________________
मूलं-३६
२९१ विष्कम्भ्याभ्यांचत्वारियोजनानिबाहल्येन सर्वात्मनामणिमया अच्छा इत्यादि प्राग्वत्, तासांच मणिपीठिकानामुपरि एकैकप्रतिमाभावेन चतम्रजिनप्रतिमा जिनोत्सेघप्रमाणमात्राः, जिनोत्सेध उत्कर्षतः पञ्च धनुःशतानिजघन्यतः सप्तहस्ताः, इहतुपञ्चधनुःशतानि संभाव्यन्ते, पलियंकसंनिसन्नाउ'इतिपर्यङकासनसन्निषण्णाः, स्तूपाभिमुख्यः संनिक्षिप्ताः, तता जगस्थितिस्वाभाव्येन सम्यग्निवेशितास्तिष्ठन्ति, तद्यथा-ऋषभा वर्द्धमाना चन्द्रानना वारिषेणा इति । _ 'तेसिण'मित्यादि, तेषां चैत्यस्तूपानांपुरतःप्रत्येकं २ मणिपीठिकाः प्रज्ञप्ताः, ताश्चमणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौयोजनानिबाहल्यतः 'सव्वमणिमइओ' इत्यादि प्राग्वत्, तासां च मणिपीठाकानामुपरि प्रत्येकं २ चैत्यवृक्षा अष्टौ योजनान्यूर्ध्वमुच्चैस्त्वेनार्द्धयोजनमुद्वेधेन-उण्डत्वेन द्वेयोजने उच्चैस्त्वेन स्कन्धः स एवार्ध योजनं विष्कम्भतया बहुमध्यदेशभागे विडिमा-ऊर्ध्व विनिर्गता शाखा सा ऊर्ध्वमुच्चैस्त्वेन षड् योजनानि अष्टौ योजनानि विष्कम्भेन सर्वाग्रेण सातिरेकेणाष्टौ योजनानि प्रज्ञप्तास्तेषांचचैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यथा-'वइरामयमूला रययसुपइट्ठियविडिमा' वज्राणि-वज्रमयानि मूलानि येषां ते वज्रमयमूला रजतेसुप्रतिष्ठिता विडिमा बहुमध्यदेशभागेऊर्ध्वविनिर्गताशाखायेषांतेरजतसुप्रतिष्ठितविडिमास्ततः पूर्वपदेन कर्मधारयः समासः, 'रिट्ठामयकंदे वेरुलियरुइलखंधे' रिष्ठमयोरिष्ठरत्नमयः कन्दो येषां ते रिष्ठमयकन्दाः।
__ तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयः, 'सुजायवरजायरूवपढमगविसालसाला' सुजातं-मूलाद्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदात्मकाः प्रथमका-मूलभूता विशालाः शाखायेषांते सुजातवरजातरूपप्रथमकविशालशालाः 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्तवणिज्जपत्तबिंटा' इति नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखा येषां ते तथा वैडूर्याणि-वैडूर्यमयानि पत्राणि येषां ते तथा तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयरमीलनेन कर्मधारयः ।
जंबूणयरत्तमउयसुकुमालपवालपल्लववरंकुरधराजाम्बूनदा-जाम्बूनदसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदवः-मनोज्ञाः सुकुमाराः-सुकुमारस्पर्शा प्रवाला-ईषदुन्मीलितपत्रभावाः पल्लवाः-संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुराः-प्रथम-मुद्भिद्यमाना अङ्कुरास्तान् धरन्तीति जाम्बूनदरक्त-मृदुसुकुमारप्रवालपल्लवाङ्घरधराः 'विचित्तमणिरयणसुरभिकुसुमफलभरेणनमियसाला' इति विचित्रमणिरत्नमयानि यानि सुरभीनि कुसुमानि फलानि च तेषां भरेण नमिताःशालाः-शाखा येषांतेतथा, तथा सती-शोभनाछाया येषां ते सच्छायाः, सती-शोभन प्रभा-कान्तिर्येषांतसत्प्रभाः,अत एव सश्रीकाः, तथा सह उद्योतेनवर्तन्तेमणिरत्नानामुद्योतभावात् सोद्योताः, अधिकं नयनमनोनिवृतिकरा अमृतरसमरसानि फलानि येषां ते तथा, 'पासाईया' इत्यादि-विशेषणचतुष्टयं प्राग्वत्।
एते च चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवकच्छत्रौपगशिरीषसप्तपर्णदधिपर्णलुब्धकधवलचन्दननीपकुटजनसतालतमालप्रियालप्रियङ्गुपारापतराजवृक्ष न्दिवृक्षैः सर्वतः समन्तात् संपरिक्षिप्ताः, तेचतिलकायावन्नन्दिवृक्षा मूलमन्तः कन्दमन्तइत्यादि सर्वमशोकपादवर्णनायामिव तावद्वक्तव्यं यावत् परिपूर्ण लतावर्णनं, 'तेसि णमित्यादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org