SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुताङ्गसूत्रम् १/७/२९ तम्, 'अभिक्खणंतिपुनःपुनः 'कट्ठाइंति क्लेशहेतुकानि 'कलुणाइंतिकरुणोत्पादकानि वीसराइंतिविरूपध्वनीनीतिगम्यते, 'कूयमाणं तिकूजन्तम्-अव्यक्तं भणन्तं, शेषं सर्वप्रथमाध्ययनवत् नवरं देहंबलियाए देहबलिमित्यस्याभिधानंप्राकृतशैल्या देहबलियातीए देहंबलियाए ‘पाड'त्ति पाडलिसंडाओ नगराओ 'पडिणि'त्ति पडिनिक्खमइत्ति दृश्य, 'जेणेव समणे भगवं महावीरे तेणामेव उवागच्छतिर गमणागमणाएपडिक्कमई ईर्यापथिकी प्रतिक्रमतीत्यर्थ 'भत्तपाणंआलोएइ २ भत्तपाणं पडिंसेइ २ समणेणं भगवा अब्भणुन्नाए' यावत्करणात् 'समाणे' इत्यादिश्यं । 'बिलमिवपन्नगभूए अप्पाणेणं आहारमाहारेइ'त्तिआत्मना आहारयति, किंभूतः सन्? इत्याह-‘पन्नगभूतः' नागकल्पो भगवान् आहारस्य रसोपलम्मार्थमचर्वणात्, कथम्भूतमाहारम् -बिलमिव असंस्पर्शनात्, नागो हि बिलमसंस्पृशन् आत्मानं तत्र प्रवेशयति, एवं भगवानप्याहारमसंस्पृशन् सोपलम्मानपेक्षः सन्नाहरयतीति । 'दोच्चंपि'त्ति द्विरपि द्वितीयां वाराम् _ 'अटुंगाउव्वेयपाढए'त्तिआयुर्वेदो-वैद्यकशास्त्रं कुमारभिच्चंति कुमाराणां-बालकानां भृतौ-पोषणेसाधुकुमारभृत्यं, तद्धिशास्त्रंकुमारभरणस्य-क्षीरस्यदोषाणांसंशोधनार्थं दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं चेति १ 'सलाग'त्ति शलाकायाः कर्म शालाक्यं तत्प्रतिपादकं तन्त्रमपिशालाक्यं, तद्धिऊर्ध्वजन्तुगतानां रोगाणां श्रवणवदनादिसंश्रितानामुपशमनार्थमिति 'सल्लहत्ते'ति शल्यस्य हत्या हननमुद्धार इत्यर्थ शल्यह्या तप्रतिपादकं शास्त्रं शल्यहत्यमिति 'कायतिगिच्छिति कायस्य-ज्वरादिरोगग्रस्तशरीरस्य विकित्सा-रोगप्रतिक्रिया यत्राभिधीयते तत्कायचिकित्सैव, तत्तन्त्रं हि मध्याह्नसमाश्रितानांज्वरातीसारादीनां शमनार्थमिति। 'जंगोले'त्ति विषघातक्रियाऽभिधायकं जङ्गोलं-अगदं तत्तन्त्रं तद्धि सर्पकीटलूतादष्टविनाशार्थं विविधविषसंयोगोपशमनार्थं चेति भूयवेज'त्ति भूतानां निग्रहार्था विद्या-शास्त्रं भूतविद्, साहि देवासुरगन्धर्बयक्षराक्षसाधुपसृष्टचेतसांशान्तिकर्मबलिकरणादिभिर्ग्रहोपशमनार्था रसायणे'त्ति रसः-अमृतरसस्तस्यायनं-प्राप्ति रसायनंतद्विधयःस्थापनमायुर्मेघाकरं रोगोपहरणसमर्थचतदभिधायकंतन्त्रमपि रसायनम् वाईकरणे'त्तिअवाजिनोवाजिनःकरणंवाजीकरणंशुक्रवर्द्धनेनाश्वस्येवकरणमित्यर्थतदभिधायक शास्त्रम्, अल्पक्षीणवि-शुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थं चेति । 'सिवहत्थे त्ति आरोग्यकरहस्तः 'सुहहत्थे'त्ति शुभहस्तः-प्रशस्तकरः सुखहेतुहस्तो वा 'लहुहत्थे'त्ति दक्षहस्तः। _ 'राईसर' इत्यत्र यावत्करणात् 'तलवरमाडंबियकोडुंबियसेट्ठी'तिदृश्यं, 'दुब्बलाणय'त्ति कृशानां हीनबलानां वा 'गिलाणाण यत्ति क्षीणहर्षाणां शोकजनितपीडानामित्यर्थ 'वाहियाण यत्तिव्याधि-चिरस्थायीकुष्ठादिरूपःससंजातो येषांतेव्याथिताव्यथितावा-उष्णादिभिरभिभूता अतस्तेषां 'रोगियाणं ति संजाताचिरस्थायिज्वरादिदोषाणां, केषामेवंविधानाम् ? इत्याह'सणाहाणय'त्ति सस्वामिनाम् 'अणाहाण यत्ति निस्वामिनां ‘समणाण यत्ति गैरिकादीनां 'भिक्खगाण यत्ति तदन्येषां 'करोडियाण यत्ति कापालिकानाम् ‘आउराणं'ति चिकित्साया अविषयभूतानाम् 'अप्पेगइयाणं मच्छमसाइं उवइसति' इत्येतस्य वाक्यस्यानुसारेणागेतनानि वाक्यानि ऊह्यानि, मत्स्याः कच्छपा ग्राहाः मकराः सुसुमाराः अजाः एलकाः रोज्झाः शूकराः मृगाः शशकाः गावः महिषाः तित्तिराः वर्तकाः लावकाः कपोताः कुर्कटाः मयूराश्च प्रतीताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy