________________
मूलं- 9
६९
दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा अनेन तत्रोपद्रवकारिणमभावमाह । 'खेमा' अशिवाभावात् ।
'निरुवद्दवा' निरुपद्रवा, अविद्यमानराजादिकृतोपद्रवेत्यर्थ । 'सुभिक्खा' सुष्टु - मनोज्ञाः प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा । अत एव पाषण्डिनां गृहस्थानां च 'वीसत्थर हावासा' विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखः - सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा 'अनेगकोडिकुडुम्बियाइण्णनिव्वयसुहा' अनेकाः कोटयो द्रव्यसङ्ख्यानां स्वरूपपरिमाणे वा येषां ते अनेककोटयः तैः कौटुम्बिकैः कुटुम्बिभिराकीर्णा - सङ्कुला या सा तथा सा चासौर्वृता च-सन्तुष्टजनयोगात्सन्तोषवतीति कर्म्मधारयः, अत एव सा चासौ सुखा च शुभा वेति कर्म्मधारयः
‘नडनट्टगजल्लमल्लमुट्ठियवेलम्बयकहगपवगलास ग आइक्खगलंखमंखतूणइल्लतु बवीणिय अणेगतालायराणुचरिया' नटाः - नाटकानां नाटयितारो नर्त्तका ये नृत्यन्ति, अि इत्येके, जल्ला - वरत्राखेलकाः, राज्ञः स्तोत्रपाठका इत्यन्ये, मल्लाः- प्रतीताः मौष्टिका - मल्ला एव ये मुष्टिभि प्रहरन्ति, विडम्बकाः - विदूषकाः, कथकाः - प्रतीताः, प्लवका - ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका-ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा, भाण्डा इत्यर्थ, आख्यायका- ये शुभाशुभमाख्यान्ति, लङ्घा -महावंशाग्र खेलकाः, मङ्खाः - चित्रफलकहस्ता भिक्षुकाः, तूणइल्लातूणाभिधानवाद्विशेषवन्तः, तुम्बवीणिका - वीणावादकाः, अनेके च ये तालाचराः - तालादानेन प्रेक्षाकारिणस्तैरनुचरिता - आसेविता या सा तथा
'आरामुज्जाण अगडतलायदीहियवप्पिणिगुणोववेया' आरमन्तियेषु माधवीलदागृहादिषु दम्पत्यादीनि क्रीडन्ति,आरामाः, उद्यानानि - पुष्पादिमदवृक्षसङ्कुलान्युत्सवादी बहुजनभोग्यानि, ‘अगडत्ति' अवटाः-कूपाः, तडागानि - प्रतीतानि, दीर्घिका - सारणी, 'वप्पिणि' त्ति केदाराः, एतेषां ये गुणारम्यतादयस्तैरुपपेता - युक्ता या सा तथा उप अप इत इत्येतस्य शब्दत्रयस्प स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवति । क्वचित्पठ्यते 'नन्दणवणसन्निभप्पगासा' नन्दनवनं – मेरोर्द्वितीयवनं तत्प्रकाशसन्निभः प्रकाशो यस्यां सा तथा, इह चैकस्य प्रकाशशब्दस्य लोपः उष्ट्रमुख इत्यादाविवेति ।
मू. (१ - वर्तते) उव्विद्धविउलगंभीरखायफलिहा चक्कगयमुसुंढिओरोहसयग्घिजमलकवाडघणदुप्पवेसा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसयवट्टरइयसंठियविरायमाणा अट्टालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा छेयायरियरइयदढफलिहइंकीला ।
वृ. 'उव्विद्धविउलगम्भीरखायफलिहा' उद्विद्धं-ऊर्द्धं विपुलं विस्तीर्णं गम्भीरम्अलब्धमध्यं खातम्—उपरिविस्तीर्णम् अधः सङ्कटं परिखाच - अध उपरि च समखातरूपा यस्यां सातथा।‘चक्कगयमुसुंढिओरोहसयग्घिजमलकवाडधणदुप्पवेसा' चक्राणि - रथाङ्गानि अरघट्टाङ्गानि वा, गदाः - प्रहरणविशेषाः, मुसुण्ढयोऽप्येवम्, अवरोधः- प्रतोलिद्वारेष्ववान्तरप्राकारः सम्भाव्यते, शतघ्नयो- महायष्टयो महाशिला वा या उपरिष्टात्पातिताः सत्यः शतानि पुरुषाणां घ्नन्तीति, यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि घनानि च निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा । ‘धणुकुडिलवंकपागारपरिक्खित्ता' धनुःकुटिलं- कुटिलधनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org