________________
औपपातिकउपाङ्गसूत्रम्-१ अथवा-तृतीयैवेयं, ततश्च तेन कालेन अवसर्पिणाचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभूतेन हेतुना चम्पा नाम नगरी ‘होत्थत्ति' अभवद्, आसीदित्यर्थ । ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले ? तत्कथमुक्तमासीदिति?, उच्यते, अवसर्पिणीत्वाकालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता सा तदानीं नास्तीति । 'ऋद्धस्थिमियसमिद्धा' ऋद्धाभवनादिभिवृद्धिमुपगता, स्तिमिता-भयवर्जितत्वेन स्थिरा, समृद्धा-धनधान्यादियुक्ता, ततः पदत्रयस्य कर्मधारयः ।
___ 'पमुइयजणजाणवया' प्रमुदिताः-हृष्टाः प्रमोदकारणवस्तूनांसद्भावात्जना-नगरीवास्तव्यलोका जानपदाश्च-जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदितजनजानपदा, पाठान्तरे 'पमुइयजणुज्जाणजणवया' तत्र प्रमुदितजनान्युद्यानानि जनपदाश्च यस्यां सा तथा । 'आइण्ण जणमणुस्सा' मनुष्यजनेनाकीर्णा-सङ्कीर्णा, मनुष्यजनाकीर्णेतिवाच्ये राजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तम्, आकीर्णो वा-गुणव्याप्तो मनुष्यजनो यस्यां सा तथा ।
'हलसयसहस्ससङ्किट्ठविकिट्ठलठ्ठपन्नत्तसेउसीमा' हलानां-लाङ्गलानां शतैः सहनश्च शतसहसैर्वा-लक्षैः संकृष्टा-विलिखिता विकृष्टं-दूरंयावद्अविकृष्टावा-आसन्ना लष्टा-मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् ‘पन्नत्त'त्ति योग्यीकृता बीजवपनस्य सेतुसीमा मार्गसीमा यस्याः सा तथा, अथवा-संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेकक्षेत्राणि सीमासु यस्याः सा तथा, अथवा-हलशतसहस्राणां संकृष्टेन-संकर्षणेन विकृष्टा-दूरवर्त्तिन्यो लष्टाः प्रज्ञपिताःकथिताः सेतुसीमा यस्याः सा तथा, अनेन तज्जनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तम् । 'कुक्कडसंडेयगामपउरा' कुक्कटाः-ताम्रचूडाः षण्डेयाः-षण्डपुत्रकाः तेषां ग्रामाः-समूहास्ते प्रचुराः-प्रभुताः यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रडिार्थं कुक्कुटान् पोषयति षण्डांश्च करोतीति।
'उच्छुजवसालिकलिया' पाठान्तरेण 'उच्छुजवसालिमालिणीया एतदव्याप्तेत्यर्थ, अनेन चजनप्रमोदकारणमुक्तं, न ह्येवंकारवस्त्वभावेप्रमोदोजनस्यस्यादिति । गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यम्, गवेलगा-उरभ्राः।
'आयारवन्तचेइयजुवइविविहसंन्निविठ्ठबहुला' आकारवन्ति-सुन्दराकाराणि आकारचित्राणि वा यानि चैत्यानि-देवतायतनानि युवतीनांच-तरुणीनां पण्यतरुणीनामिति हृदयं, यानि विविधानि सन्निविष्टानि-सन्निवेशनानि पाटकास्तानि बहुलानि बहूनि यस्यां सा तथा, 'अरिहन्तचेईयजणवयसिन्निविट्ठबहुले'तिपाठान्तरं,तत्रार्हचैत्यानां जनानांवतिनांच विविधानि यानि सन्निविष्टानि-पाटकास्तैर्बहुलेति विग्रहः, सुयागचित्तचेईयजूयसण्णिविठ्बहुला' इति च पाठान्तरम्, तत्रचसुयागाः-शोभनयज्ञाःचित्रचैत्यानि-प्रतीतानियूपचितयो-यज्ञेषुयूपचयनानि द्यूतानि वा क्रीडाविशेषाश्चितयः तेषां सन्निविष्टानि-निवेशास्तैर्बहुला या सा तथा, 'उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया' उत्कोटा-उत्कोचा लञ्चेत्यर्थस्तया ये व्यवहरन्ति ते
औत्कोटिकाः गात्रात्-मनुष्यशरीरावयवविशेषात् कट्यादेः सकाशात् ग्रन्थि-कार्षापणादिपुट्टलिकां भिन्दन्ति-आच्छिन्दन्तीतिगात्रग्रन्थिभेदका, उक्कोडियगाहगंठिमेय' इतिच पाठान्तरं व्यक्तं, भटाः-चारभटाः बलात्कारप्रवृत्तयःतस्कराः-तदेव चौर्यं कुर्व्वन्तीत्येवंशीलाः खण्डरक्षा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org