________________
अध्ययनं - ९
श्रुतस्कन्धः - १,
५७
'पासाईयं दरिसणिज्जं अभिरूवं पडिरूव' मिति दृश्यम् ।
'जवि सा सयं रजसुक्क' त्ति यद्यपि सा स्वकीयराज्यशुल्का - स्वकीयराज्यलभ्येत्यर्थ । 'जुत्तं व' त्ति सङ्गतं 'पत्तं व' त्ति पात्रं वा 'सलाहणिज्जं व 'त्ति श्लाध्यमिदं 'सरिसोव' त्ति उचितसंयोगो वधूवरयोः । 'आयंते' त्ति आचान्तो जलग्रहणात् 'चोक्खे' त्ति चोक्षः सिक्थलेपाद्यपनयनात्, किमुक्तं भवति ? -- 'परमसुईभूए' त्ति अत्यन्तं शुचीभूत इति । 'हायं' यावत्करणादिदं दृश्यं -'कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारे 'त्ति । सुबुहुमित्त' इत्यत्र यावत्करणात् 'नियगसयणसंबंधिपरिजणेण’त्ति दृश्यम् ।
'सव्विड्डिए' इत्यत्र यावत्करणादिदं श्यं - 'सव्वजुईए' सर्वद्युत्या - आभरणादिसम्बन्धिन्या सर्वयुक्तया वा उचितेषु वस्तुघटनालक्षणया सर्वबलेन - सर्वसैन्येन सर्वसमुदायेन - पौरादिमीलनेन सर्वादरेण-सर्वोचितकृत्यकरणरूपेण 'सव्वविभूईए' सर्वसम्पदा 'सव्वविभूसाए' समस्त शोभया 'सव्वसंभमेणं' प्रमोदकृतौत्सुक्येन 'सव्वपुप्फगंधमल्लालंकारेण सव्वतूरसद्दसंनिनाएणं' सर्वतूर्यशब्दानां मीलने यः संगतो नितरां नादो - महान् घोषस्तेनेत्यर्थ, अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिर्धा अत आह- 'महता इड्डीए' महता जुईए महता वलेणं महता समुदएणं महता वरतुरियजमगसमगपवाइएणं' तत्र सङ्घादीनां नितरां घोषोनिर्घोषो - महाप्रयत्नोत्पादितः शब्दः नादितं - ध्वनिमात्रं एतदद्वयलक्षणो यो रवः स तथा तेनेति । 'सेयापीएहिं' ति रजतसुवर्णम- यैरित्यर्थ । 'सिरीए देवीए मायाभत्ते यावि हुत्य'त्ति श्रिया देव्या मातेतिबहुमानबुद्धया भक्तो मातृभक्तश्चाप्यभूत् ।
‘कल्लाकल्लिं’ति प्रातः प्रातः । 'गंधवट्टएणं' ति गन्धचूर्णेन । 'जिमियभुत्तुत्तरागयाए 'त्ति जेमितायां - कृतभोजनायां तथा भुक्त्वोत्तरमागतायां स्वस्थानमिति भावार्थ, उदारान्-मनोज्ञान् भोगान् भुञ्जानो विहरति । 'पुव्वरत्तावरते' ति पूर्वरात्रापर रात्रकालसमये, रात्रेः पूर्वभागे पश्चाद्भागे वेत्यर्थः ।
'मज्जाइय'त्ति पीतमद्या, 'विरहियसयणिज्जंसि' त्ति विरहिते विजनस्थाने शयनीयं तत्र । 'परामुसइ' त्ति गृह्णाति । 'समजोइभूयं' ति समः - तुल्यो ज्योतिषा - अग्निना भूतो- जातो यः स तथा तम् । 'रोयमाणीओ 'त्ति अश्रुविमोचनात्, इहान्यदपि पदद्वयमध्येयं, तद्यथा-'कंदमाणीओ' आक्रन्दशब्दं कुर्वत्यः 'विलवमाणीओ' त्ति विलापान् कुर्वत्यः । 'आसुरुत्ते' त्ति आशु - शीघ्र रुप्तःकोपेन विमोहितः, इहान्यदपि पदचतुष्कं दृश्यं, – 'रुट्टे' त्ति उदितरोषः 'कुविए' त्ति प्रवृद्धकोपोदयः 'चंडक्किए 'त्ति प्रकटितरौद्ररूपः, 'मिसिमिसिमामे' त्त कोपाग्निना दीप्यमान इव
श्रुत स्कन्धः - १, अध्ययनं - ९ समाप्तम्
अध्ययनं -१० अंजू
मू. (३४) जति णं भंते! समणेणं भगवया महावीरेणं दसमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वद्धमाणपुरे नामं नगरे होत्था, विजयवद्धमाणे उज्जाणे माणिभद्दे जक्खे विजयमित्ते राया, तत्थ णं धनदेवे नामं सत्थवाहे होत्था अड्डे०, पियंगुनामभारिया अंजू दारिया जाव सरीरा, समोसरणं परिसा जाव पडिगया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org