________________
औपपातिकउपाङ्गसूत्रम्-१० सैरीभेयः वराहः-शूकरः सिंहः-केसरी शार्दूलो-व्याघ्रः ऋषभो-वृषभो नागवरः-प्रधानगजः एषामिव प्रतिपूर्ण-स्वप्रमाणेनाहीनोविपुलो विस्तीर्ण स्कन्धः-अंशदेशोयस्यसतथा। 'जुगसन्निभपीणरइयपीवरपउट्ठसंठियसुसिलिठविसिट्टघणथिरसुबद्धसंधिपुरवरफलिहवट्टियभुए' युगसन्निभौ-वृत्तत्वायतत्वाभ्यां यूपतुल्यौ पीनौ-उपचित रतिदौ-पश्यतां सुखकरौ पीवरप्रकोष्ठौ अकृशकलाचिकौ संस्थिती-विशिष्टसंस्थानौ सुश्लिष्टाः-सङ्गता विशिष्टाः-प्रधानाः घना-निविडाः स्थिराः-नातिश्लथाः सुबद्धाः-सुष्ठुनद्धाः स्नायुभि सन्धयः-सन्धानानिययोस्तौ तथा, पुरवरपरिधवत्-नगरार्गलावर्तितौ च बाहू यस्य स तथा, वाचनान्तरे ‘पुरवरफलिहवट्टियभुए' इत्येतावदेव भुजविशेषणं दृश्यते।
भयईसरविउलभोगआदाणपलिहउच्छूढदीहबाहु' भुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो-देहः सतथा, स चासौआदानार्थम्-ईप्सितार्थग्रहणाय 'पलिहोच्छूट'ति पर्यवक्षिप्तश्च-प्रसारित इति समासः, पाठान्तरे 'आयाणफलिहओच्छूढ'त्ति आदीयतेअस्मादित्यादानम्-अर्गलास्थानं तस्माद् ‘उच्छूढो ति निष्काशितः ‘फलिहो'त्ति अर्गलादण्डः स इव ताविव वा दीर्धी बाहू यस्य स तथा, वाचनान्तरे युगसन्निभपीनरतिदपीवरप्रकोष्ठश्चासौ संस्थितोपचितघनस्थिरसुसम्बद्धसुनिगूढपर्वसन्धिश्चेति कर्मधारयपदमिति।
'रत्ततलोवइयमउअमंसलसुजायलक्खणपसत्थअच्छिद्दजालपाणी' रक्ततलौलोहिताधोभागौउपचिती-उन्नती मृदुक-कोमलौ मांसलौ-समांसौसुजाती-सुनिष्पन्नौ प्रशस्तलक्षणौ-शुभचिह्नौ अच्छिद्रजालौ-विवक्षिताङ्गुल्यन्तरालसमूहरहितौ पाणीहस्तौ यस्य सतथा। 'पीवरकोमलवरंगुली' व्यक्तं, नवरं पीवराः-महत्यः, कवचित्तु दृश्यते 'पीवरवट्टिय- सुजायकोमलवरंगुली' व्यक्तं च । 'आयंबतंवतलिणसुइरुइलनिद्धणखें' 'आयंबतंव'त्ति ताम्रवत् आताम्रा-ईषल्लोहिताः तलिनाः-प्रतलाः शुचयः-पवित्राः रुचिराः-दीप्ताः स्निग्धा-अरूक्षा नखाःकररुहायस्यसतथा। 'चंदपाणिलेहे चन्द्राकाराः पाणौरेखा यस्य स तथा, एवमन्यान्यपि त्रीणि।
"दिसासोत्थिअपाणिलेहे' दिक्स्वस्तिकः-दक्षिणावर्तस्वस्तिकः, एतदेवानन्तरोक्तं विशेषणपञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह-चन्द्रसूर्यशङ्खचक्रदिकस्वस्तिकपाणिलेखः, अतएव वाचनान्तरेऽधीयते-'रविससिसंखचक्कसोत्थियविभत्तसुविरइयपाणिलेहे' व्यक्तं, नवरं विभक्ता-विभागवत्यः सुविरचिताः-सुष्टुकृताःस्वकीयकर्मणा । 'अनेगवरलक्खणुत्तिमपसत्थसइरइयपाणिलेहे' अनेकैर्वरलक्षणैरुत्तमाःप्रशस्ताः शुचयोरतिदाश्चरम्याः पाणिलेखा यस्य स तथा।
अथप्रकृतवाचनाऽनुश्रीयते-'कणगसिलायलुजलपसत्थसमतलउवचियविच्छिन्नपिहुलवच्छे' कनकशिलातलवदुज्ज्वलं प्रशस्तंच-शुभं समतलञ्च-अविषमरूपम् उपचितञ्च-मांसलं विस्तीर्णंपृथुलं च-अतिविशालं च वक्षः-उरो यस्य स तथा । 'सिरिवच्छंकियवच्छे' व्यक्तं, वाचनान्तरे तु वक्षोविशेषणान्येवं दृश्यन्ते-‘उवचियुरवरकाडविच्छिण्णपिहुलवच्छे' उपचितं पुरवरकपाटवद्विस्तीर्णं पृथुलं च-अतिपृथु वक्षो यस्य स तथा, 'कणयसिलायलुज्जलपसत्थसमतलसिरिवच्छरइयवच्छे' पूर्ववन्नवरं श्रीवत्सेन रतिदं-रम्यमिति विशेषः।
‘अकरंडुअकणगरुययनिम्मलसुजायनिरुवहयदेहधारी' अकरण्डुकञ्च-मांसलतयाऽनुपJain Education International
For Private & Personal Use Only
www.jainelibrary.org