________________
मूलं-१० लक्ष्यमाणपृष्ठवंशास्थिकं, कनकस्येव रुचको-रुचिर्यस्य स तथा, तं च निर्मलं च सुजातं च निरुपहतंच-रोगोपहतिवर्जितं देहंधारयतीत्येवंशीलो यःस तथा।अट्ठसह-स्सपाडिपुन्नवरपुरिसलक्खण धरेत्ति क्वचिदश्यते अष्टसहस्रम - अष्टोत्तर सहं प्रतिपूर्णम् - अन्यूनं वरपुरुष लक्षणानां - स्वस्तिकादीनां धारयति यः स तथा 'सण्णय पासे' अधोऽधः पार्श्वयोरवनत्वात् 'संगयपासे' देहप्रमाणोचित्तपावः,अतएव सुंदरपास'त्तिव्यक्तं, 'सुजायपासे सुनिष्पन्नपाश्वः, मियमाइअपीणरइयपासे मित्तमात्रिकी-अत्यर्थंपरिमाणवन्तौ पीनौ-उपचितौ रतिदौ-रम्यौपाश्वौंकक्षाधोदेशौ यस्य स तथा।
‘उज्जुयसमसंहियजच्चतणुकसिणनिध्धआइज्जलऽहरमणिज्जरोमराई ऋजुकानाम्-अवक्राणां समानाम्-अविषमाणां संहितानां-संहतानांजात्यानांप्रधानानांतनूना-सूक्ष्माणां कृष्णानां-कालानां स्निग्धानाम्-अरुक्षाणाम् आदेयानाम्-उपादेयानां लडहानां-सलावण्यानाम् अतएवरमणीयानां च - रम्याणां रोम्यां - तनूरुहाणां राजिः-पङ्क्तिर्यस्य स तथा । ‘झसविहगसुजायपीणकुच्छी' मत्स्यपक्षिणोरिव सुजातौसुनिष्पन्नौ पीनी-उपचितौ कुक्षी-उदरदेशविशेषौ यस्य स तथा।
मू. (१०-वतते) झसोदरे सुइकरणे पउमविअडणाभे गंगावत्तकपयाहिणावत्ततरंगभंगुररविकिरण-तरुणबोहियअकोसायंतपुमगंभीरवियडनाभे साहयसोणंदमुसलदप्पणनिकरियवरकणगच्छरुसरिसवरवइरवलिअमझेपमुइयवरतुरगसीहवरवट्टियकडी वरतुरगसुजायसुगुज्झदेसे आइण्णहउव्व निरुवलेवे वरवारणतुल्लविक्कमविलसियगई गयससणसुजायसन्नि भोरु समुग्गणिमग्गगूढजान्।
-एणीकुरुविंदावत्तवट्टाणुपुव्वजंघे संठियसुसिलिट्ठगूढगुप्फे सुप्पइट्ठियकुम्मचारुचलणे अनुपुव्वसुसंहयंगुलीए उन्नयतणुतंबणिद्धणक्खे रत्तुप्पलपत्तमउअसुकुमालकोमलतले असहस्सवरपुरिसलक्खणधरे नगनगरमगरसागरचक्ककवरंकमंगलंकियचलणे विसिट्ठरूवे हुयवहनिद्भूमजलियतडितडियतरुणरविकिरणसरिसतेए अणनसवे अममे अकिंचने छिन्नसोए निरुवलेवे ववगपेमरागदोसमोहे निग्गंथस्स पवयणस्स देसए।
वृ. 'झसोदरे'ति व्यक्तं । 'सुइकरणे' शुचीन्द्रियः । 'झषोदरपद्मविकटनाभि' इति पाठान्तरं । 'गङ्गावत्तकपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियअकोसायंतपउमगंभीरवियडणाहे' गङ्गावर्तक इव प्रदक्षिणावर्ततरङ्गैरिव-वीचिभिरिव भङ्गुरा च-भग्ना रविकिरणतरुणत्ति-तरुणरविकिरणैर्बोधितं-स्पृष्टं अकोसायंतत्ति-विकाशीभवद् यत्पमं तद्वद्गम्भीरा च विकटा च नाभिर्यस्य स तथा। _ 'साहयसोणंदमुसलदप्पणणिकरियवरकणगच्छरुसरिसवरवइरवलियमज्झे' साहयत्तिसंहतंसंक्षिप्तमध्यं यत्सोणंद-त्रिकाठिका मुशलंच-प्रतीतंदर्पणकश्च-आदर्शकदण्डोनिगरियत्तिसारीकृतं यद्वरकनकंतस्ययः त्सरु-खड्गमुष्टिसचेतिद्वन्द्वः, तैः सहशोवरवज्रइववलितः-क्षामो मध्यो-मध्यभागो यस्य स तथा।
‘पमुइयवरतुरयसीहवरवट्टियकडी' प्रमुदितस्य-रोगशोकाद्यनुपहतस्य वरतुरगस्येव सिंहवरस्येव च प्रतीतस्य वर्तिता-वृत्ता कटीनितम्बदेशो यस्य स तथा, पाठान्तरे तु ‘पमुइयवरतुरगसीहअइरेगवट्टियकडी'त्ति दृश्यते, तत्र प्रमुदितयोर्वरयोस्तुरगसिंहयोः कटयाः सकाशाJain Education International
For Private & Personal Use Only
www.jainelibrary.org