________________
मूलं-२६
२५५
भस्मसात् कृतानीति महातवे' इतिमहान्-प्रशस्तमाशंसादोषरहितत्वात्तपोयस्य स महातपाः, तथा 'उरहाले' इति,उदारः-प्रधानःअथवा उरालो-भीष्मः उग्रादिविशिष्टतपःकरणतः पार्श्वस्थानामल्पसत्वानामतिप्रभानक इति भावः ।
तथा घोरो-निघृणः परीषहेन्द्रियादिरिपुगणविनाशनमधिकृत्य निर्दय इतियावत्, तथा घोरा-अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य सघोरगुणः, तथाघोरैस्तपोभिस्तपस्वी घोरतपस्वी, 'घोरबंभचेरवासी' इति घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वात् ब्रह्मचर्यं यत् तत्र वस्तुंशीलं यस्य स तथा, ‘उच्छूढसरीरे' इति उच्छूढम्-उज्झितमिवोज्झितं संस्कारपरित्यागात् शरीरं येन स उच्छूढशरीरः, 'संखित्तविउलतेउलेसे' इति सङ्क्षिप्ता-शरीरान्तर्गतत्वेन ह्रस्वतां गता विपुलाविस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य सतथा, 'चउदसपुवी' इतिचतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वात् असौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह - ___'चउनाणोवगए' मतिश्रुतावधिमनःपर्यायज्ञानचतुष्टयसमन्वितः, उकतविशेषणद्वययुक्योऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवतिचतुर्दशपूर्वविदामपिषट्स्थानपतितत्वेन श्रवणादत आह-'सर्वाक्षरसन्निपाती' अक्षराणां सन्निपाताः-संयोगाः अक्षरसन्निपाताः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयाः स तथा, किमुक्तं भवति?-या काचित् जगतिपदानुपूर्वी वाक्यानुपूर्वी वासंभवति ताः सर्वाअपिजानातीति, एवंगुणविशिष्टो भगवान् विनयराशिरिवसाक्षादितिकृत्वाशिष्टाचारत्वाच्च श्रमणस्य भगवतोमहावीरस्यादूरसामन्तेविहरतीति योगः, तत् दूरं-विष्कृष्टं सामन्तं-सन्निकृष्टं तत्प्रतिषेधाददूरसामन्तं ततो नातिदूरे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत आह
'ऊड्ढंजाण अहोसिरे' ऊर्ध्वं जानुनी यस्यासावूर्ध्वजानुः अधःशिरा नोज़ तिर्यग्वा विक्षिप्तष्टिकिन्तु नियतभूभागनियमितष्टिरित्यर्थः, 'झाणकोट्ठोवगए' इतिध्यान-धर्मध्यानं शुक्लध्यानंचतदेवकोष्ठःकुशूलो ध्यानकोष्ठस्तमुपगतोध्यानकोष्ठपगतो, यथा हि कोष्ठके धान्यं प्रक्षिप्तम्विप्रसृतंभवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, संयमेन' पञ्चाश्रवनिरोदिलक्षणेन तपसाअनशनादिना चशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, संयमतपोग्रहणमनयोः प्रधानमोक्षाङ्गताख्यापनार्थं, प्राधान्यं संयमस्य नवकर्मानुपादानहेतुत्वेन तपसञ्च पुराणकर्मनिर्जराहेतुत्वेन, तथाहि-अभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच जायते सकलकर्मक्षयलक्षणो मोक्षस्ततो भवति संयमतपसोर्मोक्षप्रति प्राधान्यमिति अप्पाणंभावेमाणे विहरति' इति, आत्मानं वासयन् तिष्ठति।
'तएण मित्यादि, ततोध्यानकोष्ठोपगतविहरणादनन्तरं'ण'मितिवाक्यालङ्कारेस भगवान् गौतमो जातसड्डे' इत्यादि, जातश्रद्धादिविशेषणविशिष्टः सन्उत्तिष्ठतीतियोगः, तत्रजाता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थत्वावगमंप्रतियस्यासौ जातश्रद्धः तथा जातःसंशयोयस्यसजातसंशयः, संशयो नाम अनवधारितार्थं ज्ञानं, स चैवं-इत्तं नामास्य दिव्या देवद्धिविस्तृता अभवत् इदानीं सा कव गतेति, तथा 'जायकुतूहले' इति जातं कुतूहलं यस्य स जातकुतूहलः, जातीत्सुक्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org