________________
२००
राजप्रश्नीयउपाङ्गसूत्रम्-३ ___यानि वृक्षस्थानिजरठानि पाण्डुपत्राणि वातेन नि न भूमौ पातितानि भूमेरपिच प्रायो निर्दूय नि यान्यत्रापसारितानीति, 'नवहरियभिसंतपत्तभारंधयारगभीरदरिसाणिज्जा' इति नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन स्निग्धत्वेन वा दीप्यमानेन पत्रभारेण-दलसञ्चयेन योजातोऽन्धकारस्तेनगम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीयानवहरितभासमान-पत्रभारान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतैः निरन्तरविनिर्गतैरितिभावः, नवतरुण-पत्रपल्लवैस्तथा कोमलैः-मनोहरुज्ज्वलैः-शुद्धेश्चलभिईषत्कम्पमानैः किशलयैः-अवस्था- विशेषोपेतैः पल्लविशेषैस्तथा सुकुमारैः प्रवालेः-पल्लवाङ्करैः शोभितानि वराङ्कुराणि-वराङ्कुरोपेतानि अग्रशिखराणियेषांते उपनविनिर्गतनवतरुणपत्रपल्लवकोमलोज्ज्वलचलत्किशलयसुकुमालप्रवालशोभितवराङ्कुराग्रशिखराः इहाङ्कुरप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः।
तथा नित्यं-सर्वकालं षटस्वपि ऋतुषु इत्यर्थ, 'कुसुमिताः' कुसुमानिइहाङ्करप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः । तथानित्यं सर्वकालंषडस्वपिऋतुषुइत्यर्थ, कुसुमिताः' कुसुमानिपुष्पाणि सातान्येषा-मिति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, निच्चं मालइया' इति नित्यंसर्वकालं मुकुलितानि, मुकुलानि नाम कुडमलानि कलिका इत्यर्थः, 'निचं लवइया' इति पल्लविताः, नित्यं 'थवइया' इति स्तबकिताः स्तबकभारवन्त इत्यर्थः, नित्यं ‘गुलइया' इति गुल्मिताः स्तबकगुल्मौ गुच्छविशेषौ, नित्यं 'गोच्छिता' गोच्छवन्तः, नित्यं 'जमलिता' यमलंनाम समानजातीययोर्युगम् तत् सञ्जातमेषा- मिति यमलिताः, नित्यं युगलिता युगलं-सजातीयविजातीयरोर्द्वन्दंय तदेषां सातमिति युगलिताः, तथा नित्यं सर्वकालं फलभरेण विनताःईषन्नताः, तथा नित्यं महता फलभरेण प्रकर्षणातिदूरं नताः प्रणताः, तथा नित्यं-सर्वकालं सुविभक्तः-सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंस-कस्तद्धरास्तद्धारिणः ।
एवं सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्य वृक्षस्योक्तः, साम्प्रतं केषाञ्चिवृक्षाणां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह-निच्चं कुसुमियमउयलयेत्यादि' किमुक्तं भवतिकेचित्कुसुमिताघेकैकगुणयुक्ताः केचित्समस्तकुसुमितादिगुणयुक्ता इति, अतएवकुसुमियमालइयमउलियेत्यादिपदेषुकर्मधारयः, तथा शुकबर्हिणमदनशालिकाकोकिलाकोरककोभव-भिङ्गारककोण्डकलजीवंतीजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनगणानांमिथुनैः-स्त्रीपुंसयुक्तैर्यद्विचरितम् इतस्ततोगमनं यच्च शब्दोनितिक-अन्नतशब्दकं मधुरस्वरंच नादितं-लपितं येषु ते तथा, अत एव सुरभ्याः सुष्टुरमणीयाः, अत्र शुकाः-कीराः, बर्हिणो-मयूराः, मदनशालिकाःशारिकाः, कोकिलाः-पिकाः, चक्रवाककलहंससारसाःप्रतीताः, शेषास्तुजीवविशेषा लोकतो वेदितव्याः,तता सम्पिण्डिताः एकत्रपिण्डीभूताः ताः-मदोन्मत्तया दध्मिाता भ्रमरमधुकरीणां पहकराः-सङघाताः ‘पहकर ओरोह संघाया' इति देशीनाममालावचनात् यत्र ते सम्पिण्डितप्तभ्रमरमधुकरीपहकराः।
तथा परिलीयमानाः-अन्यत आगत्याश्रयन्तो मत्ताः षट्पदाः कुसुमासवलोलाःकिञ्जल्कपानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तश्च-शब्दविशेषं च विदधाना देशभागेषु येषां ते परिलीयमानमत्तषटपदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जद्देशभागाः, गमकत्वादेवमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org