SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मूलं-१० मू. (१०-वर्तते) सत्थनायगे पइटावए समणगपई समणगविंदपरिअट्टएचउत्तीसबुद्धवयणातिसेसपत्तेपणतीससच्चवयणातिसेसपत्ते आगासगएणंचक्केणं आगासगएणंचत्तेणंआगासियाहिं चामराहिं आगासफलिआमएणं सपायवीढेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिजमाणेणं -चउद्दसहिं समणसाहस्सीहिंछत्तीसाए अजिआसाहस्सीहिं सद्धि संपरिवुडे पुव्वानुपुर्वि चरमाणेचरमामेगामाणुग्गामं दूइज्जमाणे सुहंसुहेणं विहरमाणे चंपाएनयरीएबहियाउवनगरग्गामं उवागए चंपं नगरि पुन्नभई चेइअंसमोसरिउं कामे ॥ वृ.शास्तानायकः, तस्यैव नेता स्वीमीत्यर्थः । पइट्ठावए तस्यैवप्रतिष्ठापकः,तैस्तैरुपायैर्व्यवस्थापकः। 'समणगपई श्रमणकपति, साधुसङ्घाधिपति । 'समणगविंदपरिअट्टए' श्रमणा एव श्रमणकास्तेषांवृन्दस्य परिवर्तको वृद्धिकारी परिकर्षको वा अग्रगामी तेन वा पर्यावकःपरिपूर्णो यः स तथा । 'चउत्तीसबुद्धवयणातिसेसपत्ते' चतुस्त्रिंशत् बुद्धानांजिनानां वयगत्तिवचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं धर्मवबोधकर'मित्यादिनोक्तस्वरूपा येऽतिशेषाअतिशयास्तान् प्राप्तो यः स तथा। इह च वचनातिशयस्य ग्रहणमत्यन्तोपकारित्वेन प्राधान्यख्यापनार्थम्, अन्यथा देहवैमल्यादयस्ते पठ्यन्ते, यत आह॥१॥ "देहं विमलसुयंघं आमयपस्सेयवञ्जियं अरुयं । रुहिरंगोक्खीराभं निव्वीसं पंडुरं मंसं ॥" इत्यादि। 'पणतीससच्चवयणाइसेसपत्ते' पञ्चत्रिंशत्येसत्यवचनस्यातिशेषा-अतिशयास्तान्प्राप्तो यः स तथा, ते चामी वचनातिशयाः-तद्यथा-संस्कारवत्तम् १ उदात्तत्वम् २ उपचारोपेतत्वं ३ गम्भीरशब्दत्वम् ४ अनुनादित्वं५ दक्षिणत्वम् ६ उपनीतरागत्वं७महार्थत्वम् ८ अव्याहतपौर्वापर्यत्वं ९शिष्टत्वं १० असन्दिग्धत्वम् ११ अपहतान्योत्तरत्वं १२ ह्यदयग्राहित्वं १३ देशकालाव्यतीतत्वं १४ तत्वानुरूपत्वम् १५ अप्रकीर्णप्रसृतत्वम् १६अन्योऽन्यप्रगृहीतत्वम् १७ अभिजातत्वम् १८॥ __ अतिस्निग्धमधुरत्वम् १९ अपरमर्मवेधित्वम् २० अर्थधर्माभ्यासानपेतत्वम् २१ उदारत्वं २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वम् २३ उपगतश्लाध्यत्वम् २४ अपनीतत्वम् २५ उत्पादिताच्छिन्नकौतूहलत्वम् २६ अद्भूतत्वम् २७ अनतिविलम्बित्वं २८ विभ्रमविक्षेपकिलिकिञ्चितादिविप्रयुक्तत्वम् २९अनेकजातिसंश्रयाद्विचित्रत्वम् ३० आहितविशेषत्वं ३१ साकारत्वं ३२ सत्वपरिगृहीत्वंम् ३३ अपरिखेदित्वम् ३४ अव्युच्छेदित्वं ३५ चेति वचनातिशयाः। तत्र ‘संस्कारवत्तंव' संस्कृतादिलक्षणयुक्तत्वं १ उदात्तत्वम्-उच्चैर्वृत्तित्वम् २ उपचारोपेतत्वम्-अग्राम्यता३ गम्भीरशब्दत्वं-मेघस्येव४ अनुनादित्वं-प्रतिरवोपेतत्वादि ५ दक्षिणत्वंसरलत्वम् ६ उपनीतरागत्वं-मालवकेशिकादिग्रामरागयुक्तताएते सप्त शब्दापेक्षाअतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-बृहदभिधेयत्ता ८ अव्याहतपूर्वापरत्वं-पूर्वापरवाक्याविरोधः ९ शिष्टत्वम्-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा १० असन्दिग्धत्वम्असंशयकारिता ११ अपहतान्योत्तरत्वं-परदूषणाविषयता १२ हृदयग्राहित्वं-श्रोतृमनोहरता १३ देशकालाव्यतीतत्वं प्रस्तावोचितता १४ तत्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता १५ अप्रकीर्णप्रसृतत्वं-सुसम्बद्धस्य सतः प्रसरणम्, अथवा असम्बद्धाधिकारत्वातिविस्तरयोरभावः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy