________________
१९९
मूलं-३ निच्चं जमलिया निच्चं जुयलिया निचं नमिया निच्चं पणमिया निच्चं कुसुमियमउलियलवइयथवइयगुलइयगुच्छियजमलियजुयलियविणमियपणमियसुविभत्तपिडिमंजरिवडिंसयधरा सुकबरहिणमणसक्कलागाकोइलकोरुगकभिंगारक कोंडलकजीवंजीवकनंदीमुखकविलपिंगलखगकारंडवचक्कवाककलहंससार सणेगसउणगणमिहुणविरइयसद्दोन्नइयमहुरसरणाइया सुरम्मा सुपिंडियदरियभमरमहुयरिपहकरपरिल्लवमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजुतदेसभागा अभिरपुप्फफला बाहिरपत्तोच्छण्णा पत्तेहियपुप्फेहि यउच्छननपलिच्छिन्ना निरोगकासाउफला अकंटका नानाविहगुच्छगुम्ममंडवगसोहियाविचित्तसुहुकेउपभूया वाविपुखरिणिदीहयासु य सुनिवेसियरम्मजालधरगा पिडिमनीहारिमसुगंधिसुहसुभिमणहरं च महया गंधद्धाणु मुंचंता सुहसेउकेतुबहुला अनेगसगडजाणजुग्गगिल्लिथिल्लिसीयसंदमानिपडिमोयगापासाइया दरिसणिज्जा अभिरुवा पडिरूवा' इति परिग्रहः । __अस्य व्याख्या-इह मूलानि सुप्रतीतानि यानि कन्दस्याध प्रसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्तेअपि प्रतीताः, खन्धः-थुडं त्वक्-छल्ली शालाः-शाखाः प्रवालः-पल्लवाङ्कुरः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशयेन कचिद् भूम्निवामतुष्प्रत्ययः, अनुपुव्वसुजायरुचिलवट्टभावपरिणया' इतिआनुपूर्व्या-मूलादिपरिपाट्या सुष्टुजाता आनुपूर्वीसुजातारुचिराःस्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणतावृत्तभावपरिणताः, किमुक्तं भवति
एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभि प्रशाखाभिश्च प्रसृता यथा वर्तुलाः संजाता इति, आनुपूर्वसुजाताश्चते रुचिराश्चआनुपूर्वीसुजातरुचिरास्तेचतेवृत्तभावपरिणताश्चआनुपूर्वीसुजातरुचिरवृत्तभावपरिणताः ते तथा, तिलकादयः पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य सत्वमिति ‘एगखंधा' इति सूत्रपाठः, तथा अनेकाभि शाकाभि प्रशाखाभिश्च मध्यभागे विटपोविस्तारोशेषांतेतथा, तिर्यग्बाहुद्वयंप्रसारणप्रमाणोव्यामः,व्यामीयन्ते-परिच्छिद्यन्ते रज्ज्वाद्यनेनेति व्यामः, बहुलेवचनात् 'करणेकचिदितिडप्रत्ययः,अनेकैनरव्यामैः-पुरुषव्यामैः सुप्रसारितैरग्राह्यः अप्रमेयोघनो-निबिडोविपुला-विस्तीर्णोवृक्षः-स्कन्धोयेषांतेअनेकनरव्याम-सुप्रसारिताग्राह्यधनविपुलवृत्तस्कन्धाः, तथा अच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः, किमुक्तं भवति ?-न तेषां पत्रेषु वातदोषतः कालदोषतोवा गड्डरिकादिरितरुपजातो येन तेषुपत्रेषु छिद्राण्यभविष्यनित्यच्छिद्रपत्राः अथमा एवं नामान्योऽन्यं शाखाप्रशाकानुप्रवेशात्पत्राणिपत्राणामुपरिजातानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यते इति।
तथा चाह-'अविरलपत्ता' इति, अत्र हेतौ प्रथमा, ततोऽयमर्थः-यतः अविरलपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्राइति कुत इत्याह-अवातीनपत्रावातीनानि वातोपहतानि, वातेन पातिनानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति? न प्रवलेन खरपरुषेणवातेन तेषांपत्राणिभूमौनिपात्यन्ते, ततोऽवातीनपत्रत्वादविरलपत्रा इति अच्छिद्रपत्रा इति, अच्छिद्रपत्रा इत्यप्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह-'अणईइपत्ता' न विद्यते ईतिगड्डरिकादिरूपा येषां तान्यतीतिनि अतीतीनि पत्राणि येषां ते अतीतपत्राः, अतीतिपत्रत्वाचाच्छिद्रपत्राः, 'निद्धयजरढपंडुपत्ता' इति निर्दूतानि अपनीतानिजरठानिपाण्डुपत्राणियेभ्यस्ते निभृतजरठपाण्डुपत्राः, किमुक्तं भवति?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org