________________
मूलं- ११
रन्नो गिहे जेणेव बाहिरिया उवट्ठाणसाला जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टुजएणं विजएणं बद्धाबेइ २ एवं वयासी । देवापि स खंति जस्स णं देवाणुप्पिया दंसणं पीहंति जस्स णंदेवाणुप्पिया दंसणं पत्थति जस्स णं देवाणुप्पिया दंसणं अभिलसंति जस्स णं देवाणुप्पिया नामगोत्तस्सवि सवणयाए हट्टतुट्टजावहि अया भवंति । से णं समणे भगवं महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुग्गामं दूइजमाणे चंपाए नयरीए उवनगरगामं उवागए चंपं नगरिं पुन्नभद्दं चेइअंसमोसरिडं कामे, तं तअ णं देवाणुप्पियाणं पिअट्टयाए पिअं निवेदेमि, पिअं ते भवउ ।
वृ. ततोऽनन्तरं, 'ण' मिति वाक्यालङ्कारे, 'से' इति असौ 'पवित्तिवाउए' त्ति प्रवृत्तिव्यापृतो भगवद्वार्ताव्यापारवान् 'इमीसे कहाए' त्ति अस्यां गवदागमनलक्षणायां वार्तायां 'लद्धट्टे समाणे 'त्ति लब्धार्थ सन्- प्राप्तार्थ सन्, विज्ञः सन्नित्यर्थ, 'हतुट्ठचित्तमामंदिए 'त्ति हष्टतुष्टम् - अत्यर्थतुष्टं दृष्टं वा - विस्मितं तुष्टं च-तोषवच्चित्तं - मनो यत्र तत्तथा तत् हृष्टतुष्टचित्तं यथा भवति, एवमानन्दितईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः ततश्च 'नंदिए' त्ति नन्दितः समृद्धितरतामुपगतः । 'पीइमणे' प्रीति - प्रीणनमाप्यायनं मनसि यस्य स तथा, 'परमसोमणस्सिए' परमं सौमनस्यं - सुमनस्कता सञ्जातं यस्य स परमसौमनस्थिकः तद्वाऽस्यास्तीति परमसौमनस्थिकः, 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पत्-विस्तारं व्रजद्ध दयं यस्य स तथा, सर्वाणि चैतानि हृष्टादिपदानि प्राय एकार्थानि, न च दुष्टानि, प्रमोदप्रकर्षप्रतिपत्तिहेतुत्वात् स्तुतिरूपत्वाच्च, यदाह“वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुर्वस्तथा निन्दन् । यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषाय ॥
'पहाएत्ति' व्यक्तं, 'कयबलिकम्मे 'त्ति स्नाना- नन्तरं कृतं बलिकर्म स्वगृहदेवतानां येन स तथा । 'कयकोउ अमंगलपायच्छित्ते' कृतानि कौतुक - मङ्गलान्येव प्रायश्चित्तानि - दुःस्वप्ना - दिविधातार्थमवश्यकरणीयत्वाद्येन स तथा तत्र कौतुकानि - मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थदध्यक्षतदूर्वाङ्करादीनि 'सुद्धप्पवेसाई मंगल्लाई वत्थाई पवरपरिहिए' शुद्धात्मा - स्नाने शुचिकृतदेहः वेश्यानि - वेशे साधूनि अथवा शुद्धानि च तानि प्रवेश्यानि च - राजसभाप्रवेशोचितानि चेति विग्रहः, मङ्गल्यान—मङ्गलकरणे साधूनि वस्त्राणि व्यक्तं, पवरत्ति - द्वितीयाबहुवचनलोपात् प्रवराणि - प्रधानानि परिहितो- निवसितः अथवा प्रवरश्चासौ परिहितश्चेति समासः ।
'अप्पमहग्घाभरणालंकियसरीरे'त्ति व्यक्तं, नवरं अल्पानि - स्तोकानि महार्घाणिबहुमूल्यानि । 'सआओ' त्ति स्वकात् स्वकीयात् । 'जेणेव 'त्ति यस्मिन्नेव देश इत्यर्थः । 'सिरसावत्तं ति शिरसामस्तकेनाप्राप्तम्-अस्पृष्टं शिरसि वा आवर्तत इति शिरस्यावर्तोऽतस्तं । 'जएणं विजएणं वद्धावेति'त्ति जयः-सामान्यो विघ्नादिविषयो विजयः - स एव विशिष्टतरः प्रचण्डप्रति - पन्थादिविषयः वर्धयति-जयेन विजयेन च वर्द्धस्व त्वमित्येवमाशिषं प्रयुङ्क्ते स्मेत्यर्थ । 'देवाणुप्पियत्ति सरलस्वभावाः' ।
'दंसणं' ति अवलोकनं । 'कंखंति' त्ति प्राप्तं सद्विमोक्तुं नेच्छन्ति 'पीहंति 'त्ति स्पृहयन्ति अनवाप्तमवाप्तुमिच्छन्ति । 'पत्यंति' त्ति प्रार्थयन्ति तथाभूतसहायजनेभ्यः सकाशाद्याचन्ते । ‘अभिलसंति’त्ति अभिलषन्ति - आभिमुख्येन कमनीयमिति मन्यन्ते । 'नामगोत्तस्सवि' त्ति नाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
९१