________________
८८
औपपातिकउपाङ्गसूत्रम्-१० दतिरेकेण-अतिशयेन वर्तिता-वृत्ता कटीयस्य सतथा। 'वरतुरगसुजायगुज्झदेसे' वरतुरगस्येव सुजातः-सङ्गुप्तत्वेन सुनिष्पन्नो गुह्यदेशो यस्य स तथा, वाचनान्तरे तु 'पसत्यवरतुरगगुज्झदेसे' व्यक्तं च । 'आइन्नहउव्व निरुवल्लेवे' जात्यश्व इव निरुपलेपो-लेपरहितशरीरः, जात्यश्वो हि मूत्रपुरीषाद्यनुपलिप्तगात्रो भवति।
___ 'वरवारणतुल्लविक्कमविलसियगई वरारणस्य-गजेन्द्रस्य तुल्यः-सशोविक्रमः-पराक्रमः विलसिताच-विलासवती गति-गमनंयस्यसतथा। गयससणसुजायसन्निभोरु गजश्वसनस्यहस्तिनासिकायाः सुजातस्य सुनिष्पन्नस्य सन्निभ-सश्यौ ऊरू-जो यस्यसतथा। 'समुग्गणिमग्गगूढजाणू' समुद्गः-समुद्गकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वन्निमग्नगूढे अत्यन्तनिगूढे मांसलत्वादनुन्नतेजानुनी-अष्ठीवतीयस्य स तथा। ‘एणीकुरुविंदावत्तवट्टाणुपुव्वजंघे' एणी-हरिणी तस्या इव कुरुविन्दः-तृणविशेषः वत्रंच-सूत्रवलनकं ते इव च वृत्ते-वर्तुले आनुपूव्येर्णतनुकेचेति गम्यं, जङ्के-प्रसृते यस्य स तथा, अन्येत्वाहुः-एण्यः-स्नायवः कुरुविन्दा-कुटिलकाभिधानोरोगविशेषः ताभिस्त्यक्ते, शेषं तथैव । संठियसुसिलिट्ठगूढगुप्फे' संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-सुघटनौ गूढौ-मांसलत्वाद- नुपलक्ष्यौ गुल्फौपादमणिबन्धौ यस्य स तथा। _ 'सुपइट्ठियकुम्मचारुचलणे' सुप्रतिष्ठितौ-शुभप्रतिष्ठौ कूर्मवत्-कच्छपवच्चारू-उन्नतत्वेन शोभनौ चलनौ-पादौ यस्य स तथा । ‘अनुपुव्वसुसंहयंगुलीए' आनुपूव्येर्ण-क्रमेण वर्द्धमाना हीयमाना वाइतिगम्यं, सुसंहता-सुष्टुअविरला अडल्यः-पादाग्रावयवायस्य सतथा, अनुपुव्वसुसाहयपीवरंगुलीए'त्ति कवचिद् द्दश्यते । 'उन्नयतणुतंबणिद्धणहे' उन्नता-अनिम्नाः तनवःप्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्ता नखाः-पादाङ्गुल्यवयवा यस्य स तथा । 'रत्तुप्पलपत्तमउयसुकुमालकोमलतले' रक्तं-लोहितमुत्पलपत्रवत्-कमलदलवन्मृदुकम्-अस्तब्ध सुकुमाराणां मध्ये कोमलं पादतलं यस्य स तथा।
'अट्ठसहस्सवरपुरिसलक्खणधरे'त्ति व्याख्यातमेव । वाचनान्तरेऽधीयते-'नगनगरमगरसागरचक्ककवरंकमंगलंकियचलणे' नगः-पर्वतो नगरं-पत्तनं मकरो-जलचरविशेषः सागरः-समुद्रः चक्र-रथाङ्गंएतान्येवाङ्का-लक्षणानि वराङ्काश्च-नगादिव्यतिरिक्तप्रधानलक्षणानि मङ्गलादीनिच-स्वस्तिकादीनीति द्वन्द्वः, तैरङ्कितौ चलनी यस्य स तथा। 'विसिहरूवे'त्ति व्यक्तं 'हुयवहनिद्भूमजलियतडितडियतरुणरविकिरणसरिसतेए' हुतवहस्य निर्धूमं यद् ज्वलितं तस्य तटितडितश्च-विस्तारितविद्युतः तरुणरविकिरणानां च-अभिनवादित्यकराणां सशंसमं तेजः-प्रभा यस्य स तथा। _ 'अणासवे' प्राणातिपातादिरहितः। अममे' ममेतिशब्दरहितो, निर्लोभत्वात्। 'अकिंचणे निर्द्रव्यः, परिग्रहसंज्ञारहित्वात् । 'छिन्नसोए' छिन्नश्रोताः त्रुटितभवर्रवाहः, छिन्नशोको वा। 'निरुवलेवे' द्रव्यतो निर्मलदेहो, भावतस्तुकर्मबन्धहेतुलक्षणोपलेपरहितः। पूर्वोक्तमेव विशेषेणाह-‘ववगयपेमरागदोसमोहे' व्यपगतं-नष्टंप्रेमच-अभिष्वङ्गलक्षणंरागश्च-विषयानुरागलक्षणो द्वेषश्च-अनिष्टेऽप्रीतिरूपो मोहश्च अज्ञानरूपो वा यस्य स तथा।
'निग्गंथस्स पवयणस्स देसए' निर्ग्रन्थस्य-जैनस्य प्रवचनस्य-शासनस्य देशकः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org