SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययन-६ यावत्करणात् 'तिसरियं पिणद्धति पालंबं पिणद्धति कडिसुत्तयं पिणद्धति' इत्यादि, त्रिसरिकं प्रतीतंप्रालम्बो-झुम्बनकं कटीसूत्रं व्यक्तं ‘पटुं'तिललाटाभरणंमुकुटं-शेखरकः 'चिंतातहेव'त्ति तंपुरुषं दृष्ट्वा गौतमस्य विकल्पस्तथैवाभूत् यथा हि प्रथमेऽध्ययने, तताहि-'न मे दिट्ठा नरया वानेरइयावा, अयंपुण पुरिसेनिरयपडिरूवियंवेयणंवेएइत्ति, यावत्करणादेवंश्यम्-'अहापजत्तं भत्तपाणं पडिगाहेति जेणेव समणंभगवं तेणेव उवागच्छइ' इत्यादि वाच्यं वागरेति'त्ति कोडसौ जन्मान्तरे आसीदित्येवं गौतमः पृच्छति भगवांस्तु व्याकरोति-कथयति । ___ 'चारगपाले त्तिगुप्तिपालकः । 'चारगभंडे'त्तिगुप्तयुपकरणम्। 'हत्थुडुयाण'त्तिअण्डूनिकाष्ठादिमयबन्धनविशेषाः, एवंपादान्दुकान्यपि, 'हडीणय'त्तिहडयः-खोटकाः पुंज'त्तिसशिखरो राशि निगर'त्तिराशिमात्रम्। ४ वेणुलयाण यत्तिस्थूलवंशलतानां वेत्तलयाणय'त्तिजलजवंशलतानां 'चिंच'ति चिञ्चालतानाम् अम्बिलिकाकम्बानां 'छियाण'त्ति श्लक्ष्णचर्मकशानां 'कसाण य'त्तिचर्मयष्टिकानां वायरासीणं ति वल्करश्मयो वटादित्वगमयसिंदुराणि ताडनप्रयोजनानि तेषां पुजास्तिष्ठन्तीति योगः । सिलाण यत्ति षदां 'लउलाण यत्ति लगुडानां 'मुग्गराण यत्ति व्यक्तं 'कनंगराण य'त्ति काय-पानीयाय नङ्गराः-बोधिस्थनिश्चलीकरणपाषाणास्ते कनङ्गराः कानंगरा वा-ईषन्नंगरा इत्यर्थः । 'तए णं से'त्ति एतस्य स्थाने 'तस्स णं'ति मन्यामहे एतस्यैव सङ्गतत्वात् पुस्तकान्तरे दर्शनाच्चेति । 'असिपत्ताण य'त्ति असीनां 'करपत्ताण य'त्ति क्रकचानां 'खुरपत्ताणय'त्तिक्षुराणां कलंबचीरपत्ताणय'त्तिअलीनां-वृश्चिकपुच्छाकृतीनां डंभणाणय'त्ति यैरग्निप्रता- पितैर्लोहशलाकादिभि परशरीरेऽङ्क उत्पाद्यते तानि दम्भकानि 'कोट्टिल्लाणं'ति ह्रस्वमुद्गरविशेषाणां ‘पच्छाण यत्ति प्रच्छनकानां 'पिप्पलाण यत्ति ह्रस्वक्षुराणां कुठारा नखछेदनकानिदर्भाश्च प्रतीताः। 'अणहारए यत्ति ऋणधारकान् 'संडपट्टे यत्ति घूर्त्तान् । 'अप्पेगइय'त्ति अप्येककान् कांश्चिदपीत्यर्थः ‘पजेति'त्ति पाययति 'अप्पेगइयाणं तेणंचेवओवीलंदलयति' तेनैवअवपीडंशेखरं मस्तके तस्यारोपणात् उपपीडां वा-वेदनां दलयति-केरोति 'संकोडियमोडिए'त्ति सङ्कोटिताश्च-सङ्कोचिताङ्गा मोटिताश्च-चलिताङ्गाः इति द्वन्द्वोऽतस्तान् ‘अप्पेगइए हत्थच्छिन्नए करेति' इत्यत्र यावत्करणादिदं दृश्यं-'पायच्छिन्नए एवं नक्कउट्ठजिब्भसीसछिन्नए' इत्यादि, 'सत्थोवाडियए'त्ति शस्त्रावपाटितान्-खगादिना विदारितान् ‘अप्पेगइया वेणुलयाहिं' इत्यत्र यावत्करणात् ‘वेत्तलयाहि य चिंचलयाहिं' इत्यादि दृश्यम् । 'उरेसिलं दलावे' इत्यादि, उरसिपाषाणंदापयति तदुपरिलगुडं दापयतिततस्तंपुरुषाभ्यां लगुडोभयप्रान्तनिविष्टाभ्यां लगुडमुत्कम्पयति-अतीवचलयति यथाऽपराधिनोऽस्थीनिदल्यन्त इतिभावः । 'तंतीहिय' इत्यत्र यावत्करणादिदंश्यं–'वरत्ताहि' वागरज्जूहि' इत्यादि, 'अगडंसित्ति कूपे 'उचूलयालगं'ति अधःशिरस उपरि पादस्य कूपजले बोलणाकर्षणं ‘पज्जेइ'त्ति पाययति खादयतीत्यादिलौकिकीभाषा कारयतीतितुभावार्थः, 'अवदूसुय'त्ति कृकाटिकासु खलुएसुत्ति पादमणिबन्धेषु 'अलिए भंजावेइत्ति वृश्चिककण्टकान् शरीरे प्रवेशयतीत्यर्थ 'सूईओ'त्तिसूचीः 'डंभणाणि यत्ति सूचीप्रायाणि डम्भकानि हस्ताङ्गुल्यादिषु 'कोट्टिल्लएहिंति मुद्गरकैः 'आओडावेइ'त्तिआखोटयति प्रवेशयतीत्यर्थ भूमिं कंडुयावेइ'त्तिअङ्गुलीप्रवेशितसूचीकैः हस्तैः भूमिं कण्डूयते, महादुःखमुत्पद्यते भूमिकण्डूयनं कारयतीति । 'दब्भेहि यत्ति दर्भा-समूलाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy