________________
२४६
राजप्रश्नीयउपाङ्गसूत्रम्-२३
निवसनस्यतत्तथा तत् चित्रं-चित्रवर्णचिल्ललगं-देदीप्यमानं निवसनं-परिधानं येषां तेतथा, ततः पूर्वपदेन विशेषणसमासस्तेषां, “एगावलिकंठरइय-सोभंतव-छपरिहत्यभूस-णाण'मिति, एकावलिर्या कण्ठेरचितातयाशोभमानं वक्षोयेषांतेतथा, परिहत्थशब्दोदेश्यः परिपूर्णवाचकः, पडिहत्थानि-पूर्णानि भूषणानि येषां ते तथा, ततः पूर्वपदेन कर्मधारयस्तेषां, 'नट्टसज्जाणं' नृत्ये सज्जाः- प्रगुणीभूतानृत्यसज्जास्तेषां।
तदनन्तरंच यथोक्ताविशेषणविशिष्टंवामं भुजंप्रसारयति, तस्माद्-वामभुजात्अष्टशतं देवकुमारिकाणां विनिर्गच्छति, कथम्भूतमित्याह-सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णवजोव्वणगुणोववेयाणं एगाभरणवसणगहियनिजोईणंदुहतीसंवेल्लियग्गनियत्थणमिति पूर्ववत् 'आविद्धतिलयामेलाणं' आविद्धस्तिलक आमेलश्च-शेखरको यकामिस्ता आविद्धतिलकामेलास्तासां पिणद्धगेवेजकञ्चुकाण मिति, पिनद्धं ग्रैवेयकं-ग्रीवाभरमं कञ्चुकश्च यकाभिस्तास्तथा तासां, 'नानामणिकणगरयणभूसणविराइयंगमंगीण मिति, नानाविधानि मणिकनकरत्नानि येषु भूषणेषु तानि नानामणिकनकरत्नानि तैर्नानामणिकनकरतभूषणैविराजितान्यङ्गमङ्गानि-अङ्गप्रत्यङ्गानि यासां तास्तथा तासां, 'चंदाननाणं चन्दद्धसमनिडालाणं चन्दाहियसोमदंसणाणंउक्काइव उज्जोवेमाणीण मिति सुगमं 'सिङ्गारागारचारुवेसाणं हसियभणियचिट्ठियविलाससललियसलावणिउणजुत्तोवयारकुसलाणंगहियाउजाणंनट्टसज्जाण मिति पूर्ववत् ___तए णं से सूरियाभे देवे' इयादि, ततः (स) सूर्याभो देवोऽष्टशतं शङ्खानां विकुर्वति, अष्टशतं शङ्खवादकानाम् १, अष्टशतं शृङ्गाणामष्टशतं शृङ्गवादकानां २ अष्टशतं शशिकानां अष्टशतं शङ्खिकावादकानां २, ह्रस्वःशङ्को जात्यन्तरात्मकः शशिका, तस्या हि स्वरो मनाक् तीक्ष्णोभवति, नतुशङ्खवदतिगम्भीरः, तथाअष्टशतंखरमुखीनां-काहलानांअष्टशतं खरमुखीवादकानाम् ३, अष्टशतं पेयाना, पेया नाम महत्ती काहला, अष्टशतं पेयावादकानां ४, अष्टशतं पीरिपीरिकाणांकोलिकपुटावनद्धमुखवाद्यविशेषरूपाणामष्टशतंपीरिपीरिवादकानां ५ अष्टशतं पणवानां, पणवो-भाण्डपटहो लघुपटहो वा अष्टशतं होरम्भाणां, होरम्भा-महाढक्क अष्टशतं होरम्भावादकानां ९ अष्टशतं भेरीणां-ढक्ककृतिवाद्यविशेषरूपाणामष्टशतं भेरीवादकानां १० अष्टशतं झल्लरीणां झल्लरीनाम-चविनद्धा विस्तीर्णवलयाकारा अष्टशतंझल्लरीवादकानां ११ अष्टशतंदुन्दुभीनाम-ष्टशतंदुन्दुभिवादकानां दुन्दुभिर्भेर्याकारा सङ्कटमुखी देवातोद्यविशेषः १२
अष्टशतं मुरुजानां महाप्रमाणो मर्दलो मुरुजः अष्टशतं मुरुजवादकानां १३ अष्टशतं मृदङ्गोऽथ्शतंमृदङ्गवादकानां १४ अष्टशतंनन्दीमृदङ्गानानन्दीमृदङ्गो नाम एकतः सङ्कीर्णोऽन्यत्र विस्तृतो मुरजविशेषः, अष्टशतंनन्दीमृदङ्गवादकानां १५ अष्टशतमालिङ्गानांआलिङ्गो-मुरजवाद्यविशेषएवाष्टशतमालिङ्गवादकानां १६अष्टशतंकुस्तुम्बाना कुस्तुम्बः-चौवनद्धपुटो वाद्यविशेषः अष्टशतं कुस्तुम्बवादकानां १७ अष्टशतं गोमुखीनां, गोमुखी लोकतोऽवसेया, अष्टशतं गोमुखीवादकानां १८ अष्टशतं मर्दलानां, मईलः-उभयतः समः, अष्टशतं मर्दलवादकानां १९ अष्टशतं विपञ्चीनां, विपञ्ची-त्रितन्त्री वीणा, अष्टशतं विपञ्चीवादकानां २०,अष्टशतं वल्लकीनां, वल्लकीसामान्यतो वीणा, अष्टशतं वल्लकीवादकानां २१ अष्टशतं भ्रामरीणामष्टशतं भ्रामरीवादकानां २२ अष्टशतं षडभ्रामरीणामष्टशतं षडभ्रामरीवादकानां २३ अष्टशतं परिवादिनीनां परिवादीनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org