________________
२२४
राजप्रश्नीयउपाङ्गसूत्रम्-१५ योजनशतसहस्रविस्तीर्ण-योजनलक्षविस्तारं 'दिव्य' प्रधानं 'गमनसज्ज' गमनप्रवणंशीघ्रगमननामधेयं जाणविमाणं' यानरूपं-वाहनरूपं विमानंयानविमानं, शेषप्राग्वत्। तस्सण'मित्यादि, तस्सणमितिपूर्ववत् दिव्यस्य यानविमानस्य तिदिसिं' इति तिम्रदिशः समाहृतास्त्रिदिक्तस्मिन् त्रिदिशि, तत्र तिसोवाणपडिरूवए' इति त्रीणि एकैकस्यां दिशिएकैकस्य भावात्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारस्निसोपानं त्रिसोपानानिचतानिप्रतिरूपकाणिचेतिविशेषणसमासः, विशेषमस्यात्र परनिपातः प्राकृतत्वात्
तेसिणमित्यादि, तेषांचत्रिसोपानप्रतिरूपकाणामयमेतद्रूपो-वक्ष्यमाणस्वरूपो ‘वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'वज्रमया' वज्ररत्नमया 'नेमी' नेमिभूमिका तत्र ऊर्द्ध निर्गच्छन्तःप्रदेशाः रिष्ठरन्तमयानि प्रतिष्ठानानिनिष्ठानानि त्रिसोपानमूलप्रदेशाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि, लोहिताक्षय्यः सूचयः-फलकद्वय-सम्बन्धविघटनाभावहेतुपादुकास्थानीयाः 'वज्रमया' वज्ररत्नपूरिताः ‘सन्धयः' फलकद्वाया-पान्तरालप्रदेशाः नानामणिमयानि अवलम्ब्यन्ते इति अवम्बनानि-अवतरतामुत्तरतां चालम्ब-नहेतुभूता अवम्लबन्बाहातो विनिर्गताः केचिदवयवाः, 'अवलम्बणवाहाओ यत्ति अवलम्बनवाहाश्च नानामणिमय्यः, अवलम्बनबाहानाम उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, पासाइयाओ' इत्यादि पदचतुष्टयं प्राग्वत्।
"तेसि ण'मित्यादि, तेषां ‘णमिति वाक्यालङ्कारे त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येक तोरणं प्रज्ञप्तं, तेषां च तोरणानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तोरणा नानामणिमयाइदि, कचिदेवंपाः-'तेसिणं तिसोवाणपडिरूवगाणंपुरतो तोरमे विउव्वइतोरणा नानामणिमया' इत्यादि, मणयः-चन्द्रकान्ताद्याः, विविधमणिमयानि तोरणानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि-समीप्येन स्थितानि, तानि च कदाचिच्चलानि अथवा अपदपतितानि वाऽऽशङक्येरन्तत आह-सम्यक्-निश्चलतया अपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, उपनिविष्टसन्निविष्टानि, 'विविहमुत्तंतरो वचियाई' इतित विविधा विविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानि ‘अन्तरे तिअन्तराशब्दोऽगृहीत-वीप्योऽपिसामर्थ्याद्वीप्सां गमयति, अन्तरा रूपोपचितानि यावता तत्र तानि तथा।।
"विविहतारोवचियाई विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभार्थं तारिका निबध्यन्ते इति प्रतीतं लोकेऽपीति विविधतारारूपोपचितानि 'जाव पडिरूवा' इति यावत्करणात् 'ईहामिगउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवइरवेइयापरिगयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव' एवं नाम स्तम्भद्वयसन्निविष्टानि तोरणानि व्यवस्थितानि यथा विद्याधरमलययुगलयन्त्रयुक्तानीवप्रतिभासते इति, 'अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसिमामा भिब्मिसमाणाचकखुल्लोयणलेसा सुहफासा सस्सिरीयरूवापासाइया दरिसणिज्जाअभिरुवा' इति परिग्रहः, कवचिदेतत्सा-क्षाल्लिखितमपि दृश्यते।
मू. (१५-वर्तते) तेसिणं तोरणाणं उप्पिं अट्ठमंगलगा पन्नत्ता, तंजहा-सोत्थियसिरिवच्छनंदियावत्तवद्धमाणगमदासणकलसमच्छदप्पणा (जाव पडिरूवा) तेसिंणंतोरणाणं उप्पिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org