SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ मूलं- ३ २०१ समासः, ततो भूयः पूर्वपदेन विशेषणसमासः, तथा अभ्यन्तराणि अभ्यन्तरभागवर्तीनि पुष्पाणि च फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तोच्छन्ना इति' बहिस्तः पत्रैश्छन्ना-व्याप्ता बहिपत्रच्छन्नाः, तथा पत्रैश्च पुष्पैश् अवच्छन्नपरिच्छन्नाः - अत्यन्तमाच्छादिताः, तथा नीरोगकाः रोगवर्जिता अकण्टककाः- कण्टकरहिताः, न तेषां प्रत्यासन्ना बब्बूलादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्निग्धानि फलानि येषां ते स्निग्धफलाः । तथा प्रत्यासन्नैर्नानाविधैः -- नानाप्रकारैर्गुच्छैः - वृन्ताकीप्रभृतिभिर्गुल्मैः - नवमालिकादिभिर्मण्डपकैः शोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रैः - नानाप्रकरारैः शुभैः - मण्डनभूतैः केतुभि - ध्वजैर्बहुला - व्याप्ता विचित्र शुभकेतुबहुला -, तथा 'वाविपुक्खरिणीदिहियासु य सुनिवेसियरम्मजालधरगा' वाप्यश्चतुरनकारास्ता एव वृत्ताः पुष्करिण्यः, यदिवा पुष्कराणि वर्त्तन्ते यासु ताः पुष्करिण्यः, दीर्घिका - ऋजुसारिण्यः, वापीषु पुष्करिणीषु दीर्घिकासु च सुष्ठु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्घिकासु सुनिवेशितरम्यजालगृहकाः, तथा पिडिमा - पिण्डिता सती निर्धारिमा - दूरं विनिर्गच्छन्ती पिण्डिमनिर्हारिमा तां सुगन्धि सुगन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशात् मनोहरा शुभसुरभिमनोहरा तां च । 'महया' इति प्राकृतत्वात् द्वितीयार्थे तृतीया, महतीमित्यर्थ, गन्धधाणिं यावद्भिर्गन्धपुग्लैर्गन्धविषये गन्धध्राणिरुपजायते तावती गन्धपुद्गलसंहतिरुपचारात् गन्धध्राणिरित्युच्यते, तां निरन्तरं मुञ्चन्तः, तथा 'सुहसेउकेउबहुला' इति शुभाः -- प्रधाना इति सेतवो-मार्गा आलवाल - पाल्यो वा केतवो - ध्वजा बहुला वहवो येषां ते तथा, 'अनेगरहसगडजाणजुग्गगिल्लिथिल्लिसिवियसंदमाणियपडिमोयणा' इति, रथा द्विविधा - क्रिडारथाः सङग्रामरथाश्च, शकटानि प्रतीतानि, यानानि-सामान्यतः शेषाणि वाहनानि युग्यानि - गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिबिकाः - कूटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथशकटादीनां मध्येऽतिविस्तीर्णत्वात्, प्रतिमोचनं येषु तत्तथा, 'पासादीया' इत्यादिपदचतुष्टं प्राग्वत् । 'तेणं तिलगा' इत्यादि पाठसिद्धं, नवरं 'नागलयाहिं' ति नागाः - दुमविशेषाः 'वणलयाहिं' ति वना अपि द्रुमविशेषाः, द्रुमाणां च लतात्वमेकशाखाकानां द्रष्टव्यं, ये हि द्रुमा ऊर्ध्वगतैकशाखा न तु दिग्विदिकप्रसृतबहुशाखास्ते लता इति प्रसिद्धाः, 'निच्चं कुसुमियाओ जाव पडिरूवाओ' इत्यत्र यावच्छब्दकरणात् ‘निच्चं कुसुमियाओ निच्चं मालइयाओ निच्चं लवइयाओ निच्चं थवइयाओ निच्चं गुच्छियाओ निच्चं गुम्मियाओ निच्चं जमलियाओ निच्चं जुयलियाओ निच्चं विणमियाओ निच्चं पणमियाओ सुविभत्तपडिमंजरिवडिंसगधरीओ निच्चं कुसुमियलइयथवइयलवइयगुम्मियजमलियजुयलियगुच्छियविणमयपणमियसुविभत्तपडिमंजरिवर्डिसगधरीओ संपिंडियदरियभमरमहुयरिपहकरपरिल्लेतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमेंतगुंजंतदेसभागाओ पासाइयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ इति' एतच्च समस्तं प्राग्वत् व्याख्येयं तस्य 'ण' मिति प्राग्वत्, अशोकवरपादपस्य उपरि बहूनि अष्टावष्टमङ्गलकानि प्रज्ञप्तानि । तद्यथा - स्वस्तिकः श्रीवृक्षो 'नंदियावत्ते' इति नन्द्यावर्त्ताः क्वचिद् नन्दावत्त इति पाठः, तत्र नन्दावर्त्त इति शब्दसंस्कारः, वर्द्धमानकं - शरावसम्पुटं भद्रासनं कलशो मत्स्ययुगमं दर्पणः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy