SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६९ मूलं-२९ द्वौ द्वौचन्दनकलशौ प्रज्ञप्ती, वर्णकः चन्दनकलशानां वरकमलपइट्ठाणा' इत्यादिरूपःसर्वप्राक्तनो वक्तव्यः, 'तेसि णमित्यादि द्वौ द्वौ भृङ्गारौ, तेषामपि कलशानामिव वर्णको वक्तव्यो, नवरं पर्यन्ते ‘महयामत्तगयमहामुहागिइसमाणा पन्नत्ता समणाउसो !' इति वक्तयं 'मत्तगयमहामुहागिइसमाणा' इति मत्तो य गजस्तस्य महत्-अतिविशालं यत् मुखं तायाकृतिआकारस्तत्समानाः-तत्सदृशाः प्रज्ञप्ताः, 'तेसिण'मित्यादि तेषांतोरणानांपुरतो द्वौ द्वावादर्शको प्रस्तौ, तेषां चादर्शकानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तपनीयमयाः प्रकण्ठकाः-पीठविशेषाः, अङ्कमयानि-अङ्करत्मयानि मंडलानि यत्र प्रतिबिंबसम्भूति 'अनोग्घसियनिम्मलाए' इति अवघर्षणमवघर्षितं भावे क्तप्रत्ययः तस्य निर्मलताअवघर्षितनिर्मलता भूत्यादिना निर्मार्जनमित्यर्थः अवघर्षितस्याभावोऽनवघर्षिता तेन निर्मला अनवघर्षितनिर्मलाअनवघर्षितनिर्मलयाछायया समनुबद्धा-युक्ताः 'चन्दमण्डलपडिनिकासा' इति चन्द्रमण्डलसदृशाः 'महया महया' अतिशयेन महान्तोऽर्द्धकायसमानाः-कायार्द्धरमाणाः प्रज्ञप्ता हे श्रमण हे आयुष्मन् ! - ___ 'तेसिण'मित्यादि तेषां तोरणानां पुरतो द्वे द्वे वज्रनाभे-वज्रमयो नाभिर्ययोस्ते वज्रनाभे स्थाले प्रज्ञप्ते तानि च स्थालानि तिष्ठन्ति, 'अच्छत्तिच्छडियतंदुलनहसंदट्टडिपुन्ना इव चिट्ठति' 'अच्छा' निर्मलाः शुद्धाः स्फटिकवत् त्रिच्छटिताः-त्रीन वारान्छटिताः अत एव 'नखसन्दष्टाः' नखाः-नखिकाः सन्दष्टा मुशलादिभिछटिता येषांते तथा सुखादिदर्शनात् क्तान्तस्य परनिपातः अच्छैस्त्रिच्छटितैः शालितण्डुलै खसन्दष्टैः परिपूर्णाः, पृथ्वीपरिणामरूपाणि तानि तथा केवलमेवसाकाराणीत्युपमा, तथा चाह-'सव्वजम्बूणयमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् 'महया महया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि हे श्रमणः हे आयुष्मन!। 'तेसि ण'मित्यादि तेषां तोरणानां पुरतो द्वे द्वे 'पाईओ' इति पात्र्यौ प्रज्ञप्ते, ताश्च पात्र्यः 'सच्छोदगपडिहत्थाओ' इति स्वच्छपानीयपरिपूर्णा 'नानाविहस्स फलहरियस्स बहुपडिपुन्नाविवे'ति अत्र षष्ठी तृतीयार्थे 'बहु पडिपुग्ने ति चैकवचनं प्राकृततत्वात्, नानाविधैः फलहरितैर्हरितफलैर्बहु-प्रभूतंप्रतिपूर्णाइव तिष्ठन्तिनखलु तानिफलानि किंतुतथारूपाः शाश्वतभावमुपागताः पृथ्वीपरिणाममास्ततः उपमानमिति, सव्वरयणामईओ' इत्यादि प्राग्वत्, ‘महये'ति अतिशयेन महत्यो गोकलिञ्जगचक्रसमानाः प्रज्ञप्ताः हे श्रमण हे आयुष्मन् ! - _ 'तेसि ण'मित्यादि तेषां तोरणाना पुरतो द्वौ सुप्रतिष्ठको-आधारविशेषौ प्रज्ञप्तौ, ते च सुप्रतिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैप्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, उपमाभावना प्राग्वत्, 'सव्वरयणामइओ' इत्यादि तथैव, 'तेसि ण'मित्यादि तेषां तोरणानां पुरतो द्वे द्वे मनोगुलिका नाम पीठिका, उक्तं ख जीवाभिगममूलटीकायां-“मनोगुलाकि नाम पीठिके"ति, ताश्च मनोगुलिकाः सर्वात्मना वैडूर्यमय्यो 'अच्छा' इत्यादि प्राग्वत् । तासु णं मनोगुलियासुबहवे' इत्यादि तासुमनोगुलिकासुसुवर्णमयानि रूप्यमयानिच फलकानिप्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमया नागदन्तकाः-अङ्कुटकाः (सिवकेषु) तेषु च नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु च रजतमयेषु बहवो वातकरका For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy