________________
मूलं-२९
२६७
यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः 'ताओ णं घंटाओ' इत्यादि, ताश्च घण्टा ओघेन-प्रवाहेण स्वरो यासांता ओघस्वरा मेघस्येवातिदीर्घ स्वरो यासांता मेघस्वराः हंसस्येव मधुरः स्वरो यासांता हंसस्वराः, एवं क्रौञ्चास्वराः सिंहस्येव च प्रभूतेशव्यापी स्वरो यासां ताः सिंहस्वराः एवंदुन्दुभिस्वरा द्वादशविधतूर्यसङ्घातो नन्दिनन्दिस्वराः नन्दिवत् घोषो-झादो यासां ता नन्दिघोषाः मञ्जू-प्रियः स्वरो यासांता मभूस्वरा, एवं मघोषाः, किंबहुना ?, सुस्वराः सुस्वरघोषाः, ‘उरालेण मित्यादि प्राग्वत् ।
'तेसिण'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः द्विघातो नैषेधिक्यां षोडश २ वनमालापरिपाटयः प्रज्ञप्ताः, ताश्च वनमाला नानाद्रुमाणां नानालतानांच यानि किशलयानि ये चपल्लवास्तैःसमाकुलाः-सम्मिश्राः 'छप्पयपरिभुजमाणा सोभन्तसस्सिरीया' इतिषट्पदैः परिभुज्यमानाः सत्यः शोभमानाः षटषदपरिभुज्यमानशोभमानाः अत एव सश्रीकाः 'पासाईया' इत्यादि पदचतुष्टं प्राग्वत्। _ 'तेसि णं दाराण'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षोडस २ प्रकण्ठकाः प्रज्ञप्ताः, प्रकण्ठको नाम पीठविशेषः, आह च जीवाभिगममूलटीकाकारः-'प्रकण्ठौ पीठविशेषा'विति, तेच प्रकण्ठकाः प्रत्येकमर्द्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्यांपञ्चविंशि-पञ्चविंशत्यधिकंयोजनशतं 'बाहल्येन' पिण्डभावेन 'सव्ववयरामया' इति सर्वात्मना ते प्रकण्ठकाः वज्रमयावज्ररत्नमया, 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत्।
तेसि णं पगंठगाण मित्यादि, तेषां प्रकण्ठकानां उपरि प्रत्येकं प्रत्येकं-इह एकं प्रति प्रत्येकमित्याभिमुख्येवर्तमानः प्रतिशब्दः समस्यते,ततोवीप्साविवक्षायांद्विर्वचनं,प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादावतंसका नाम प्रासादविशेषाः, उक्तं च जीवाभिगममूलटीकायां“प्रासादावतंसकौःप्रासादविशेषा'विति, तेचप्रासादवतंसकंअर्घतृतीयानियोजनशतानि ऊर्ध्वम् उच्चैस्तेवन पञ्चविंशंयोजनशतं विष्कम्भेन, 'अब्भुग्गयमूयपहसियाविव' अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव ते अभ्युद्गता निरालम्बाः तिष्ठन्तीति भावः।।
विविहमणिरयणभत्तिचित्ता' विविधाःअनेकप्रकारा ये मणयः-चन्द्रकान्तादयो यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभि-विच्छित्तिविशेषैश्चित्रा-नानारूपाः आश्चर्यवन्तो वा वानानाविधमणिरत्नभक्तिचित्राः, 'वाउट्ठयविजयवेजयंतीपडागछत्ताइछत्तकलिया' वातोद्भूतावायुकम्पिता विजयः-अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः, पाकास्ता एप विजयवर्जिता छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपत्राणितैः कलिता वातोद्भूतविजयवैजयन्ती पताकाछत्रातिच्छत्रकलिताः, तुङ्गो-उच्चा उच्चैस्त्वेनार्द्धतृतीययोजनशतप्रमाणत्वात् अत एव 'गगनतलमनुलिहंतसिहरा' इतिगगनतलं-अम्बरतलम् अनुलिखन्ति-अभिलवयन्तिशिखराणि येषांतेतथा, जालानि जालकानितानिभवनभित्तिषुलोके प्रतितानि, तदन्तेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org