________________
मूलं-१५
२२९ रूधिरं, वराहःसूकरस्तस्यरुधिरं, मनुष्यरूधिरं महिषरुधिरंचप्रतीतं, एतानि हिकिल शेषरूधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, बालेन्द्रगोपकः-सद्योजातेनद्रगोपकः स हि प्रवृद्धः सन्निषत्पाण्डुरो रक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः-प्रथमप्रावृटकालभावी कीटविशेषः, बालदिवाकरः-प्रथममुद्गच्छन्सूर्य, सन्ध्याघ्ररागो-वर्षासु सन्ध्यासमयभावी अभ्ररागः, गुञ्जा-लोकप्रतीता तस्यार्द्ध रागो गुआर्द्धरागः, गुआया हि अर्द्धमतिरक्तं भवति अर्द्ध चातिकृष्णमितिगुआर्द्धग्रहणं, जपाकुसुमकिंसुककुसुमपारिजातकुसुमजात्यहिङ्गुला लोकप्रसिद्धाः, शिलाप्रवालं-प्रवालनामारलविशेषः प्रवालाङ्करः-तस्यैव रत्नविशेषस्य प्रवालस्याङ्करः, स हि तप्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणिमि रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोककणवीररक्तबन्धुजीवाः प्रतीताः, 'भवेयावे' इत्यादि प्राग्वत् ।
'तत्थ णमित्यादि, 'तत्र' तेषां मणीनां मध्ये ये हरिद्रा मणयस्तेषामेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा से जहानामए' इत्यादि, स यथानाम चम्पकः समामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छल्ली-सुवर्णचम्पकत्वक्, चम्पकभेद:- सुवर्णचम्पकच्छेदः, हरिद्राप्रतीता, हरिद्राभेदोहरिद्राच्छेदः, हरिद्रागुटिका-हरिद्रासारनिर्वर्तितागुटिका, हरितालिका-पृथिवीविकाररूपाप्रतीता हरितालिकाभेदो-हरितालिकाच्छेदः, हरितालिकागुटिका-हरितालिकासारनिवर्तिता गुलिका, चिकुरो-रागद्रव्यविशेषः, चिकुरागरागः-चिकुरसंयोगनिर्मितो वस्त्रादौ रागः, वरकनकस्यजात्यसुवर्णस्य यः कषपट्टकेनिघर्षस वरकनकनिघर्षवरपुरुषोःवासुदेवस्तस्यवसनंवरपुरुषवसनं, तच्च किलपीतमेवभवतीति तदुपादानं, अल्लकीकुसुमंलोकतोऽवसेयं, चम्पककुसुमं-सुवर्णचम्पकपुष्पं कूष्माण्डीकुसुमं-पुष्पफलीकुसुमं, कोरण्टकः-पुष्पजातिविशेषः तस्यदामकोरण्टकदाम तडवडा-आउली तस्याः कुसुमं तडवडाकुसुमं, घोशातकीकुसुमं सुवर्णयूथिकाकुसुमंचप्रतीतं चप्रतीतं, सुहिरण्यका-वनस्पतिविशेषस्तस्याः कुसुमंसुहिरण्यकाकुसुमं, बीयको वृक्षः प्रतीतः तस्य कुसुमंबीयककुसुमं, पीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीताः, 'भवेयायवे' त्यादि प्राग्वत् । तत्थ णमि'त्यादि।
'तत्र' तेषां मणीनांमध्ये ये शुक्ला मणयस्तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा 'से जहानामए' इत्यादि, सयथानाम 'अङ्को रतन्विशेषः, शङ्खचन्द्र (दतकुन्द) कुमुदोदकोदकरजोदधिधनगोक्षीरपूरकोचावलिहारावलिहंसावलिबलाकावलयः प्रतीताः, चन्द्रावली-तडागादिषु जलमध्यप्रतिबिम्बितचन्द्रपङ्कित, सारइयबलाहगेइतिवा' शारदिकः-शरत्कालभावी बहालकोमेघः, 'घन्तघोयरुप्पपट्टे इ वेति' मातः-अग्निसम्पर्केण निर्मलीकृतो घौतः-भूतिखरण्टितहस्तसंतर्जनेन अतिनिशितीकृतो यो रूप्यपट्टो-रजतपत्रकं स मातघौतरूप्यपट्टः, अन्ये तु व्याचक्षते-मातेन-अग्निसंयोगेनयो घौतःशोधितो रूप्यपट्टः समातघौतरूप्यपट्टः, शालिपिष्टराशि-शालिक्षोदपुञ्जः, कन्दपुष्पराशि कुमुदराशिश्च प्रतीतः, 'सुक्कछेवाडियाइवे' तिछेवाडिनाम वल्लादिफलिका सा च कचिद्देशविशेषे शुष्का सती अतीव शुक्ला भवति ततस्तदुपादानं, 'पेहुणमिंजिया इ वेति' पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी पेहुणमिञ्जिका सा चातिशुक्लेति तदुपन्यासः, विसं' पद्मनीकन्दः, 'मृणालं' पद्मतन्तुगजदन्तलवङ्गदलपुण्डरीकदलश्वेता-शोकश्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org