________________
२२८
राजप्रश्नीयउपाङ्गसूत्रम्-१५
अअनं-सौवीराजनरलविशेषोवा, खअनं-दीपमल्लिकामलः, कजलं-दीपशिखापतितं, मषीतदेवकज्जलं ताम्रभाजनादिषुसामग्रीविशेषेणघोलितं मसीगुलिका घोलितकज्जलगुडिका, कवचित् 'मसी इति वा मसीगुलिया' इति न ६श्यते।
‘गवलं माहिषंशृङ्गतदपिचोपरितनत्वग्भागापसारेण द्रष्टव्यं, तत्रैवविशिष्टस्य कालिम्रः सम्भवात्, तथातस्यैव माहिषशृङ्गनिविडतरसारनिर्वतिता गुटिका गवलगुटिका भ्रमरः-प्रतीतः भ्रमरावली- भ्रमर पङ्कित भ्रमरपतङ्गसारः-भ्रमरपक्षान्तर्गतो विशिष्टकालिमोपचितप्रदेशः, जम्बूफलं प्रतीतं, आर्द्रारिष्ठकःकोमलः काकः, परपुष्ट कोकिलः, गजो गजकलभश्च प्रतीतः, कृष्णसर्प- कृष्णवर्णसर्पजातिविशेषः, कृष्णकेसरः-कृष्णबकुलः 'आकाशथिग्गलं' शरदिमेघविनिर्मुक्तमा-काशखण्ड, तद्धिकृष्णमतीव प्रतिभातीतितदुपादानं, कृष्णाशोककृष्णकणवीरकऋष्णबन्धुजीवाः अशोककणवरिबन्धुजीववृक्षभेदाः,अशोकादयोहि पञ्चवर्णाभवन्ति ततः शेषवर्णव्युदासार्यं कृष्णग्रहणं, एवावत्युक्ते त्वरावानिव शिष्यः पृच्छति ‘भवे एयारूवे' इति भवेत् मणीनां कृष्णो वर्ण 'एतद्रूपो' भीमूतादिरूप?, सूरिराह
नायमर्थः समर्थः नायमर्थ उपपन्नो, यदुत-एवम्भूतः कृष्मो वर्णो मणीनामिति, यद्येवं तर्हि किमर्थं जीमूतादीनां दृष्टान्तत्वेनोपादानमत आह-औपम्यम्-उपमामात्रमेतत् उदितं हे श्रमण आयुष्मन् !, यावता पुनस्ते कृष्मा मणय 'इतो' जीमूतादेरिष्टतरका एव-कृष्णेन वर्णेन अभीप्सित-तरका एव, तत्र किञ्चिदकान्तमपि केषाञ्चिदिष्टतमं भवति ततोऽकान्तताव्यवच्छित्यर्थमाह-‘कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः कमनीयतरकाः, अत एवमनोज्ञतरका एव-मनसा ज्ञायते-अनुकूलतया स्वप्रवृत्तिविषयीक्रयते इति मनोज्ञमनोऽनुकूलं ततःप्रकर्षविवक्षायां तर प्रत्ययः, तत्रमनोज्ञतरमपिकिश्चिमन्मध्यमं भवेत्, ततः सर्वोत्कर्षप्रतिपादनार्थमाह-'मन आपतरका एव' द्रष्टणां मनासि आप्नुवन्ति-आत्मवशतां नयन्तीति मनापास्ततः प्रकर्षविवक्षायांतर प्रत्ययः,प्राकृतत्वाच्च पकारस्य मकारे मणामतराइति भवति
तथा 'तत्थणमित्यादि, तत्रतेषांमणीनांमध्येयेतेनीलामणयस्तेषामयमेतद्रूपोवर्णावासो वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि स यथ नाम भृङ्गः-कीटविशेषः पक्ष्मलः 'भृङ्गपत्र' तस्यैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्मः, शुकः-कीरः, शुकपिच्छं-शुकस्य पत्रं, चाषः-पक्षिविशेषः, 'चापपिच्छं' चाषपक्षः, नीलीप्रतीता, नीलीभेदो-नीलीच्छेदः, नीलीगुलिकागुलिकाद्रव्यगुटीका, श्यामाको-धान्यविशेषः, 'उच्चंतगो' दन्तरागः, वनराजी प्रतीता, हलधरोबलदेवस्तस्य वसनं हलधरवसनं, तच्च किल नीलं भवति सदैव यथास्वभावताय, हलधरस्य नीलवस्त्रपरिधानात्, मयूरग्रीवापारापतग्रीवाअतसीकुसुमबाणवृक्षकुसुमानिप्रतीतानि, इत ऊर्द्ध क्वचित् 'इंदनीले इ वा महानीले इ वा मरगते इ वा' इति दृश्यते तत्रेन्द्रीनलमहानीलमरकता रत्न- विशेषाः प्रतीताः, अञ्जनकेशिका-वनस्पतिविशेषस्तस्य कुसुममञ्जनकेसिकाकुसुमं, नीलोत्पलं- कुवलयं, नीलाशोककणवीरनीलबन्धुजीवाअसोकादिवृक्षविशेषाः, ‘भवेयारूवे' इत्यादि प्राग्वद् व्याख्येयं।
तथा तत्थ णमित्यादि, 'तत्र' तेषां मणीनां मध्ये ये ते लोहिता मणयस्तेषामयमेतद्रूपो वर्णावासःप्रज्ञप्तः, तद्यथा-‘से जहानामए' इत्यादि, तद्यथा नामशशकरुधिरंउरभ्रः-ऊरणस्तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org