________________
२५४
राजप्रश्नीयउपाङ्गसूत्रम्-२६ वन्दित्वा नमस्यित्वा ‘एवं' वक्ष्यमाणप्रकारेणावादीत्, पुस्तकान्तरे त्विदं वाचनान्तरं दृश्यते, 'तेणंकालेणंतेणंसमएणंसमणस्स भगवओ महावीरस्स जिढेअंतेवासी' इत्यादि,अस्य व्याख्यातस्मिन् काले तस्मिन् समयेणंशब्दो वाक्यालङ्कार्थं, श्रमणस्य भगवतो महावीरस्य ‘ज्येष्ठ' इति प्रथमोऽन्तेवासी-शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतंनामधेयनामेतिप्राकृतत्वात् विभक्तिपरिणामेन नाम्नेतिद्रष्टव्यं, एवमन्यत्रापि यथायोगं भावनीयम्, अन्तेवासी च किल विवक्षायां श्रावकोऽपि स्यादतस्तदाशङ्काव्यवच्छेदार्थमाह
'अनगारः' न विद्यते अगारं-गृहमस्येत्यनगारः, अयंच विगीतगोत्रोऽपि सम्भाव्येतात आह-गौतमो गोत्रेण गौतमाह्वयगोत्रसमन्वित इत्यर्थ, अयं च तत्कालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत आह-सप्तोत्सेधः-सप्तहस्त प्रमाणशरीरोच्छ्रायः, अयं चेत्थम्भूतो लक्षणहीनोऽपि शङ्कयेतातस्तदाशङ्कापनोदार्थमाह- समचउरंससंठाणसंठिए'इति, समाःशरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽनयो यस्य तत् समचतुरस्र अम्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्रष्टव्याः।
__ अन्ये त्वाहुः-समा अन्यूनाधिकाश्चतस्रोऽप्यनयो तत्र तत्समचतुरस्र तच्च तत् संस्थानं च, संस्थानम्-आकारः तच्च, वामदक्षिणजान्वोरन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति, अपरे त्वाहुः-विस्तारोत्सेधयोः समत्वात् समचतुरन तच्च तत्संस्थानं च २, संस्थानम्-आकारस्तेन संस्थितो-व्यवस्थितो यः स तथा 'जावउठाए उद्देइ' इति यावत्करणात् ‘वज्ञरिसहसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवेदित्ततवे महातवे उराले घोरेघोरगुणेघोरतवस्सी घोरबंभचेरवासी उच्छूढसरीसे संखित्तविपुलतेयलेसे चउदसपुव्वी चउनाणोवए सव्वक्खरसन्निवाई समणस्स भगवतो महावीरस्स अदूरसामन्तेउटुंजाणुअहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणंभावेमाणे विहरइ।।
तए णं से भगवं गोयमे जायसढे जायसंसए जायकोउहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले संजायसड्ढे संजायसंसए संजायकोउहल्ले समुप्पन्नसट्टे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उठाएउठेइ इतिद्रष्टव्यं, तत्र नाराचमुभयतोमर्कटबन्धःऋषभस्तदुपरिवेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवं संहननं यस्य स तथा, तता कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य यो निकपः-कषपट्टके रेखारूपस्तथा पद्मग्रहणेन पद्मकेस-राण्युच्यन्ते अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽवयवोऽपि देवदत्तः, तथा च देवदत्तस्य हस्ताग्रं स्पृष्टा लोकोवदति-स्पृष्टो मया देवदत्त इति।।
कनकपुलकनिकषवत्पद्मवच्च यो गौरःसकनकपुलकनिकषपद्मगौरः,अथवा कनकस्य यः पुलको-द्रवत्वे सति बिन्दुस्य निकषो वर्णतः सशः कनकपुलकनिकपः, तथा पद्मवत्पद्मकेसरवत् यो गौरः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयसमासः, अयं च विशिष्टचरणरहितोऽपि शङ्कयेत तत आह-'उग्गतवे' इति, उग्रम्-अधृष्यं तपः-अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपिमनस तद्विधेन तपसा युक्त इत्यर्थ, तथा दीप्तंजाज्वल्यमान दहन इव कर्मवनगहनदहनसमर्थतयाज्वलितंतपो-धर्मध्यानादि यस्य सतथा, 'तत्ततवे' इति तप्तं तपो येन सतप्ततपाः, एवं हि तेन तपस्तप्तं येन सर्वाण्यपि अशुभानि कर्माणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org