SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६८ राजप्रश्नीयउपाङ्गसूत्रम्-२९ तथा पञ्जरात उन्मीलिता इव-बहिष्कृइव पञ्जरोन्मीलिता इव, यथा किल किमपि वस्तु पारात्-वंशादिमयाच्छादनविशेषात् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते एवं तेऽपि प्रासादावतंसका इतिभावः, तथा मणिकनकानि-मणिकनकमय्यः स्तूपिकाः-शिखराणियेषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादीप्रतिकृतित्वेन स्थितानि तिलकरत्नानि भित्यादिषुपुण्डविशेषाअर्द्धचन्द्राश्च द्वारादिषुतैश्चित्राः-तथा नानारूपा आश्चर्यभूता वा विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राः, तथा नाना-अनेकरूपाणि यानि मणिदामानि-मणिमयपुष्पमालास्तैरलङकृतानि-शोभितानि नानामणिदामालङकृतानि तथा अन्तर्बहिश्च श्लक्षणा-मसृणाः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तट:-प्रस्तारो येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत्तेषां च प्रासादावतंसकान्तमन्तमिवर्णनमुपर्यल्लोकवर्णनं सिंहासनवर्णनमुपरिविजयदूप्यवर्णनं वज्राङ्कुशवर्णनं मुक्तादामवर्णनं च यथा प्राक् यानविमाने भावितं तथा भावनीयं । 'तेसिण'मित्यादि, षां द्वाराणांप्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्या षोडश षोडश तोरणानि प्रज्ञप्तानि, तानि च तोरमानि नानामणिमयानीत्यादि तोरणवर्णनं यानविमानमिव निरवशेषं भावनीयं, 'तेसिणं तोरणाण पुरओ' इत्यादि, तेषां तोरणानां पुरतः प्रत्येकं द्वे द्वे शालभञ्जिके, शालभलिकावर्णनं प्राग्वत्। 'तेसिण'मित्यादि, तेषांतोरणानांपुरतो द्वौ द्वौ नागदन्तकौ प्रज्ञप्तौ, तेषांच नागदन्तकानां वर्णनं यथाऽघस्तादनन्तरमुक्तंतथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात्, 'तेसिण'मित्यादि तेषांतोरणानां पुरतो द्वौ द्वौ हयसङ्घाटी, सङ्घाटशब्दोयुग्मवाचीयथा साधुसङ्घाट इत्यत्र, ततो द्वे द्वे हययुग्मे इत्यर्थः, एवं गजनरकिनकिंपुरुपमहोरगगन्धर्ववृषभसङ्घाटा अपि वाच्याः, एते च कथम्भूता! ? इत्याह-सव्वरयणामया अच्छा सण्हा' इत्यादि प्राग्वत्, यथा चामीषां हयादीनामष्टानां सङ्घाटा उक्तास्तथा पङ्कतयोऽपिवीथयोऽपिमिथुनकानिचवाच्यानि, तत्र सङ्घाटाः समानलिङ्गयुमरूपा पुष्पावकीर्णकाश्च एकदिगव्यवस्थिताः श्रेणिपङ्कितरुभयोः पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिद्वयं सा वीथि स्त्रीपुरुषयुग्मं मिथुनकं 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वेद्वेचूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वेद्वेअतिमुक्तलते इति परिगृह्ययते, द्वेद्वेश्यामलते, ताश्च कथम्भूता इत्याह 'निच्चं कुसुमियाओ' इत्यादि यावत्करणात् 'निच्चं मउलियाओ निचं लवइयाओ निच्चं थवइयाओ निच्चं गुच्छियाओ निचं जमलियाओ निचं विनमियाओ निच्चं पणमियाओ निच्चं सुविभत्तपिण्डमञ्जरिवडेिंसगधराओ निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपणमयसुविभत्तपडिमअरिवडिंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत्, पुनः कथम्भूता इत्याह-'सव्वरणामया जाव पडिरूवा' इति, अत्रापि यावत्करणात् ‘अच्छा सण्हा' इत्यादिविशेषणसमूहपरिग्रहः, स च प्राग्वद्भावनीयः । 'तेसिण'मित्यादि, तेषां तोरणानां पुरतः प्रत्येक द्वौ द्वौ दिक्सौवस्तिकौ–दिक्प्रोक्षकौ ते च सर्वेजाम्बूनदमयाः, क्वचित्पाठः सव्वरयणामयाअच्छा' इत्यादि, प्राग्वत् 'तेसिण'मित्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy