SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २३० राजप्रश्नीयउपाङ्गसूत्रम्-१५ कणवीरश्वेतबन्धुजीवाः प्रतीताः, 'भवेयासवे सिया' इत्यादि प्राग्वत् । तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपं प्रतिपादनार्थमाह मू. (१५-वर्तते) तेसिणं मणीणं इमेयारूवे गंधे पन्नत्ते, से जहानामए कोट्टपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण वा दमणा पुडाण वा कुंकुमपुडाण वा चंदनपुडाण वा उसीरपुडाण वामरुआपुडाण वाजातिपुडाण वा जूहियापुडाणवामल्लियापुडाण वा हाणम-ल्लियापुडाण वा केतगिपुडाण वा पाडलिपुडाण वा नोमालियापुडाण वा --अगुरुपुडाण वालवंगपुडाण वाकपूरपुडाण वा वासपुडाण वा अणुवायंसि वा ओभिज्जमाणाण वा कोट्टिजमाणाण वा मंजिज्जमाणाण वा उक्करिज्जमाणाण वा विक्करिजमाणाण वा परिभुजमाणाण वा पिमाइजमाणाण वा भंडाओ वा भंडं साहरिजमाणाण वा ओराला मणुण्णा मनहरा धाणमणनिव्वुतिकरा सव्वतो समंता गंदा अभिनिस्सवंति। भवेयारूवे, सिया?, नो इमढे समढे, ते णं मणी एतो इतराए चेव गंधेणं पन्नत्ता। वृ. 'तेसि णमित्यादि, तेषां मणीनामयमेतद्रूपो गन्धः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थ प्रतिपत्तव्यः, ते यथा नाम गन्धा अभिनिर्गच्छन्तीति सम्बन्धः, कोष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेषां, वाशब्दाः सर्वत्रापि समुच्चये, इह एकस्य पुटस्य प्रायो न ताशो गन्ध आयाति, द्रव्यस्याल्पत्वात्, ततो बहुवचनं, तगरमपि गन्धद्रव्यं, एलाःप्रतीताः, चोयं-गन्धद्रव्यं चम्पकदमनककुड्डमचन्दनोशीरमरुकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलीनवमालिकाऽगुरुलवङ्गकुसुमवासकर्पूराणि प्रतीतानि, नवरमुशीरंवीरणीमूलं स्नानमल्लिका-स्नानयोग्यो मल्लिकाविशेषः, एतेषां पुटानामनुवाते-आध्रायकविवक्षितपुरुषाणानुकूले वाते वाति सति उद्भिद्यमानानामुद्घाट्यमानानां वाशब्दः सर्वत्रापि समुच्चये 'कुट्टिजमाणाण वा' इति इह पुरैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्ठपुटादीनीत्युच्यन्ते तेषां कुट्यमानानाम्-उदूखले खुद्यमानानां 'भंजिज्माणाणवा' इतिश्लक्ष्णखण्डीक्रियमाणानां' एतच्च विशेषणद्वयंकोष्ठादिद्रव्याणामवसेयं, तेषामेव प्रायः कुट्टन श्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनां । 'उक्किरिज्जमाणाणवा' इतिक्षुरिकादिभिकोष्ठादिपुटानांकोष्ठादिद्रव्याणांवाउत्कीर्यमाणानां 'विक्करिजमाणाण वा' इ विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां परिभुजमाणाण वा' परिभोगाय उपयुज्यमानानां, कचित् 'परिभाइजमाणाण वा' इति विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां परिभुजमाणाणवा परिभोगाय उपयुज्यमानानां, क्वचित् परिभाइज्जमाणाण वा' इति पाठस्तत्र परिभाइजमाणानं संह्रियमाणानां उदाराः-स्फारास्ते चामनोज्ञा अपि स्युरत आह-मनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह-मनोहराः-मनो हरन्ति-आत्मवशं नयन्तीति मनोहराः, इतस्तत विप्रकीर्यमाणेन मनोहरत्वं, कुतः ? इत्याह । घ्राणमनोनिवृतिकराः, एवंभूताः सर्वतः-सर्वासुदिक्षुसमन्ततः-सामस्त्येन गन्धाअभिनिस्सरन्ति, जिघ्रतामभिमुखं निस्सरन्ति, क्वचित् ‘अभनिस्सवन्तीति' पाठः, तत्रापि स एवार्थो नरमभितः सवन्तीतिशब्दसंस्कार, एवमुक्ते शिष्यः पृच्छति-'भवेयारूवेसिया' स्यादेतत् यथा भवेद् एतद्रूपस्तेषां मणीनां गन्धः?, सूरिराह-'नो इणढे समढे' इत्यादि प्राग्वत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy