________________
मूलं-२३
२४५
__ वृ. 'तए णमित्यादि, ततः श्रमणो भगवान् महावीरः सूर्याभेण देवेन एवमुक्तः सन् सूर्याभस्य देवस्यैनम्- अनन्तरोदितमर्थनाद्रियते-नतदर्थकरणायादरपरोभवति, नापि परिजानाति–अनुमन्यते, स्वते वीतरागत्वात् गौतमादीनांच नाट्यविधेः स्वाध्यायादिविघातकारित्वात्, केवलंतूष्णीकोऽवतिष्ठते, एवं द्वितीयमपिवारं, तृतीयमपि वारमुक्तः सन् भगवानेवमवतिष्ठति 'तए णमि'त्यादि, ततः पारिणामिक्या बुद्धया तत्त्वमवगम्य मौनमेव भगवत उचितं न पुनः किमपि वक्तुं, केवलं मया भक्तिरात्मीयोपदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभो देवः श्रमणंभगवन्तंमहावीरंवन्दते-स्तौतिनमस्यति-कायेनवन्दित्वानमस्थित्वाच 'उत्तरपुरच्छिमं दिसीभागमि'त्यादि सुगम, नवरंबहुसमभूमिवर्णनप्रेक्षागृहमण्डपवर्णनमणिपीठिकासिंहासनतदुपर्युल्लोचाङ्कुशमुक्तादामवर्णनानि च प्राग्वद् भावनीयानि।।
'तएणमित्यादि, ततः सूर्याभो देवस्तीर्थङ्करस्य भगवतः आलोके प्रणामं करोति, कृत्वा चानुजानुत भगवान् मामित्यनुज्ञापनां कृत्वा सिंहासनवरगतः सन् तीर्थकराभिमुखः सन्निषण्णः 'तए णमित्यादि, ततः सूर्याभो देवः 'तत्प्रथमतया' तस्य-नाट्यविधेः प्रथमतायां दक्षिणं भुजं प्रसारयति, कथम्भूतमित्याह-'नानामणिकणगरयणविमलमहारिहनिपुणोवचियमिसिमिसंतविरइयमहाभरणकडगतुडियवरभूसणुज्जलं' इति नानाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकरत्नानि, मणयो नानाविधाश्चन्द्रकान्तादयः कनकानि नानाविधानि नानवर्णतया रत्नानि नानाविधानि कर्केतनादीनि, तथा विमलानि-निर्मलानितथा महान्तमुपभोक्तारमर्हन्ति यदिवा महम्-उत्सवं क्षणमर्हन्तीति महार्हाणि तथा निपुणं-निपुणबुद्धिगम्यं यथा भवति एवं 'ओविया' इति परिकर्मितानि 'मिसिमिसंत्ति' दीप्यमानानि विरचितानि महाभरणानि यानि कटकानि कलाचिकाभरणानितुटितानि-बाहुरक्षका अन्नयानि च यानि वरभूषणानितैरुज्ज्वलंभास्वरं तथा पीवरं-स्थूलं प्रलम्ब-दीर्घ । _ 'तए णमित्यादि, ततः-तस्माद् दक्षिणभुजात् अष्टशतम्-अष्टाधिकंशतं देवकुमाराणां निर्गच्छति, कथम्भूतानामित्याह-सशानां, समानाकाराणामित्यर्थः, तत्राकारेण कस्यचित् सशोऽपि वर्णतः सशो न भवति ततः सहगवर्णत्वकप्रतिपादनार्थमाह-'सरित्तयाण'मिति, सशी-सध्ग वर्णत्वक् येषां ते तथा, सहकत्वगपि कश्चित् वयसा विसदृशः सम्भाव्येत तत आह-'सरिव्वयाणं' सध्क्-समानं वयो येषांते तथा तेषां ‘सरिसलावण्णरूवोव्वणगुणोववेयाणमिति सध्शेन लावण्येन-लवणिम्ना अतिसुभगया शररिकान्त्येति भावः, रूपेण-आकृत्या यौवनेन-यौवनिकया गुणैः-दक्षत्वप्रियंवदत्वादिभिरुपपेताः सध्शलावण्यरूपयौवनगुणोपपेतास्तेषां, “एगाभरणवसनगहियनिजोगाणमिति एकः-समानः आभरणवसनादि-आभरणवसनलक्षणो गृहीतो निर्योगः-उपकरणमर्थान्नाट्योपकरणं यैस्ते तथा तेषां । ___'दुहओसंवेल्लियग्गनियत्थाणं ति द्विघातो-द्वयोः पार्श्वयोःसंवेल्लितानिसंवृत्तानि अग्राणि यस्य तद्विघातःसंवेल्लिताग्रं न्यस्तंसामथ्यार्दुतरीयंयैस्तेतथा तेषांतथा उप्पीलियचित्तपट्टपरियरस फेणगावत्तरइयसंगयपलंबवत्थंतचित्तचिल्ललगनियंसणाण'मिति, उत्पीडितः-अत्यन्ताबद्धश्चित्रपट्टो-विचित्रवर्णपट्टरूपः परिकरो यैस्ते तथा यस्मिन्नावर्त्तने फेनविनिर्गमो भवति स सफेनकावर्त उच्यतेततः सफेनकावर्तेन रचिता सङ्गता-नाट्यविधावुपपन्नाःप्रलम्बावनन्यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org