SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ मूलं-१५ भवेयारूवे सिया ?, नो इणट्ठे समट्ठे । २२७ णं सुकिल्ला मणी एत्तो इट्ठतराए चेव जाव वन्नेणं पन्नत्ता । वृ. से जहानामए इत्यादि, तत्सकललोकप्रसिद्धं 'यथे' ति दृष्टान्तोपदर्शने 'नामे' ति शिष्यामन्त्रणे, 'ए' इति वाक्यालङ्कारे, 'आलिंगपुकखरे इ वे 'ति आलिङ्गो - मुरजनामा वाद्यविशेषः तस्य पुष्करं-चर्मपुटं तत्किलात्यन्तसममिति तेनोपमा क्रयते, इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः, वाशब्दाः समुच्चये, मृदङ्गो लोकप्रतीतो मर्दलसतस्य पुष्करं मृदङ्गपुष्करं 'परिपूर्ण' पानीयेन भृतं तडाकं सरस्तस्य तलम् - उपरितनो भागः सरस्तलं, करतलं प्रतीतं, चन्द्रमण्डलं सूर्यमण्डलं च यद्यपि तत्त्व वृत्या उत्तानीकृतार्द्धकपित्थाकारं पीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डलं सुप्रसिद्धं, 'उरब्भचम्मे इ वे 'त्यादि । अत्र सर्वत्रापि ‘अनेगसंकुकीलसहस्सवितते' इति विशेषणयोगः, उरभ्रः - ऊरणः, वृषभवराहसिंहव्याघ्रच्छगलाः प्रतीताः द्वीपी - चित्रकः, एतेषां प्रत्येकं चर्म्म अनेकैः शङ्कप्रमाणैः कीलकसहस्र, महद्भिर्हि कीलकैस्ताडितं प्रायो मध्ये क्षामं भवति, तथारूपताडासम्भवात् अतः शङ्कृग्रहणं, 'विततं' विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि यानविमास्यान्तर्बहुसमो भूमिभागः, पुनः कथम्भूत इत्याह- 'नानाविहपंचवन्नेहिं मणीहिं उवसोभिते' नानाविधाः - जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः, कथम्भूतैरित्याह ‘आवडे' इत्यादि । आवर्त्तादीन मणीनां लक्षणानि, तत्रावर्त्तः प्रतीतः एकस्यावर्त्तस्य प्रत्यभिमुख आवर्त्तः प्रत्यावर्त्तः श्रेणि- तथाविधबिन्दुजा पङ्क्तिस्तस्याश्च श्रेणेर्या च निर्गता अन्या श्रेणि सा प्रश्रेणिः स्वस्तिकः प्रतीतः सौवस्तिकपुष्पमाणवी लक्षणविशेषौ लोकाव्यत्येतव्यौ वर्द्धमानकं - शरावसम्पुटंमत्स्यकाण्डकमकरकाण्डकेप्रतीते 'जारमारेति' लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोका- द्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः सुप्रतीताः तासां भक्त्याः विच्छित्या चित्रम् - आलेखो येषु ते आवर्त्तप्रत्यावर्त्तश्रेणियप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्द्धमान-कमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्ति- चित्रास्तैः किमुक्तं भवति ? आवर्त्तादिलक्षणोपेतैः, तथा सच्छायैः सती - शोभना छाया - निर्मलत्वरूपा येषां ते सच्छायाः, तथा सती - शोभना प्रभा - कान्तिर्येषां ते सत्प्रभाः तैः, 'समरीइएहिं' इति समरीचिकैः - बहिर्वि - निर्गतकिरणजालसहितैः सोद्योतः - बहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितैः एवम्भूतैर्नानाजातीयैः पञ्चवर्णर्मणिभिरुपशोभितः, तानेव पञ्चवर्णानाह 'तंजहा- कण्हेहिं' इत्यादि सुगमं, 'तत्थ णमित्यादि, 'तत्र' तेषां पञ्चवर्णानां मणीनां मध्ये 'णमिति वाक्यालङ्कारे, ये ते कृष्णा मणयः, ते कृष्पमणय इत्येव सिद्धे ये इति वचनं भाषाक्रमार्थं । तेषां 'णमि' ति पूर्ववत्, अयम् - अनन्तरमुद्दिश्यमान एतद्रूपः - अनन्तरमेव वक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - 'से जहानामए' इत्यादि, स यथा नाम 'जीमूत' इति जीमूतो वलाहकः, स चेह प्रावृटप्रारम्भसमये जलमृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसम्भवात्, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमान्तरापेक्षया समुच्चये, एवं सर्वत्र, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy