SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५६ राजप्रश्नीयउपाङ्गसूत्रम्-२६ इत्यर्थः, तता कथममुमर्थ भगवान्प्ररूपयिष्यति इति, तथा 'उप्पन्नसड्ढे उत्पन्ना प्रागभूता सती भूता श्रद्धा यस्यासौउत्पन्नश्रद्धः अथजातश्रद्ध इत्येतदेवास्तु किमर्थमुत्पन्नश्रद्ध इति, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वा, नहिं अनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थं, तथाहि कथं प्रवृत्तश्रद्धः ?, उच्यते, यत उत्पन्नश्रद्धः, इति हतुत्वदर्शनं चोपपन्नं, तस्य काव्यालङ्कारत्वात् यथा 'प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरी मियत्र, अत्र हियद्यपिप्रवृत्तिदीपादित्वादेवाप्रवृत्त भास्करत्वमुपगतंतथाप्यप्रवृत्तभास्करत्वंप्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमितिसम्यक्, 'उप्पन्नसड्ढे उप्पन्नसंसये' इति प्राग्वत्, तथा 'संजायसड्ढे इत्यादिपदषटकं प्राग्वत्, नवरमिह संशब्दःप्रकर्षादिवचनोवेदितव्यः, ‘उठाए उठेइति उत्थानमुत्था-ऊर्द्धवर्तनं तयाउत्तिष्ठति, इह ‘उठेइ' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयेत यथा वक्तुमुत्तिष्ठते ततस्तद्वयवच्छेदार्थमुत्थायेत्युक्तं उत्थया उत्थाय जेणेवे'त्यादि यस्मिन् दिग्भागे श्रमणो भगवान् महावीरो वर्तते 'तेणेवे तितस्मिन्नेव दिग्भागेउपागच्छति, उपागत्य च श्रमणंत्रिकृत्वः-त्रिवारान्आदक्षिणप्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीक्तय चवन्दतेनमस्यति वन्दित्वानमस्सियत्वा एवमवादीत्। _ 'सूरियाभस्सणंभंते!' इत्यादि, 'कहिंगए' इतिकगतः?,तत्रगमनमन्तरप्रवेशाभावेऽपि दृष्टं यथा भित्तौ गतो धूलिरिति, एषोऽपिदिवयानुभावो यद्येवंकचिप्रत्यासन्ने प्रदेशे गतः स्यात्ततो श्येत न चासौ दृश्यते, ततो भूयः पृच्छति-'कहं अणुपविढे' इति कानुप्रविष्टः ? कवान्तीन इति भावः। भगवानाह-गौतमः शरीरं गतः शरीरमनुप्रविष्टः पुनः पृच्छति-से केणतुण'मित्यादि, अथ केनार्थेन केन हेतुना भदन्त! एवमुच्यते-शरीरंगतःशरीरमनुप्रविष्ट?, भगवानाह-गौतम ‘से जहानामए' इत्यादि, कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि आच्छादनं शिखराकारंसा कूटाकारेतिभावः, कूटाकाराचासौ शाला च कूटाकारशाला, यदिवा कूटाकारेण शिखराकृत्योपलक्षिता शाला कूटाकारशाला स्यात्, ‘दुहतो लित्ता' इति बहिरन्तश्च गोमयादिना लिप्ता गुप्ता-बहिप्रकारावृता गुप्तद्वारा द्वारस्थगनात्यदिवा गुप्ता गुप्तद्वारा-केषाञ्चित् द्वाराणां स्थगितत्वात् केषाञ्चिच्चास्थगितत्वादिति निविता-वायोरप्रवेशाकिल महद् गृहं निवातं प्रायो न भवति तत आह-निवातगम्भीरा-निवाता सती गम्भीरा निवातगम्भीरा, निवाता सती विशाला इत्यर्थः, ततस्तस्याः कूटाकारशालाया अदूरसामन्ते-नातिदूरे निकटे वा प्रदेशे महान् एकोऽन्यतरोजनसमूहस्तिष्टाति। सचएकंमहत्अभ्ररूपंबाईलं अभ्रबाईलं, दाराभिपातरहितंसम्भाव्यवर्ष बादलमित्यर्थः, वर्षप्रधानं बार्दलकं वर्षबार्दलकं वर्ष कुर्वन्तं बादलकं महावातं वा ‘एजमाण' मिति आयान्तंआगच्छन्तं पश्यति, दृष्ट्वा चतं 'कूडागारसालं द्वितीयाषष्ठयर्थेतस्याः कूटाकारशालायाअनन्तरं ततोऽनुप्रविश्यतिष्ठति, एवंसूर्याभस्यापि देवस्य सातताविशाला दिव्यादेवर्धिर्दिव्यादेवत्युतिर्दिव्यो देवानुभावः शरीरमनुप्रविष्टः ‘से केणटेणं' मित्यादि, अनेन प्रकारेण गौतम ! एवमुच्यते- 'सूरियाभस्से' त्यादि, भूयो गौतमः पृच्छति मू. (२७) कहि ण भंते ! सूरियाभस्स देवस्स सूरिया नामं विमाने पन्नत्ते?, गोयमा ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy