्धारयति यः स तथा। 'ससंभमंति सादरं 'तुरियं चवलंति-अतित्वरितं, क्रयाविशेषणे चैते । “पञ्चोरुहइत्ति प्रत्यवरोहति-अवतरतीत्यर्थ, क्वचिदिदं पादुकाविशेषणं दृश्यते-'वरुलियवरिटरिट्ठअंजणनिउणोवियमिसिमिसिंतमणिरयणमंडियाओ'त्तिएवंचात्राक्षरघटना-वरिष्ठानि-प्रधानानि वैडूर्यरिष्ठाअनानि-रलविशेषा ययोस्ते तथा, तथा निपुणेन-कुशलेन शिल्पिना ओवियत्तिपरिकर्मिते येते तथा, अत एव मिसिमिसिंतत्ति-चिकिचिकायमाने मणिरत्नैः चन्द्रकान्तादिकतनादिभिर्मण्डिते-भूषिते ये तथा, ततः पदचतुष्टयस्य कर्मधारयः। तथेदमपि अवहट्टपंच रायककुहाई, तंजहा-खगंछत्तंउप्फेसंवाहणाओवालवीअणं'ति तत्रावह?-अपहृत्य-परिहृत्य राजककुदानि-राजचिह्नानि उप्फेसंति-मुकुटं वालव्यजनीचामरमिति। ‘एगसाडियंउत्तरासंग'तिएकःसाटकोयस्मिन्नस्तिसएकसाटिकः उत्तरासङ्गो-वैकक्षकम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy