SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २९० राजप्रश्नीयउपाङ्गसूत्रम्-३६ अच्चीसहस्समालिणीया वगसहस्सकलिया भिसिमीणा भिब्भिसमीणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयस्वाकंचणमणिरयणथूभियागा नानाविहपंचवण्णघंटापडागपरिमंडियग्गसिहराधवला मरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरससुरभिरत्तचंदणदद्दरदिन्नपंचंगुलितला उपचितयचंदणकलसवंदणघडसुकयतोरणपडिदुवारदेसभागाआसोत्तोसत्तविउलवद्दवग्धारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कघूवडज्झंतमघमघंतगंधुद्धयाभिरामा सुगंधवरगंधियागंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणादिया सव्वरयणामया अच्चा जावपडिरूवा' इति प्राग्वत् । ___“सभाए ण'मित्यादि,सभायाश्च सुधर्मायास्त्रिदिशितिसृषुदिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-एकंपूर्वस्यामेकं दक्षिणस्यामेकमुत्तरस्यां, तानि च द्वाराणि प्रत्येकं षोडश २ योजनान्युर्ध्वमुच्चैस्त्वेन अष्टौ योजनानि विष्कम्भतः ‘तावइयं चेवे'ति तावन्त्येवाष्टौ योजनानीतिभावः प्रवेशेन, सेया वरकणगथूभिया' इत्यादि प्रागुक्तद्वारवर्णनं तदेव तावद्वक्तव्यं यावद्वनमाला इति, तेषांच द्वाराणांपुरतः प्रत्येकं २ मुखमण्डपः प्रज्ञप्तः, तेच मुखमण्डपा एकंयोजनशतमायामतः पञ्चाशत योजनानि विष्कम्भतः सातिरेकामिषोडशयोजनानि ऊर्ध्वमुच्चैस्त्वेन, एतेषामपि अनेगखंभसयसंनिविट्ठा' इत्यादि वर्णनंसुधर्मसभाया इवनिरवशेष द्रष्टव्यं । तेषां च मुखमण्डपानां पुरतः प्रत्येकं २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, ते च प्रेक्षागृहमण्डपा आयामविष्कम्भोच्चैस्त्वैः प्राग्वत् तावद्वायं यावन्मणीनां स्पर्श, ते, च बहुरमणीयानं भूमिभागानां बहुमध्यदेशभागेप्रत्येकं २ वज्रमयोऽक्षपाटकः प्रज्ञप्तः, तेषांच वज्रमयानामक्षपाटकानांबहुमध्यदेशभागे प्रत्येकं २ वज्रमयोऽत्रपाटकः प्रज्ञप्तः, तेषांच वज्रमयानामक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं २ मणिपीठिकाअष्ट योजनान्यामविष्कम्भाभ्यांचत्वारियोजनानिबाहल्येन-पिण्डभावेन सर्वात्मना मणिमयाः ‘अच्छाओ' इत्यादि विशेषणजातं प्रागिव । तासां च मणिपीठिकानामुपरि प्रत्येकं २ सिंहासनं प्रज्ञप्तं, तेषांच सिंहासनानांवर्णनं परिवारश्चप्राग्वद्वक्तव्यः, तेषांचप्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत्, तेषां प्रेक्षागृहमण्डपानांपुरतःप्रत्येकं २ मणिपीठिकाप्रज्ञप्ता, ताश्च मणिपीठिकाः प्रत्येकंषोडशयोजनान्यायामविष्कम्भाभ्यामष्टौ योजनानिबाहल्येन सर्वात्मनामणिमयाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत्, तासां च मणिपीठिकानामुपरि प्रत्येकं २ चैत्यस्तूपः प्रज्ञप्तः, ते च चैत्यस्तूपाः षोडश योजनन्यायामविष्कम्भा- भ्यांसातिरेकाणि षोडश योजनान्यूर्ध्वमुच्चैत्वेन संखंके त्यादितवर्णनंसुगमं। तेषां च चैत्यस्तूपानामुपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि 'जाव सहस्सपत्तहत्थया' इति यावत्करणात् 'तेसिं चेइयथूभाणं उप्पिं बहवे किण्हचामरज्झया जाव सुक्कल्लचामरज्झया अच्छासण्हारुप्पपट्टवइरदंडा जमलजामलगंधी सुरुवापासाइयाजाव पडिरूवा, तेसिंचेइयथूभाणं उम्बिहवेछत्ताइच्छत्तापडागाघंटाजुगलाउप्पलहत्थगाजाव सयसहस्सपत्तहत्थगासव्वरयणामया जाव पडिरूवा' इति, एतच्च समस्तं प्राग्वत्। "तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं २ 'चउदिसति चतुर्दिशि-चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतन मणिपीठिकाः प्रज्ञप्ताः अष्टौ योजनान्यायाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy