SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ७० औपपातिकउपाङ्गसूत्रम्-१ 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितैः-वर्तुलकृतैः संस्थितैःविशिष्टसंस्थानवद्भिर्विराजमाना-शोभमाना या सा तथा । 'अट्टालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा' अट्टालकाः-प्राकारोपरिवत्यारियविशेषाः, चरिका- अष्टहस्तप्रमाणा नगरप्राकारान्तरालमार्गा, द्वाराणि-प्राकारद्वारिकाः, गोपुराणि-पुरद्वाराणि, तोरणानि-प्रतीतानि, उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ताः-विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः। ___'छेयायरियइयदढफलिहइंदकीला' छेकेन-निपुणेनाचार्येण-शिल्पिना रचितो ध्ढो-बलवान् परिघः-अर्गला इन्द्रकीलश्च-गोपुरावयवविशएषो यस्यां सा तथा। मू. (१-वर्तते) विवणिवणिच्छेत्तसिप्पियाइण्णणिब्बुसुहा सिंघाडगतिगचउक्कचच्चरपणियावणविवि-हवत्थुपरिमंडियासुरम्मा नरवइपविइण्णमहिवइपहा अनेगवतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजुग्गा विमउलणवणलिणिसोभियजला पंडुवरभवणसण्णिमहिया उत्ताणणयणपेच्छणिज्जा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा। वृ.'विवणिवणिच्छेत्तसिप्पियाइण्णणिव्वुयसुहा' विपणीनां-वणिक्पथानां हट्टमार्गाणां, वणिजांच-वाणिजकानांच, क्षेत्रस्थानं या सा तथा, शिल्पिभिः-कुम्भकारादिभिराकीर्णा अत एव जनप्रयोजनसिद्धर्जनानां निर्वृतत्वेन सुखितत्वेन च निवृतसुखाच या सा तथा, वाचनान्तरे छेत्तशब्दस्य स्थाने छेयशब्दोऽधीयते, तत्र च छेकशिल्पिकाकीर्णेति व्याख्येयम् । 'सिंघाडगतिगचउक्चच्चरपणियावणविविहवत्थुपरिमंडिया' श्रृङ्गाटकं-त्रिकोणंस्थानं, त्रिकं-यत्ररथ्यात्रयं मिलति, चतुष्कं-रथ्याचतष्कमेलकं,चत्वरं-बहरथ्यापातस्थानं,पणितानि-भाण्डानितप्रधाना आपणा-हट्टाः, विविधवस्तूनि-अनेकविधद्रव्याणि, एभि परिमण्डिता या सा तथा, पुस्तकान्तरेऽधीयते-'सिंघाडगतिगचउक्कचच्चचउम्मुहमहापहपहेसुपणियावणविविहवेसपरिमंडिया' तत्रचतुर्मुखं-चतुरिं देवकुलादि, महापथो-राजमार्ग, पन्थाः-तदितरः, ततश्च श्रृङ्गाटकादिषु पणितापणैः विविधवेषैश्च जनैर्वविधवेश्याभिर्वा परिमण्डिता या सा तथा। _ 'सुरम्मा' अतिरमणीया । नरवइपविइण्णमहिवइमहा नरपतिना-राज्ञा प्रविकीर्णोगमनागमनाभ्यां व्याप्तो महीपतिपथो राजमार्गोयस्यांसा तथा, अथवा-नरपतिना प्रविकीर्णाविक्षिप्ता निरस्ताऽन्येषां महीपतीनांप्रभा यस्यां सातथा, अथवा-नरपतिभिप्रविकीर्णा महीपतेः प्रभा यस्यांसा तथा। ‘अनेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाजुग्गा' अनेकैवरतुर- गैर्मत्तकुअरैः रहपहकरत्ति-रथनिकरैः शिबिकाभि स्यन्दमानीभिराकीर्णा-व्याप्ता यानैर्युग्यैश्चया सातथा, अथवा-अनेके वरतुरगादयो यस्यांआकीर्णानिच गुणवन्तियानादीनि यस्यांसा तथा, तत्रशिबिकाः-कूटाकारेणाच्छादिताजम्पानविशेषाः, स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, यानानि-शकटादीनि, युग्यानि-गोल्लविषयप्रसिद्धानिद्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति। 'विमउलणवणलिणिसोभियजला' विमुकुलाभि-विकसितकमलाभिर्नवाभिनलिनीभि-पद्मिनीभिः शोभितानिजलानि यस्यांसा तथा । 'पंडुरवरभवणसण्णिमहिया' पाण्डुरैःसुधाधवलैः वरभवनैः-प्रासादैः सम्यक् नितरांमहितेव महिता-पूजिता या सातथा। ‘उत्ताणन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy